Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकोनषष्टितमः

॥ रावणाभिषेणनम् ॥

तस्मिन्हते राक्षससैन्यपाले

प्लवङ्गमानामृषभेण युद्धे ।

भीमायुधं सागरतुल्यवेगं

विदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥

गत्वाऽथ रक्षोधिपतेः शशंसुः

सेनापतिं पावकसूनुशस्तम् ।

तच्चापि तेषां वचनं निशम्य

रक्षोधिपः क्रोधवशं जगाम ॥ २ ॥

सङ्ख्ये प्रहस्तं निहतं निशम्य

शोकार्दितः क्रोधपरीतचेताः ।

उवाच तान्नैरृतयोधमुख्या-

-निन्द्रो यथा चामरयोधमुख्यान् ॥ ३ ॥

नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।

सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ ४ ॥

सोऽहं रिपुविनाशाय विजयायाविचारयन् ।

स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥ ५ ॥

अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।

निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥

अद्य सन्तर्पयिष्यामि पृथिवीं कपिशोणितैः ।

रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ७ ॥

स एवमुक्त्वा ज्वलनप्रकाशं

रथं तुरङ्गोत्तमराजयुक्तम् ।

प्रकाशमानं वपुषा ज्वलन्तं

समारुरोहामरराजशत्रुः ॥ ८ ॥

स शङ्खभेरीपणवप्रणादै-

-रास्फोटितक्ष्वेलितसिंहनादैः ।

पुण्यैः स्तवैश्चाप्यभिपूज्यमान-

-स्तदा ययौ राक्षसराजमुख्यः ॥ ९ ॥

स शैलजीमूतनिकाशरूपै-

-र्मांसादनैः पावकदीप्तनेत्रैः ।

बभौ वृतो राक्षसराजमुख्यो

भूतैर्वृतो रुद्र इवासुरेशः ॥ १० ॥

ततो नगर्याः सहसा महौजा

निष्क्रम्य तद्वानरसैन्यमुग्रम् ।

महार्णवाभ्रस्तनितं ददर्श

समुद्यतं पादपशैलहस्तम् ॥ ११ ॥

तद्राक्षसानीकमतिप्रचण्ड-

-मालोक्य रामो भुजगेन्द्रबाहुः ।

विभीषणं शस्त्रभृतां वरिष्ठ-

-मुवाच सेनानुगतः पृथुश्रीः ॥ १२ ॥

नानापताकाध्वजशस्त्रजुष्टं

प्रासासिशूलायुधशस्त्रजुष्टम् ।

सैन्यं गजेन्द्रोपमनागजुष्टं

कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १३ ॥

ततस्तु रामस्य निशम्य वाक्यं

विभीषणः शक्रसमानवीर्यः ।

शशंस रामस्य बलप्रवेकं

महात्मनां राक्षसपुङ्गवानाम् ॥ १४ ॥

योऽसौ गजस्कन्धगतो महात्मा

नवोदितार्कोपमताम्रवक्त्रः ।

प्रकम्पयन्नागशिरोऽभ्युपैति

ह्यकम्पनं त्वेनमवेहि राजन् ॥ १५ ॥

योऽसौ रथस्थो मृगराजकेतु-

-र्धून्वन्धनुः शक्रधनुःप्रकाशम् ।

करीव भात्युग्रविवृत्तदंष्ट्रः

स इन्द्रजिन्नाम वरप्रधानः ॥ १६ ॥

यश्चैष विन्ध्यास्तमहेन्द्रकल्पो

धन्वी रथस्थोऽतिरथोऽतिवीरः ।

विस्फारयंश्चापमतुल्यमानं

नाम्नातिकायोऽतिविवृद्धकायः ॥ १७ ॥

योऽसौ नवार्कोदितताम्रचक्षु-

-रारुह्य घण्टानिनदप्रणादम् ।

गजं खरं गर्जति वै महात्मा

महोदरो नाम स एष वीरः ॥ १८ ॥

योऽसौ हयं काञ्चनचित्रभाण्ड-

-मारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।

प्रासं समुद्यम्य मरीचिनद्धं

पिशाच एषोऽशनितुल्यवेगः ॥ १९ ॥

यश्चैष शूलं निशितं प्रगृह्य

विद्युत्प्रभं किङ्करवज्रवेगम् ।

वृषेन्द्रमास्थाय गिरिप्रकाश-

-मायाति योऽसौ त्रिशिरा यशस्वी ॥ २० ॥

असौ च जीमूतनिकाशरूपः

कुम्भः पृथुव्यूढसुजातवक्षाः ।

समाहितः पन्नगराजकेतु-

-र्विस्फारयन्भाति धनुर्विधून्वन् ॥ २१ ॥

यश्चैष जाम्बूनदवज्रजुष्टं

दीप्तं सधूमं परिघं प्रगृह्य ।

आयाति रक्षोबलकेतुभूत-

-स्त्वसौ निकुम्भोऽद्भुतघोरकर्मा ॥ २२ ॥

यश्चैष चापासिशरौघजुष्टं

पताकिनं पावकदीप्तरूपम् ।

रथं समास्थाय विभात्युदग्रो

नरान्तकोऽसौ नगशृङ्गयोधी ॥ २३ ॥

यश्चैष नानाविधघोररूपै-

-र्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः ।

भूतैर्वृतो भाति विवृत्तनेत्रैः

