Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकनवतितमः

॥ रावणिवधः ॥

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः ।

इन्द्रजित्परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥ १ ॥

तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् ।

विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ २ ॥

निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः ।

भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ॥ ३ ॥

ततस्तान्राक्षसान्सर्वान्हर्षयन्रावणात्मजः ।

स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥ ४ ॥

तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः ।

नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥ ५ ॥

धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै ।

अहं तु रथमास्थाय आगमिष्यामि सम्युगम् ॥ ६ ॥

तथा भवन्तः कुर्वन्तु यथेमे काननौकसः ।

न युद्ध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥ ७ ॥

इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः ।

प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥ ८ ॥

स रथं भूषयित्वा तु रुचिरं हेमभूषितम् ।

प्रासासिशतसम्पूर्णं युक्तं परमवाजिभिः ॥ ९ ॥

अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना ।

आरुरोह महातेजा रावणिः समितिञ्जयः ॥ १० ॥

स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः ।

निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ॥ ११ ॥

सोऽभिनिष्क्रम्य नगरादिन्द्रजित्परवीरहा ।

अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥ १२ ॥

ततो रथस्तमालोक्य सौमित्री रावणात्मजम् ।

वानराश्च महावीर्या राक्षसश्च विभीषणः ॥ १३ ॥

विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः ।

रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान् ॥ १४ ॥

पातयामास बाणौघैः शतशोऽथ सहस्रशः ।

स मण्डलीकृतधनू रावणिः समितिञ्जयः ॥ १५ ॥

हरीनभ्यहनत्क्रुद्धः परं लाघवमास्थितः ।

ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ॥ १६ ॥

सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः ।

ततः समरकोपेन ज्वलितो रघुनन्दनः ॥ १७ ॥

चिच्छेद कार्मुकं तस्य दर्शयन्पाणिलाघवम् ।

सोऽन्यत्कार्मुकमादय सज्यं चक्रे त्वरन्निव ॥ १८ ॥

तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ।

अथैनं छिन्नधन्वानमाशीविषविषोपमैः ॥ १९ ॥

विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ।

ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः ॥ २० ॥

निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ।

स भिन्नवर्मा रुधिरं वमन्वक्त्रेण रावणिः ॥ २१ ॥

जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ।

स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ॥ २२ ॥

ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ।

मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः ॥ २३ ॥

अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ।

दर्शयामास च तदा रावणिं रघुनन्दनः ॥ २४ ॥

असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ।

ततस्तान्राक्षसान्सर्वांस्त्रिभिरेकैकमाहवे ॥ २५ ॥

अविध्यत्परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन् ।

राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥ २६ ॥

सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना ।

असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ॥ २७ ॥

तानप्राप्तान् शितैर्बाणैश्चिच्छेद रघुनन्दनः ।

सारथेरस्य च रणे रथिनो रथसत्तमः ॥ २८ ॥

शिरो जहार धर्मात्मा भल्लेनानतपर्वणा ।

असूतास्ते हयास्तत्र रथमूहुरविक्लवाः ॥ २९ ॥

मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ।

अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः ॥ ३० ॥

प्रत्यविद्ध्यद्धयांस्तस्य शरैर्वित्रासयन्रणे ।

अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली ॥ ३१ ॥

विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् ।

ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः ॥ ३२ ॥

विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् ।

अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः ॥ ३३ ॥

ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ।

अविध्यत्परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥ ३४ ॥

तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ।

रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥ ३५ ॥

स तथा ह्यर्दितो बाणै राक्षसेन महामृधे ।

तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः ॥ ३६ ॥

विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ।

लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ॥ ३७ ॥

अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ।

ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ ॥ ३८ ॥

रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ।

तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ ॥ ३९ ॥

घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ।

ततः समरकोपेन सम्युक्तो रावणात्मजः ॥ ४० ॥

विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ।

अयोमुखैस्त्रिर्भिर्विद्ध्वा राक्षसेन्द्रं विभीषणम् ॥ ४१ ॥

एकैकेनाभिविव्याध तान्सर्वान्हरियूथपान् ।

तस्मै दृढतरं क्रुद्धो जघान गदया हयान् ॥ ४२ ॥

विभीषणो महातेजा रावणेः स दुरात्मनः ।

स हताश्वादवप्लुत्य रथान्निहतसारथेः ॥ ४३ ॥

रथशक्तिं महातेजाः पितृव्याय मुमोच ह ।

तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः ॥ ४४ ॥

चिच्छेद निशितैर्बाणैर्दशधा साऽपतद्भुवि ।

तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः ॥ ४५ ॥

वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् ।

ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ॥ ४६ ॥

बभूवुर्लोहिता दिग्धा रक्ता इव महोरगाः ।

स पितृव्याय सङ्क्रुद्ध इन्द्रजिच्छरमाददे ॥ ४७ ॥

उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ।

तं समीक्ष्य महातेजा महेषुं तेन संहितम् ॥ ४८ ॥

लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः ।

कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना ॥ ४९ ॥

दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ।

तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः ॥ ५० ॥

विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ।

ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ॥ ५१ ॥

विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ।

तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ॥ ५२ ॥

मुखेन मुखमाहत्य सन्निपेततुरोजसा ।

सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः ॥ ५३ ॥

सधूमविस्फुलिङ्गश्च तज्जोग्निर्दारुणोऽभवत् ।

तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च ॥ ५४ ॥

सङ्ग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः ।

शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ॥ ५५ ॥

व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ।

सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ॥ ५६ ॥

रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः ।

तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ॥ ५७ ॥

ततः क्रुद्धो महातेजा इन्द्रजित्समितिञ्जयः ।

आग्नेयं सन्दधे दीप्तं स लोकं सङ्क्षिपन्निव ॥ ५८ ॥

सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् ।

अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्छितः ॥ ५९ ॥

आसुरं शत्रुनाशाय घोरमस्त्रं समाददे ।

तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः ॥ ६० ॥

शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः ।

तद्दृष्ट्वा लक्ष्मणः सङ्ख्ये घोरमस्त्रमथासुरम् ॥ ६१ ॥

अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम् ।

माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥ ६२ ॥

तयोः सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम् ।

गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ ६३ ॥

भैरवाभिरुते भीमे युद्धे वानररक्षसाम् ।

भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥ ६४ ॥

ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः ।

शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥ ६५ ॥

अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः ।

हुताशनसमस्पर्शं रावणात्मजदारणम् ॥ ६६ ॥

सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् ।

सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ ६७ ॥

दुरावारं दुर्विषह्यं राक्षसानां भयावहम् ।

आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ॥ ६८ ॥

येन शक्रो महातेजा दानवानजयत्प्रभुः ।

पुरा दैवासुरे युद्धे वीर्यवान्हरिवाहनः ॥ ६९ ॥

तदैन्द्रमस्त्रं सौमित्रिः सम्युगेष्वपराजितम् ।

शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसन्दधे ॥ ७० ॥

सन्धायामित्रदलनं विचकर्ष शरासनम् ।

सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ॥ ७१ ॥

सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् ।

लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥ ७२ ॥

धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ।

पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥ ७३ ॥

इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् ।

लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥ ७४ ॥

ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ।

स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ॥ ७५ ॥

प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ।

तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् ॥ ७६ ॥

तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ।

हतस्तु निपपाताशु धरण्यां रावणात्मजः ॥ ७७ ॥

कवची सशिरस्त्राणो विध्वस्तः सशरासनः ।

चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ॥ ७८ ॥

हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा ।

अथान्तरिक्षे देवानामृषीणां च महात्मनाम् ॥ ७९ ॥

अभिजज्ञे च सन्नादो गन्धर्वाप्सरसामपि ।

पतितं तमभिज्ञाय राक्षसी सा महाचमूः ॥ ८० ॥

वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ।

वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः ॥ ८१ ॥

लङ्कामभिमुखाः सस्त्रुर्नष्टसञ्ज्ञाः प्रधाविताः ।

दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः ॥ ८२ ॥

त्यक्त्वा प्रहरणान्सर्वे पट्‍टिशासिपरश्वधान् ।

केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः ॥ ८३ ॥

समुद्रे पतिताः केचित्केचित्पर्वतमाश्रिताः ।

हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ ॥ ८४ ॥

राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत ।

यथास्तङ्गत आदित्ये नावतिष्ठन्ति रश्मयः ॥ ८५ ॥

तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ।

शान्तरश्मिरिवादित्यो निर्वाण इव पावकः ॥ ८६ ॥

स बभूव महातेजा व्यपास्तगतजीवितः ।

प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान् ॥ ८७ ॥

बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ।

हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः ॥ ८८ ॥

जगाम निहते तस्मिन्राक्षसे पापकर्मणि ।

आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ॥ ८९ ॥

नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ।

ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा ॥ ९० ॥

प्रशशंसुर्हते तस्मिन्राक्षसे क्रूरकर्मणि ।

शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ॥ ९१ ॥

आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे ।

ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः ॥ ९२ ॥

विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ।

ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः ॥ ९३ ॥

तमप्रतिबलं दृष्ट्वा हतं नैरृतपुङ्गवम् ।

विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः ॥ ९४ ॥

विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ।

क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ ९५ ॥

लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ।

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ॥ ९६ ॥

लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा ।

अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः ।

चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥ ९७ ॥

तदसुकरमथाभिवीक्ष्य हृष्टाः

प्रियसुहृदो युधि लक्ष्मणस्य कर्म ।

परममुपलभन्मनः प्रहर्षं

विनिहतमिन्द्ररिपुं निशम्य देवाः ॥ ९८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥

valmiki ramayan yuddhakand adhyay 91