Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड चतुर्दशः

॥ प्रहस्तविभीषणविवादः ॥

निशाचरेन्द्रस्य निशम्य वाक्यं

स कुम्भकर्णस्य च गर्जितानि ।

विभीषणो राक्षसराजमुख्यं

उवाच वाक्यं हितमर्थयुक्तम् ॥ १ ॥

वृतो हि बाह्वन्तरभोगराशि-

-श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः ।

पञ्चाङ्गुलीपञ्चशिरोतिकायः

सीतामहाहिस्तव केन राजन् ॥ २ ॥

यावन्न लङ्कां समभिद्रवन्ति

वलीमुखाः पर्वतकूटमात्राः ।

दंष्ट्रायुधाश्चैव नखायुधाश्च

प्रदीयतां दाशरथाय मैथिली ॥ ३ ॥

यावन्न गृह्णन्ति शिरांसि बाणा

रामेरिता राक्षसपुङ्गवानाम् ।

वज्रोपमा वायुसमानवेगाः

प्रदीयतां दाशरथाय मैथिली ॥ ४ ॥

[* अधिकश्लोकं –

भित्त्वा न तावत्प्रविशन्ति कायं

प्राणान्तिकास्तेऽशनितुल्यवेगाः ।

शिताः शरा राघवविप्रमुक्ताः

प्रहस्त तेनैव विकत्थसे त्वम् ॥

*]

न कुम्भकर्णेन्द्रजितौ न राजा

तथा महापार्श्वमहोदरौ वा ।

निकुम्भकुम्भौ च तथातिकायः

स्थातुं न शक्ता युधि राघवस्य ॥ ५ ॥

जीवंस्तु रामस्य न मोक्ष्यसे त्वं

गुप्तः सवित्राऽप्यथवा मरुद्भिः ।

न वासवस्याङ्कगतो न मृत्यो-

-र्न खं न पातालमनुप्रविष्टः ॥ ६ ॥

निशम्य वाक्यं तु विभीषणस्य

ततः प्रहस्तो वचनं बभाषे ।

न नो भयं विद्म न दैवतेभ्यो

न दानवेभ्यो ह्यथवा कुतश्चित् ॥ ७ ॥

न यक्षगन्धर्वमहोरगेभ्यो

भयं न सङ्ख्ये पतगोत्तमेभ्यः ।

कथं नु रामाद्भविता भयं नो

नरेन्द्रपुत्रात्समरे कदाचित् ॥ ८ ॥

प्रहस्तवाक्यं त्वहितं निशम्य

विभीषणो राजहितानुकाङ्क्षी ।

ततो महात्मा वचनं बभाषे ।

धर्मार्थकामेषु निविष्टबुद्धिः ॥ ९ ॥

प्रहस्त राजा च महोदरश्च

त्वं कुम्भकर्णश्च यथार्थजातम् ।

ब्रवीथ रामं प्रति तन्न शक्यं

यथा गतिः स्वर्गमधर्मबुद्धेः ॥ १० ॥

वधस्तु रामस्य मया त्वया वा

प्रहस्त सर्वैरपि राक्षसैर्वा ।

कथं भवेदर्थविशारदस्य

महार्णवं तर्तुमिवाप्लवस्य ॥ ११ ॥

धर्मप्रधानस्य महारथस्य

इक्ष्वाकुवंशप्रभवस्य राज्ञः ।

प्रहस्त देवाश्च तथाविधस्य

कृत्येषु शक्तस्य भवन्ति मूढाः ॥ १२ ॥

तीक्ष्णा नता यत्तव कङ्कपत्रा

दुरासदा राघवविप्रमुक्ताः ।

भित्त्वा शरीरं प्रविशन्ति बाणाः

प्रहस्त तेनैव विकत्थसे त्वम् ॥ १३ ॥

न रावणो नातिबलस्त्रिशीर्षो

न कुम्भकर्णस्य सुतो निकुम्भः ।

न चेन्द्रजिद्दाशरथिं प्रसोढुं

त्वं वा रणे शक्रसमं समर्थाः ॥ १४ ॥

देवान्तको वाऽपि नरान्तको वा

तथाऽतिकायोऽतिरथो महात्मा ।

अकम्पनश्चाद्रिसमानसारः

स्थातुं न शक्ता युधि राघवस्य ॥ १५ ॥

अयं हि राजा व्यसनाभिभूतो

मित्रैरमित्रप्रतिमैर्भवद्भिः ।

अन्वास्यते राक्षसनाशनाय

तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ १६ ॥

अनन्तभोगेन सहस्रमूर्ध्ना

नागेन भीमेन महाबलेन ।

बलात्परिक्षिप्तमिमं भवन्तो

राजानमुत्क्षिप्य विमोचयन्तु ॥ १७ ॥

यावद्धि केशग्रहणां सुहृद्भिः

समेत्य सर्वैः परिपूर्णकामैः ।

निगृह्य राजा परिरक्षितव्यो

भूतैर्यथा भीमबलैर्गृहीतः ॥ १८ ॥

संहारिणा राघवसागरेण

प्रच्छाद्यमानस्तरसा भवद्भिः ।

युक्तस्त्वयं तारयितुं समेत्य

काकुत्स्थपातालमुखे पतन्सः ॥ १९ ॥

इदं पुरस्यास्य सराक्षसस्य

राज्ञश्च पथ्यं ससुहृज्जनस्य ।

सम्यग्घि वाक्यं स्वमतं ब्रवीमि

नरेन्द्रपुत्राय ददाम पत्नीम् ॥ २० ॥

परस्य वीर्यं स्वबलं च बुद्ध्वा

स्थानं क्षयं चैव तथैव वृद्धिम् ।

तथा स्वपक्षेप्यनुमृश्य बुद्ध्या

वदेत्क्षमं स्वामिहितं च मन्त्री ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

valmiki ramayan yuddhakand adhyay 14