Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकसप्ततितमः

॥ अतिकायवधः ॥

स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् ।

भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १ ॥

पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ ।

युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥ २ ॥

चुकोप च महातेजा ब्रह्मदत्तवरो युधि ।

अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ॥ ३ ॥

स भास्करसहस्रस्य सङ्घातमिव भास्वरम् ।

रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥ ४ ॥

स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः ।

नाम विश्रावयामास ननाद च महास्वनम् ॥ ५ ॥

तेन सिंहप्रणादेन नामविश्रावणेन च ।

ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६ ॥

ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः ।

भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥ ७ ॥

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे ।

भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥ ८ ॥

तेऽतिकायं समासाद्य वानरा मूढचेतसः ।

शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ९ ॥

ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ।

ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् ॥ १० ॥

स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये ।

वानरान्सान्त्वयित्वाऽथ विभीषणमुवाच ह ॥ ११ ॥

कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः ।

युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ १२ ॥

य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः ।

अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ १३ ॥

कालजिह्वाप्रकाशाभिर्य एषोऽतिविराजते ।

आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १४ ॥

धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः ।

शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥ १५ ॥

क एष रक्षःशार्दूलो रणभूमिं विराजयन् ।

अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥ १६ ॥

ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते ।

सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ॥ १७ ॥

त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् ।

शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ १८ ॥

सध्वजः सपताकश्च सानुकर्षो महारथः ।

चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ॥ १९ ॥

विंशतिर्दश चाष्टौ च तूण्योऽस्य रथमास्थिताः ।

कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ २० ॥

द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ ।

चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ॥ २१ ॥

रक्तकण्ठगुणो धीरो महापर्वतसन्निभः ।

कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ २२ ॥

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ।

शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ २३ ॥

कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम् ।

पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ॥ २४ ॥

आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् ।

यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ २५ ॥

स पृष्टो राजपुत्रेण रामेणामिततेजसा ।

आचचक्षे महातेजा राघवाय विभीषणः ॥ २६ ॥

दशग्रीवो महातेजा राजा वैश्रवणानुजः ।

भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ २७ ॥

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे ।

वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ २८ ॥

अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे ।

भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥ २९ ॥

यस्य बाहू समाश्रित्य लङ्का वसति निर्भया ।

तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ ३० ॥

एतेनाराधितो ब्रह्मा तपसा भावितात्मना ।

अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ ३१ ॥

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा ।

एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्वरः ॥ ३२ ॥

एतेन शतशो देवा दानवाश्च पराजिताः ।

रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥ ३३ ॥

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः ।

पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥ ३४ ॥

एषोऽतिकायो बलवान्राक्षसानामथर्षभः ।

रावणस्य सुतो धीमान्देवदानवदर्पहा ॥ ३५ ॥

तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव ।

पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ ३६ ॥

ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् ।

विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ ३७ ॥

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् ।

अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥ ३८ ॥

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च ।

पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् ॥ ३९ ॥

तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः ।

अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ ४० ॥

तांश्चैव सर्वान्स हरीन् शरैः सर्वायसैर्बली ।

विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥ ४१ ॥

तेऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः ।

न शेकुरतिकायस्य प्रतिकर्तुं महारणे ॥ ४२ ॥

तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः ।

मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ ४३ ॥

स राक्षसेन्द्रो हरिसैन्यमध्ये

नायुध्यमानं निजघान कञ्चित् ।

उपेत्य रामं सधनुः कलापी

सगर्वितं वाक्यमिदं बभाषे ॥ ४४ ॥

रथे स्थितोऽहं शरचापपाणिः

न प्राकृतं कञ्चन योधयामि ।

यश्चास्ति कश्चिद्व्यवसाययुक्तो

ददातु मे क्षिप्रमिहाद्य युद्धम् ॥ ४५ ॥

तत्तस्य वाक्यं ब्रुवतो निशम्य

चुकोप सौमित्रिरमित्रहन्ता ।

अमृष्यमाणश्च समुत्पपात

जग्राह चापं च ततः स्मयित्वा ॥ ४६ ॥

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् ।

पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ४७ ॥

पूरयन्स महीं शैलानाकाशं सागरं दिशः ।

ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् ॥ ४८ ॥

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा ।

विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ४९ ॥

अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् ।

आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ ५० ॥

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः ।

गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ ५१ ॥

न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि ।

सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ ५२ ॥

सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि ।

न्यस्य चापं निवर्तस्व मा प्राणान्जहि मद्गतः ॥ ५३ ॥

अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि ।

तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥ ५४ ॥

पश्य मे निशितान्बाणानरिदर्पनिषूदनान् ।

ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥ ५५ ॥

एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् ।

मृगराज इव क्रुद्धो नागराजस्य शोणितम् ।

इत्येवमुक्त्वा सङ्क्रुद्धः शरं धनुषि सन्दधे ॥ ५६ ॥

श्रुत्वाऽतिकायस्य वचः सरोषं

सगर्वितं सम्यति राजपुत्रः ।

स सञ्चुकोपातिबलो बृहच्छ्रीः

उवाच वाक्यं च ततो महार्थम् ॥ ५७ ॥

न वाक्यमात्रेण भवान्प्रधानो

न कत्थनात्सत्पुरुषा भवन्ति ।

मयि स्थिते धन्विनि बाणपाणौ

निदर्शय स्वात्मबलं दुरात्मन् ॥ ५८ ॥

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।

पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ५९ ॥

सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः ।

शरैर्वा यदि वाऽप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ ६० ॥

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।

मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ॥ ६१ ॥

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः ।

पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥ ६२ ॥

बालोऽयमिति विज्ञाय न माऽवज्ञातुमर्हसि ।

बालो वा यदि वा वृद्धो मृत्युं जानीहि सम्युगे ॥ ६३ ॥

बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभिः क्रमैः ।

इत्येवमुक्त्वा सङ्क्रुद्धः शरान्धनुषि सन्दधे ॥ ६४ ॥

लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ।

अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६५ ॥

ततो विद्याधरा भूता देवा दैत्या महर्षयः ।

गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमन् ॥ ६६ ॥

ततोऽतिकायः कुपितश्चापमारोप्य सायकम् ।

लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् ॥ ६७ ॥

तमापतन्तं निशितं शरमाशीविषोपमम् ।

अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ ६८ ॥

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ।

अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे ॥ ६९ ॥

तान् शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः ।

तानप्राप्तान् शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ॥ ७० ॥

[* पञ्चभिः पञ्च चिच्छेद पावकार्कसमप्रभः । *]

