Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड विंशः

॥ सुग्रीवभेदनोपायः ॥

ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ।

ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ १ ॥

चारो राक्षसराजस्य रावणस्य दुरात्मनः ।

तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः ॥ २ ॥

प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ।

एष वानरऋक्षौघो लङ्कां समभिवर्तते ॥ ३ ॥

अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ।

पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ ४ ॥

उत्तमायुधसम्पन्नौ सीतायाः पदमागतौ ।

एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ ५ ॥

बलमाकाशमावृत्य सर्वतो दशयोजनम् ।

तत्त्वभूतं महारज क्षिप्रं वेदितुमर्हसि ॥ ६ ॥

तव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम् ।

उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ७ ॥

शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।

उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥ ८ ॥

शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ।

सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम ।

यथा सन्देशमक्लीबं श्लक्ष्णया परया गिरा ॥ ९ ॥

त्वं वै महाराज कुलप्रसूतो

महाबलश्चर्क्षरजःसुतश्च ।

न कश्चिदर्थस्तव नास्त्यनर्थ-

-स्तथा हि मे भ्रातृसमो हरीश ॥ १० ॥

अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः ।

किं तत्र तव सुग्रीव किष्किन्धां प्रतिगम्यताम् ॥ ११ ॥

न हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथञ्चन ।

देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १२ ॥

स तथा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः ।

शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १३ ॥

स गत्वा दूरमध्वानमुपर्युपरि सागरम् ।

संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ १४ ॥

सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना ।

तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ॥ १५ ॥

प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः ।

स तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ॥ १६ ॥

गगनाद्भूतले चाशु परिगृह्य निपातितः ।

वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ १७ ॥

न दूतान्घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः ।

यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रभाषते ॥ १८ ॥

अनुक्तवादी दूतः सन्स दूतो वधमर्हति ।

शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् ॥ १९ ॥

उवाच मा वधिष्ठेति घ्नतः शाखामृगर्षभान् ।

स च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये ॥ २० ॥

अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् ।

सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ।

किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ २१ ॥

स एवमुक्तः प्लवगाधिपस्तदा

प्लवङ्गमानामृषभो महाबलः ।

उवाच वाक्यं रजनीचरस्य

चारं शुकं दीनमदीनसत्त्वः ॥ २२ ॥

न मेऽसि मित्रं न तथाऽनुकम्प्यो

न चोपकर्ताऽसि न मे प्रियोसि ।

अरिश्च रामस्य सहानुबन्धः

स मेसि वालीव वधार्ह वध्यः ॥ २३ ॥

निहन्म्यहं त्वां ससुतं सबन्धुं

सज्ञातिवर्गं रजनीचरेश ।

लङ्कां च सर्वां महता बलेन ।

क्षिप्रं करिष्यामि समेत्य भस्म ॥ २४ ॥

न मोक्ष्यसे रावण राघवस्य

सुरैः सहेन्द्रैरपि मूढ गुप्तः ।

अन्तर्हितः सूर्यपथं गतो वा

नभो न पातालमनुप्रविष्टः ॥ २५

[* अधिकपाठः –

गिरीशपादाम्बुजसङ्गतो वा

हतोऽसि रामेण सहानुजस्त्वम् ।

*]

तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् ।

त्रातारमनुपश्यामि न गन्धर्वं न चासुरम् ॥ २७ ॥

अवधीर्यज्जरावृद्धं गृध्रराजानमक्षमम् । [जटायुषम्]

किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा ॥ २८ ॥

हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ।

महाबलं महाप्राज्ञं दुर्धर्षममरैरपि ॥ २९ ॥ [महात्मानं]

न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान्हरिष्यति ।

ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः ॥ ३० ॥

नायं दूतो महाराज चारिकः प्रतिभाति मे ।

तुलितं हि बलं सर्वमनेनात्रैव तिष्ठता ॥ ३१ ॥

गृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते ।

ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः ॥ ३२ ॥

जगृहुस्तं बबन्धुश्च विलपन्तमनाथवत् ।

शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः ॥ ३३ ॥

व्याक्रोशत महात्मानं रामं दशरथात्मजम् ।

लुप्येते मे बलात्पक्षौ भिद्येते मे तथाऽक्षिणी ॥ ३४ ॥

यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् ।

एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् ॥ ३५ ॥

सर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितम् ।

नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् ।

वानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः ॥ २० ॥

valmiki ramayan yuddhakand adhyay 20