सोऽसौ सुराणामपि दर्पहन्ता ॥ २४ ॥

यत्रैतदिन्द्रप्रतिमं विभाति

छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।

अत्रैष रक्षोऽधिपतिर्महात्मा

भूतैर्वृतो रुद्र इवावभाति ॥ २५ ॥

असौ किरीटी चलकुण्डलास्यो

नगेन्द्रविन्ध्योपमभीमकायः ।

महेन्द्रवैवस्वतदर्पहन्ता

रक्षोधिपः सूर्य इवावभाति ॥ २६ ॥

प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।

अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २७ ॥

आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।

सुव्यक्तं लक्षये ह्यस्य रूपं तेजः समावृतम् ॥ २८ ॥

देवदानववीराणां वपुर्नैवंविधं भवेत् ।

यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २९ ॥

सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः ।

सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ॥ ३० ॥

भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः ।

भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३१ ॥

दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः ।

अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥ ३२ ॥

एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।

लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३३ ॥

ततः स रक्षोऽधिपतिर्महात्मा

रक्षांसि तान्याह महाबलानि ।

द्वारेषु चर्यागृहगोपुरेषु

सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ३४ ॥

इहागतं मां सहितं भवद्भि-

-र्वनौकसश्छिद्रमिदं विदित्वा ।

शून्यां पुरीं दुष्प्रसहां प्रमथ्य

प्रधर्षयेयुः सहसा समेताः ॥ ३५ ॥

विसर्जयित्वा सहितांस्ततस्तान्

गतेषु रक्षःसु यथानियोगम् ।

व्यदारयद्वानरसागरौघं

महाझषः पूर्णमिवार्णवौघम् ॥ ३६ ॥

तमापतन्तं सहसा समीक्ष्य

दीप्तेषुचापं युधि राक्षसेन्द्रम् ।

महत्समुत्पाट्य महीधराग्रं

दुद्राव रक्षोऽधिपतिं हरीशः ॥ ३७ ॥

तच्छैलशृङ्गं बहुवृक्षसानुं

प्रगृह्य चिक्षेप निशाचराय ।

तमापतन्तं सहसा समीक्ष्य

बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३८ ॥

तस्मिन्प्रवृद्धोत्तमसानुवृक्षे

शृङ्गे विकीर्णे पतिते पृथिव्याम् ।

महाहिकल्पं शरमन्तकाभं

समाददे राक्षसलोकनाथः ॥ ३९ ॥

स तं गृहीत्वाऽनिलतुल्यवेगं

सविस्फुलिङ्गज्वलनप्रकाशम् ।

बाणं महेन्द्राशनितुल्यवेगं

चिक्षेप सुग्रीववधाय रुष्टः ॥ ४० ॥

स सायको रावणबाहुमुक्तः

शक्राशनिप्रख्यवपुः शिताग्रः ।

सुग्रीवमासाद्य बिभेद वेगात्

गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ ४१ ॥

स सायकार्तो विपरीतचेताः

कूजन्पृथिव्यां निपपात वीरः ।

तं प्रेक्ष्यभूमौ पतितं विसञ्ज्ञं

नेदुः प्रहृष्टा युधि यातुधानाः ॥ ४२ ॥

ततो गवाक्षो गवयः सुदंष्ट्र-

-स्तथर्षभो ज्योतिमुखो नभश्च ।

शैलान् समुद्यम्य विवृद्धकायाः

प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ४३ ॥

तेषां प्रहारान्स चकार मोघा-

-न्रक्षोधिपो बाणगणैः शिताग्रैः ।

तान्वानरेन्द्रानपि बाणजालै-

-र्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४४ ॥

ते वानरेन्द्रास्त्रिदशारिबाणै-

-र्भिन्ना निपेतुर्भुवि भीमकायाः ।

ततस्तु तद्वानरसैन्यमुग्रं

प्रच्छादयामास स बाणजालैः ॥ ४५ ॥

ते वध्यमानाः पतिताः प्रवीरा

नानद्यमाना भयशल्यविद्धाः ।

शाखामृगा रावणसायकार्ता

जग्मुः शरण्यं शरणं स्म रामम् ॥ ४६ ॥

ततो महात्मा स धनुर्धनुष्मा-

-नादाय रामः सहसा जगाम ।

तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य

उवाच वाक्यं परमार्थयुक्तम् ॥ ४७ ॥

काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः ।

विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥ ४८ ॥

तमब्रवीन्महतेजा रामः सत्यपराक्रमः ।

गच्छ यत्नपरश्चापि भव लक्ष्मण सम्युगे ॥ ४९ ॥

रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ।

त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ॥ ५० ॥

तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।

चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ॥ ५१ ॥

राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च ।

अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥ ५२ ॥

स रावणं वारणहस्तबाहु-

-र्ददर्श दीप्तोद्यतभीमचापम् ।

प्रच्छादयन्तं शरवृष्टिजालै-

-स्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५३ ॥

तमालोक्य महातेजा हनुमान्मारुतात्मजः ।

निवार्य शरजालानि प्रदुद्राव स रावणम् ॥ ५४ ॥

रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।

त्रासयन्रावणं धीमान्हनुमान्वाक्यमब्रवीत् ॥ ५५ ॥

देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।

अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥ ५६ ॥

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।

विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥ ५७ ॥

श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।

संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५८ ॥

क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि ।

ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ ५९ ॥

रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् ।

प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ ६० ॥

एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।

आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६१ ॥

स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।

स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥ ६२ ॥

आजघानाभिसङ्क्रुद्धस्तलेनैवामरद्विषम् ।

ततस्तलेनाभिहतो वानरेण महात्मना ॥ ६३ ॥

दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ।

सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ॥ ६४ ॥

ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ।

अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ॥ ६५ ॥

साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः ।

रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ ६६ ॥

धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ।

सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ॥ ६७ ॥

ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।

ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत् ॥ ६८ ॥

संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।

पातयामास वेगेन वानरोरसि वीर्यवान् ॥ ६९ ॥

हनुमान्वक्षसि व्यूढे सञ्चचाल पुनः पुनः ।

विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ॥ ७० ॥

रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।

राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ॥ ७१ ॥

पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ।

शरैरादीपयामास नीलं हरिचमूपतिम् ॥ ७२ ॥

स शरौघसमायस्तो नीलः कपिचमूपतिः ।

करेणैकेन शेलाग्रं रक्षोधिपतयेऽसृजत् ॥ ७३ ॥

हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।

विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ७४ ॥

नीलेन सह सम्युक्तं रावणं राक्षसेश्वरम् ।

अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥ ७५ ॥

रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।

आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ ७६ ॥

तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः ।

कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥ ७७ ॥

सोऽश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् ।

अन्यांश्च विविधान्वृक्षान्नीलश्चिक्षेप सम्युगे ॥ ७८ ॥

स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः ।

अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ ७९ ॥

अभिवृष्टः शरौघेण मेघेनेव महाचलः ।

ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ ८० ॥

पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।

जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥ ८१ ॥

ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् ।

लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥ ८२ ॥

रावणोऽपि महातेजाः कपिलाघवविस्मितः ।

अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ ८३ ॥

ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।

नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥ ८४ ॥

वानराणां च नादेन संरब्धो रावणस्तदा ।

सम्भ्रमाविष्टहृदयो न किञ्चित्प्रत्यपद्यत ॥ ८५ ॥

आग्नेयेनाथ सम्युक्तं गृहीत्वा रावणः शरम् ।

ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥ ८६ ॥

ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ।

कपे लाघवयुक्तोऽसि मायया परयाऽनया ॥ ८७ ॥

जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर ।

तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ॥ ८८ ॥

तथापि त्वां मया युक्तः सायकोऽस्त्रप्रयोजितः ।

जीवतं परिरक्षन्तं जीविताद्भ्रंशयिष्यति ॥ ८९ ॥

एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।

सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ॥ ९० ॥

सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।

निर्दह्यमानः सहसा निपपात महीतले ॥ ९१ ॥

पितृमाहात्म्यसम्योगादात्मनश्चापि तेजसा ।

जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ ९२ ॥

विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।

रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ९३ ॥

आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।

धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ॥ ९४ ॥

तमाह सौमित्रिरदीनसत्त्वो

विस्फारयन्तं धनुरप्रमेयम् ।

अभ्येहि मामेव निशाचरेन्द्र

न वानरांस्त्वं प्रतियोद्धुमर्हः ॥ ९५ ॥

स तस्य वाक्यं प्रतिपूर्णघोषं

ज्याशब्दमुग्रं च निशम्य राजा ।

आसाद्य सौमित्रिमवस्थितं तं

कोपान्वितो वाक्यमुवाच रक्षः ॥ ९६ ॥

दिष्ट्यासि मे राघव दृष्टिमार्गं

प्राप्तोन्तगामी विपरीतबुद्धिः ।

अस्मिन् क्षणे यास्यसि मृत्युदेशं

संसाद्यमानो मम बाणजालैः ॥ ९७ ॥

तमाह सौमित्रिरविस्मयानो

गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम् ।

राजन्न गर्जन्ति महाप्रभावा

विकत्थसे पापकृतां वरिष्ठ ॥ ९८ ॥

जानामि वीर्यं तव राक्षसेन्द्र

बलं प्रतापं च पराक्रमं च ।

अवस्थितोऽहं शरचापपाणि-

-रागच्छ किं मोघविकत्थनेन ॥ ९९ ॥

स एवमुक्तः कुपितः ससर्ज

रक्षोऽधिपः सप्त शरान्सुपुङ्खान् ।

ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खै-

-श्चिच्छेद बाणैर्निशिताग्रधारैः ॥ १०० ॥

तान्प्रेक्षमाणः सहसा निकृत्ता-

-न्निकृत्तभोगानिव पन्नगेन्द्रान् ।

लङ्केश्वरः क्रोधवशं जगाम

ससर्ज चान्यान्निशितान्पृषत्कान् ॥ १०१ ॥

स बाणवर्षं तु ववर्ष तीव्रं

रामानुजः कार्मुकसम्प्रयुक्तम् ।

क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः

शरांश्च चिच्छेद न चुक्षुभे च ॥ १०२ ॥

स बाणजालान्यथ तानि तानि

मोघानि पश्यंस्त्रिदशारिराजः ।

विसिष्मिये लक्ष्मणलाघवेन

पुनश्च बाणान्निशितान्मुमोच ॥ १०३ ॥

स लक्ष्मणश्चाशु शरान् शिताग्रान्

महेन्द्रवज्राशनितुल्यवेगान् ।

सन्धाय चापे ज्वलनप्रकाशान्

ससर्ज रक्षोधिपतेर्वधाय ॥ १०४ ॥

स तान्प्रचिच्छेद हि राक्षसेन्द्र-

-श्छित्त्वा च ताँल्लक्ष्मणमाजघान ।

शरेण कालाग्निसमप्रभेण

स्वयम्भुदत्तेन ललाटदेशे ॥ १०५ ॥

स लक्ष्मणो रावणसायकार्त-

-श्चचाल चापं शिथिलं प्रगृह्य ।

पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्रा-

-च्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ १०६ ॥

निकृत्तचापं त्रिभिराजघान

बाणैस्तदा दाशरथिः शिताग्रैः ।

स सायकार्तो विचचाल राजा

कृच्छ्राच्च सञ्ज्ञां पुनराससाद ॥ १०७ ॥

स कृत्तचापः शरताडितश्च

मेदार्द्रगात्रो रुधिरावसिक्तः ।

जग्राह शक्तिं समुदग्रशक्तिः

स्वयम्भुदत्तां युधि देवशत्रुः ॥ १०८ ॥

स तां विधूमानलसन्निकाशां

वित्रासिनीं वानरवाहिनीनाम् ।

चिक्षेप शक्तिं तरसा ज्वलन्तीं

सौमित्रये राक्षसराष्ट्रनाथः ॥ १०९ ॥

तामापतन्तीं भरतानुजोऽस्त्रैः

जघान बाणैश्च हुताग्निकल्पैः ।

तथापि सा तस्य विवेश शक्तिः

बाह्वन्तरं दाशरथेर्विशालम् ॥ ११० ॥

स शक्तिमान् शक्तिसमाहतः सन्

मुहुः प्रजज्वाल रघुप्रवीरः ।

तं विह्वलन्तं सहसाभ्युपेत्य

जग्राह राजा तरसा भुजाभ्याम् ॥ १११ ॥

हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।

शक्यं भुजाभ्यामुद्धर्तुं न सङ्ख्ये भरतानुजः ॥ ११२ ॥

शक्त्या ब्राह्म्यापि सौमित्रिस्ताडितस्तु स्तनान्तरे ।

विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरन् ॥ ११३ ॥

ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।

तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् ॥ ११४ ॥

अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ।

अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ॥ ११५ ॥

आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ॥ ११६ ॥

जानुभ्यामपतद्भूमौ चचाल च पपात च ।

आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ॥ ११७ ॥

विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।

विसञ्ज्ञो मूर्छितश्चासीन्न च स्थानं समालभत् ॥ ११८ ॥

विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।

ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ॥ ११९ ॥

हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।

अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ १२० ॥

वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।

शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः ॥ १२१ ॥

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।

रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ॥ १२२ ॥

आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।

विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ १२३ ॥

रावणोऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे ।

