Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड सप्ततितमः

॥ देवान्तकादिवधः ॥

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः ।

देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥

आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः ।

वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥

भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली ।

आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ ३ ॥

रथमादित्यसङ्काशं युक्तं परमवाजिभिः ।

आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४ ॥

स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः ।

वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५ ॥

देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः ।

महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।

स वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ ७ ॥

स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः ।

तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ८ ॥

परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः ।

त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ॥ ९ ॥

गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।

जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ॥ १० ॥

देवान्तकश्च सङ्क्रुद्धः परिघेण तदाऽङ्गदम् ।

उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥

स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः ।

न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥

स वेगवान्महावेगं कृत्वा परमदुर्जयः ।

तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ १३ ॥

तस्य तेन प्रहारेण नागराजस्य सम्युगे ।

पेततुर्लोचने तस्य विननाद स वारणः ॥ १४ ॥

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।

देवान्तकमभिप्लुत्य ताडयामास सम्युगे ॥ १५ ॥

स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः ।

लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ॥ १६ ॥

अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।

आविध्य परिघं घोरमाजघान तदाऽङ्गदम् ॥ १७ ॥

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।

जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ १८ ॥

तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।

घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ १९ ॥

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः ।

हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥ २० ॥

ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा ।

तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २१ ॥

तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ।

सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ २२ ॥

ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।

परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३ ॥

तमापतन्तमुत्प्लुत्य हनुमान्मारुतात्मजः ।

आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ २४ ॥

शिरसि प्रहरन्वीरस्तदा वायुसुतो बली ।

नादेनाकम्पयच्चैव राक्षसान्स महाकपिः ॥ २५ ॥

स मुष्टिनिष्पिष्टविकीर्णमूर्धा

निर्वान्तदन्ताक्षिविलम्बिजिह्वः ।

देवान्तको राक्षसराजसूनुः

गतासुरुर्व्यां सहसा पपात ॥ २६ ॥

तस्मिन्हते राक्षसयोधमुख्ये

महाबले सम्यति देवशत्रौ ।

क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं

ववर्ष नीलोरसि बाणवर्षम् ॥ २७ ॥

महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम् ।

भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ॥ २८ ॥

ततो बाणमयं वर्षं नीलस्योरस्यपातयत् ।

गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥ २९ ॥

ततः शरौघैरभिवर्ष्यमाणो

विभिन्नगात्रः कपिसैन्यपालः ।

नीलो बभूवाथ निसृष्टगात्रो

विष्टम्भितस्तेन महाबलेन ॥ ३० ॥

ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां

शैलं समुत्पाट्य सवृक्षषण्डम् ।

ततः समुत्पत्य भृशोग्रवेगो

महोदरं तेन जघान मूर्ध्नि ॥ ३१ ॥

ततः स शैलेन्द्रनिपातभग्नो

महोदरस्तेन महाद्विपेन ।

विपोथितो भूमितले गतासुः

पपात वज्राभिहतो यथाद्रिः ॥ ३२ ॥

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।

हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ॥ ३३ ॥

स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः ।

त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ३४ ॥

तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः ।

विससर्ज रणे तस्मिन्रावणस्य सुतं प्रति ॥ ३५ ॥

तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् ।

त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ३६ ॥

ततो हनूमानुत्प्लुत्य हयांस्त्रिशिरसस्तदा ।

विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३७ ॥

अथ शक्तिं समादाय कालरात्रिमिवान्तकः ।

चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३८ ॥

दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् ।

गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३९ ॥

तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता ।

प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ४० ॥

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।

निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ ४१ ॥

खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः ।

आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ॥ ४२ ॥

स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि ।

निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥

स तस्य पततः खड्गं समाच्छिद्य महाकपिः ।

ननाद गिरिसङ्काशस्त्रासयन्सर्वनैरृतान् ॥ ४४ ॥

अमृष्यमाणस्तं घोषमुत्पपात निशाचरः ।

उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ४५ ॥

तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः ।

कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ ४६ ॥

स तस्य शीर्षाण्यसिना शितेन

किरीटजुष्टानि सकुण्डलानि ।

क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य

त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ ४७ ॥

तान्यायताक्षाण्यगसन्निभानि

प्रदीप्तवैश्वानरलोचनानि ।

पेतुः शिरांसीन्द्ररिपोर्धरण्यां

ज्योतींषि मुक्तानि यथाऽर्कमार्गात् ॥ ४८ ॥

तस्मिन्हते देवरिपौ त्रिशीर्षे

हनूमता शक्रपराक्रमेण ।

नेदुः प्लवङ्गाः प्रचचाल भूमी

रक्षांस्यथो दुद्रुविरे समन्तात् ॥ ४९ ॥

हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ।

हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ ५० ॥

चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः ।

जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ॥ ५१ ॥

हेमपट्‍टपरिक्षिप्तां मांसशोणितफेनिलाम् ।

विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ॥ ५२ ॥

तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम् ।

ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ ५३ ॥

गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः ।

हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ५४ ॥

अथर्षभः समुत्पत्य वानरो रावणानुजम् ।

मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ ५५ ॥

तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।

आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ५६ ॥

स तयाऽभिहतस्तेन गदया वानरर्षभः ।

भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५७ ॥

स सम्प्राप्य चिरात्सञ्ज्ञामृषभो वानरर्षभः ।

अभिदुद्राव वेगेन गदां तस्य महात्मनः ॥ ५८ ॥ [जग्राह]

गृहीत्वा तां गदां भीमामाविध्य च पुनः पुनः ।

मत्तानीकं महात्मानं जघान रणमूर्धनि ॥ ५९ ॥

स स्वया गदया भग्नो विशीर्णदशनेक्षणः ।

निपपात ततो मत्तो वज्राहत इवाचलः ॥ ६० ॥

विशीर्णनयने भूमौ गतसत्त्वे गतायुषि ।

पतिते राक्षसे तस्मिन्विद्रुतं राक्षसं बलम् ॥ ६१ ॥

तस्मिन्हते भ्रातरि रावणस्य

तन्नैरृतानां बलमर्णवाभम् ।

त्यक्तायुधं केवलजीवितार्थं

दुद्राव भिन्नार्णवसन्निकाशम् ॥ ६२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

valmiki ramayan yuddhakand adhyay 70