Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकविंशः

॥ समुद्रसङ्क्षोभः ॥

ततः सागरवेलायां दर्भानास्तीर्य राघवः ।

अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥ १ ॥

बाहुं भुजगभोगाभमुपधायारिसूदनः ।

जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥ २ ॥

वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ।

भुजैः परमनारीणामभिमृष्टमनेकधा ॥ ३ ॥

चन्दनागरुभिश्चैव पुरस्तादधिवासितम् ।

बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम् ॥ ४ ॥

शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा ।

तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ॥ ५ ॥

सम्युगे युगसङ्काशं शत्रूणां शोकवर्धनम् ।

सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥ ६ ॥

अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् ।

दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ ७ ॥

गोसहस्रप्रदातारमुपधाय महद्भुजम् ।

अद्य मे मरणं वाऽथ तरणं सागरस्य वा ॥ ८ ॥

इति रामो मतिं कृत्वा महाबाहुर्महोदधिम् ।

अधिशिश्ये च विधिवत्प्रयतो नियतो मुनिः ॥ ९ ॥

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ।

नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ १० ॥

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।

उपासत तदा रामः सागरं सरितां पतिम् ॥ ११ ॥

न च दर्शयते मन्दस्तदा रामस्य सागरः ।

प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ १२ ॥

समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ।

समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥ १३ ॥

अवलेपः समुद्रस्य न दर्शयति यत्स्वयम् ।

प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ १४ ॥

असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः ।

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥ १५ ॥

सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ।

न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ॥ १६ ॥

प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्धनि ।

अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ॥ १७ ॥

निरुद्धतोऽयं सौमित्रे प्लवद्भिः पश्य सर्वतः ।

महाभोगानि मत्स्यानां करिणां च करानिह ॥ १८ ॥

भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण ।

सशङ्खशुक्तिकाजालं समीनमकरं शरैः ॥ १९ ॥

अद्य युद्धेन महता समुद्रं परिशोषये ।

क्षमया हि समायुक्तं मामयं मकरालयः ॥ २० ॥

असमर्थं विजानाति धिक् क्षमामीदृशे जने ।

न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ २१ ॥

चापमानय सौमित्रे शरांश्चाशीविषोपमान् ।

सागरं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः ॥ २२ ॥

अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ।

वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ॥ २३ ॥

निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ।

महार्णवं क्षोभयिष्ये महानक्रसमाकुलम् ॥ २४ ॥ [दानव]

एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः ।

बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥ २५ ॥

सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् ।

मुमोच विशिखानुग्रान्वज्रानिव शतक्रतुः ॥ २६ ॥

ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः ।

प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ॥ २७ ॥

तोयवेगः समुद्रस्य सनक्रमकरो महान् ।

सम्बभूव महाघोरः समारुतरवस्तदा ॥ २८ ॥

महोर्मिजालविततः शङ्खशुक्तिसमावृतः ।

सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः ॥ २९ ॥

व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः ।

दानवाश्च महावीर्याः पातालतलवासिनः ॥ ३० ॥

ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा ।

विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ॥ ३१ ॥

आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः ।

उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ ३२ ॥

ततस्तु तं राघवमुग्रवेगं

प्रकर्षमाणं धनुरप्रमेयम् ।

सौमित्रिरुत्पत्य समुच्छ्वसन्तं

मा मेति चोक्त्वा धनुराललम्बे ॥ ३३ ॥

[* अधिकश्लोकाः –

एतद्विनापि ह्युदधेस्तवाद्य

सम्पत्स्यते वीरतमस्य कार्यम् ।

भवद्विधाः कोपवशं न यान्ति

अन्तर्हितैश्चैव तथान्तरिक्षे

ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।

शब्दः कृतः कष्टमिति ब्रुवद्भि-

-र्मा मेति चोक्त्वा महता स्वरेण ॥ ३५ ॥

*]

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः ॥ २१ ॥

valmiki ramayan yuddhakand adhyay 21