आददे निशितान्बाणान् जग्राह च महद्धनुः ॥ १२४ ॥

निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।

राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ १२५ ॥

अथैनमुपसङ्गम्य हनुमान्वाक्यमब्रवीत् ।

मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥ १२६ ॥

विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।

तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ॥ १२७ ॥

आरुरोह महाशूरो बलवन्तं महाकपिम् ।

रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ॥ १२८ ॥

तमालोक्य महतेजाः प्रदुद्राव स राघवः ।

वैरोचनिमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ १२९ ॥

ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिःस्वनम् ।

गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १३० ॥

तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् ।

क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ १३१ ॥

यदीन्द्रवैवस्वतभास्करान्वा

स्वयम्भुवैश्वानरशङ्करान्वा ।

गमिष्यसि त्वं दश वा दिशोऽथवा

तथापि मे नाद्य गतो विमोक्ष्यसे ॥ १३२ ॥

यश्चैव शक्त्याभिहतस्त्वयाऽद्य

इच्छन्विषादं सहसाभ्युपेतः ।

स एव रक्षोगणराज मृत्युः

सपुत्रपौत्रस्य तवाद्य युद्धे ॥ १३३ ॥ [दारस्य]

एतेन चाप्यद्भुतदर्शनानि

शरैर्जनस्थानकृतालयानि ।

चतुर्दशान्यात्तवरायुधानि

रक्षःसहस्राणि निषूदितानि ॥ १३४ ॥

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।

वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ॥ १३५ ॥

रोषेण महताविष्टः पूर्ववैरमनुस्मरन् ।

आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ १३६ ॥

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ।

स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ १३७ ॥

ततो रामो महातेजा रावणेन कृतव्रणम् ।

दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥ १३८ ॥

तस्याभिचङ्क्रम्य रथं सचक्रं

साश्वध्वजच्छत्रमहापताकम् ।

ससारथिं साशनिशूलखड्गं

रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ १३९ ॥

अथेन्द्रशत्रुं तरसा जघान

बाणेन वज्राशनिसन्निभेन ।

भुजान्तरे व्यूढसुजातरूपे

वज्रेण मेरुं भगवानिवेन्द्रः ॥ १४० ॥

यो वज्रपाताशनिसन्निपाता-

-न्न चुक्षुभे नापि चचाल राजा ।

स रामबाणाभिहतो भृशार्त-

-श्चचाल चापं च मुमोच वीरः ॥ १४१ ॥

तं विह्वलन्तं प्रसमीक्ष्य रामः

समाददे दीप्तमथार्धचन्द्रम् ।

तेनार्कवर्णं सहसा किरीटं

चिच्छेद रक्षोधिपतेर्महात्मा ॥ १४२ ॥

तं निर्विषाशीविषसन्निकाशं

शान्तार्चिषं सूर्यमिवाप्रकाशम् ।

गतश्रियं कृत्तकिरीटकूटं

उवाच रामो युधि राक्षसेन्द्रम् ॥ १४३ ॥

कृतं त्वया कर्म महत्सुभीमं

हतप्रवीरश्च कृतस्त्वयाहम् ।

तस्मात्परिश्रान्त इव व्यवस्य

न त्वां शरैर्मृत्युवशं नयामि ॥ १४४ ॥

गच्छानुजानामि रणार्दितस्त्वं

प्रविश्य रात्रिञ्चरराज लङ्काम् ।

आश्वास्य निर्याहि रथी च धन्वी

तदा बलं द्रक्ष्यसि मे रथस्थः ॥ १४५ ॥

स एवमुक्तो हतदर्पहर्षो

निकृत्तचापः स हताश्वसूतः ।

शरार्दितः कृत्तमहाकिरीटो

विवेश लङ्कां सहसा स राजा ॥ १४६ ॥

तस्मिन्प्रविष्टे रजनीचरेन्द्रे

महाबले दानवदेवशत्रौ ।

हरीन्विशल्यान्सह लक्ष्मणेन

चकार रामः परमाहवाग्रे ॥ १४७ ॥

तस्मिन्प्रभिन्ने त्रिदशेन्द्रशत्रौ

सुरासुरा भूतगणा दिशश्च ।

ससागराः सर्षिमहोरागाश्च

तथैव भूम्यम्बुचराश्च हृष्टाः ॥ १४८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥

valmiki ramayan yuddhakand adhyay 59