Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड एकादशाधिकशततमः

॥ पौलस्त्यवधः ॥

अथ संस्मारयामास राघवं मातलिस्तदा ।

अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥ १ ॥

विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।

विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥ २ ॥

ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।

जग्राह सशरं दीप्तं निःश्वसन्तमिवोरगम् ॥ ३ ॥

यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।

ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥ ४ ॥

ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।

दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥ ५ ॥

यस्य वाजेषु पवनः फले पावकभास्करौ ।

शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६ ॥

जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।

तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ ७ ॥

सधूममिव कालाग्निं दीप्तमाशीविषं यथा ।

परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ ८ ॥

द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।

नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ९ ॥

वज्रसारं महानादं नानासमितिदारणम् ।

सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ १० ॥

कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् ।

नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ॥ ११ ॥

नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।

वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ १२ ॥

तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।

द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ १३ ॥

अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः ।

वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥ १४ ॥

तस्मिन्सन्धीयमाने तु राघवेण शरोत्तमे ।

सर्वभूतानि वित्रेसुश्चचाल च वसुन्धरा ॥ १५ ॥

स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् ।

चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥ १६ ॥

स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।

कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ १७ ॥

स विसृष्टो महावेगः शरीरान्तकरः शरः ।

बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥

रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।

रावणस्य हरन्प्राणान्विवेश धरणीतलम् ॥ १९ ॥

स शरो रावणं हत्वा रुधिरार्द्रीकृतच्छविः ।

कृतकर्मा निभृतवत्स्वतूणीं पुनरागमत् ॥ २० ॥

तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् ।

निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ २१ ॥

गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः ।

पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥ २२ ॥

तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।

हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥ २३ ॥

नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः ।

दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ॥ २४ ॥

अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् ।

गताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥ २५ ॥

ततो विनेदुः संहृष्टा वानरा जितकाशिनः ।

वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ २६ ॥

अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ।

दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ॥ २७ ॥

निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।

किरन्ती राघवरथं दुरवापा मनोरमा ॥ २८ ॥

राघवस्तवसम्युक्ता गगनेऽपि च शुश्रुवे ।

साधु साध्विति वागग्र्या दैवतानां महात्मनाम् ॥ २९ ॥

आविवेश महाहर्षो देवानां चारणैः सह ।

रावणे निहते रौद्रे सर्वलोकभयङ्करे ॥ ३० ॥

ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।

चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ॥ ३१ ॥

ततः प्रजग्मुः प्रशमं मरुद्गणा

दिशः प्रसेदुर्विमलं नभोऽभवत् ।

मही चकम्पे न हि मारुतो ववौ

स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ ३२ ॥

ततस्तु सुग्रीवविभीषणादयः

सुहृद्विशेषाः सहलक्ष्मणास्तदा ।

समेत्य हृष्टा विजयेन राघवं

रणेऽभिरामं विधिना ह्यपूजयन् ॥ ३३ ॥

स तु निहतरिपुः स्थिरप्रतिज्ञः

स्वजनबलाभिवृतो रणे रराज ।

रघुकुलनृपनन्दनो महौजा-

-स्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ॥

valmiki ramayan yuddhakand adhyay 111