स तान् छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ।

आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ७१ ॥

तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः ।

विचकर्ष च वेगेन विससर्ज च वीर्यवान् ॥ ७२ ॥

पूर्णायतविसृष्टेन शरेण नतपर्वणा ।

ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ७३ ॥

स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ।

ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ ७४ ॥

राक्षसः प्रचकम्पे च लक्ष्मणेषुप्रपीडितः ।

रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ ७५ ॥

चिन्तयामास चाश्वस्य विमृश्य च महाबलः ।

साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः ॥ ७६ ॥

विधायैवं विनम्यास्यं नियम्य च भुजावुभौ ।

स रथोपस्थमास्थाय रथेन प्रचचार ह ॥ ७७ ॥

एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः ।

आददे सन्दधे चापि विचकर्षोत्ससर्ज च ॥ ७८ ॥

ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः ।

हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ७९ ॥

ततस्तान्राक्षसोत्सृष्टान् शरौघान्राघवानुजः ।

असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ ८० ॥

तान् शरान्युधि सम्प्रेक्ष्य निकृत्तान्रावणात्मजः ।

चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ८१ ॥

स सन्धाय महातेजास्तं बाणं सहसोत्सृजत् ।

ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८२ ॥

अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ।

सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ ८३ ॥

स चकार तदात्मानं विशल्यं सहसा विभुः ।

जग्राह च शरं तीक्ष्णमस्त्रेणापि च सन्दधे ॥ ८४ ॥

आग्नेयेन तदास्त्रेण योजयामास सायकम् ।

स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ ८५ ॥

अतिकायोऽपि तेजस्वी सौरमस्त्रं समादधे ।

तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ ८६ ॥

तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम् ।

अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८७ ॥

आग्नेयेनाभिसम्युक्तं दृष्ट्वा बाणं निशाचरः ।

उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ॥ ८८ ॥

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ।

तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ ॥ ८९ ॥

तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले ।

निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ॥ ९० ॥

ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् ।

तत्प्रचिच्छेद सौमित्रिरस्त्रेणैन्द्रेण वीर्यवान् ॥ ९१ ॥

ऐषीकं निहतं दृष्ट्वा रुषितो रावणात्मजः ।

याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ॥ ९२ ॥

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः ।

वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥ ९३ ॥

अथैनं शरधाराभिर्धाराभिरिव तोयदः ।

अभ्यवर्षत्सुसङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९४ ॥

तेऽतिकायं समासाद्य कवचे वज्रभूषिते ।

भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ९५ ॥

तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा ।

अभ्यवर्षन्महेषूणां सहस्रेण महायशाः ॥ ९६ ॥

स वृष्यमाणो बाणौघैरतिकायो महाबलः ।

अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ॥ ९७ ॥

न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः ।

अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥ ९८ ॥

ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः ।

ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ।

अवध्य एष हन्येषामस्त्राणां कवची बली ॥ ९९ ॥

ततस्तु वायोर्वचनं निशम्य

सौमित्रिरिन्द्रप्रतिमानवीर्यः ।

समाददे बाणममोघवेगं

तद्ब्राह्ममस्त्रं सहसा नियोज्य ॥ १०० ॥

तस्मिन्महास्त्रे तु नियुज्यमाने

सौमित्रिणा बाणवरे शिताग्रे ।

दिशश्च चन्द्रार्कमहाग्रहाश्च

नभश्च तत्रास चचाल चोर्वी ॥ १०१ ॥

तं ब्रह्मणोऽस्त्रेण नियुज्य चापे

शरं सुपुङ्खं यमदूतकल्पम् ।

सौमित्रिरिन्द्रारिसुतस्य तस्य

ससर्ज बाणं युधि वज्रकल्पम् ॥ १०२ ॥

तं लक्ष्मणोत्सृष्टममोघवेगं

समापतन्तं ज्वलनप्रकाशम् ।

सुवर्णवज्रोत्तमचित्रपुङ्खं

तदाऽतिकायः समरे ददर्श ॥ १०३ ॥

तं प्रेक्षमाणः सहसाऽतिकायो

जघान बाणैर्निशितैरनेकैः ।

स सायकस्तस्य सुपर्णवेगः

तदातिकायस्य जगाम पार्श्वम् ॥ १०४ ॥

तमागतं प्रेक्ष्य तदाऽतिकायो

बाणं प्रदीप्तान्तककालकल्पम् ।

जघान शक्त्यृष्टिगदाकुठारैः

शूलैर्हुलैश्चात्यविपन्नचेताः ॥ १०५ ॥

तान्यायुधान्यद्भुतविग्रहाणि

मोघानि कृत्वा स शरोऽग्निदीप्तः ।

प्रगृह्य तस्यैव किरीटजुष्टं

ततोऽतिकायस्य शिरो जहार ॥ १०६ ॥

तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् ।

पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ १०७ ॥

तं तु भूमौ निपततं दृष्ट्वा विक्षिप्तभूषणम् ।

बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ १०८ ॥

ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः ।

विनेदुरुच्चैर्बहवः सहसा विस्वरैःस्वरैः ॥ १०९ ॥

ततस्ते त्वरितं याता निरपेक्षा निशाचराः ।

पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ ११० ॥

प्रहर्षयुक्ता बहवस्तु वानराः

प्रबुद्धपद्मप्रतिमाननास्तदा ।

अपूजयँल्लक्ष्मणमिष्टभागिनं

हते रिपौ भीमबले दुरासदे ॥ १११ ॥

अतिबलमतिकायमभ्रकल्पं

युधि विनिपात्य स लक्ष्मणः प्रहृष्टः ।

त्वरितमथ तदा स रामपार्श्वं

कपिनिवहैश्च सुपूजितो जगाम ॥ ११२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥

valmiki ramayan yuddhakand adhyay 71