Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड षडशीतितमः

॥ रावणिबलकदनम् ॥

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।

परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥

यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।

एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २ ॥

अस्यानीकस्य महतो भेदने यत लक्ष्मण ।

राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥

स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।

अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ४ ॥

जहि वीर दुरात्मानं मायापरमधार्मिकम् ।

रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।

ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥

ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः ।

अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥

राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।

उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८ ॥

स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् ।

शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥

शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः ।

उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ १० ॥

ते राक्षसा वानरेषु विकृताननबाहवः ।

निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥

तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।

अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ १२ ॥

ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।

रक्षसां वध्यमानानां महद्भयमजायत ॥ १३ ॥

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम् ।

उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥

वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।

आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥

स भीमकार्मुकधरः कालमेघसमप्रभः ।

रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् ।

रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥

तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् ।

धरणीधरसङ्काशो महावृक्षमरिन्दमः ॥ १८ ॥

स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।

चकार बहुभिर्वृक्षैर्निःसञ्ज्ञं युधि वानरः ॥ १९ ॥

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।

राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २० ॥

शितशूलधराः शूलैरसिभिश्चासिपाणयः ।

शक्तिभिः शक्तिहस्ताश्च पट्‍टिशैः पट्‍टिशायुधाः ॥ २१ ॥

परिघैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः ।

शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥

घौरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः ।

मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥ २३ ॥

अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ।

तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ २४ ॥

स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।

सूदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥

स सारथिमुवाचेदं याहि यत्रैष वानरः ।

क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।

वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥

सोऽभ्युपेत्य शरान्खड्गान्पट्‍टिशांश्च परश्वधान् ।

अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २८ ॥

तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।

रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥

युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते ।

वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ ३० ॥

बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे ।

वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥

हनुमन्तं जिघांसन्तं समुद्यतशरासनम् ।

रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥

यः स वासवनिर्जेता रावणस्यात्मसम्भवः ।

स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।

जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ३४ ॥

इत्येवमुक्तस्तु तदा महात्मा

विभीषणेनारिविभीषणेन ।

ददर्श तं पर्वतसन्निकाशं

रणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥

valmiki ramayan yuddhakand adhyay 86