Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड द्वात्रिंशः

॥ सीताविलापः ॥

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ।

सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥

नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् ।

केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥

एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ।

विजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥

सकामा भव कैकेयि हतोऽयं कुलनन्दनः ।

कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४ ॥

आर्येण किं ते कैकेयि कृतं रामेण विप्रियम् ।

तद्गृहाच्चीरवसनं दत्त्वा प्रव्राजितो वनम् ॥ ५ ॥

[* इदानीं स हि धर्मात्मा राक्षसैश्च कथं हतः । *]

एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ॥ ६ ॥

जगाम जगतीं बाला छिन्ना तु कदली यथा ।

सा मुहूर्तात्समाश्वास्य प्रतिलभ्य च चेतनाम् ॥ ७ ॥

तच्छिरः समुपाघ्राय विललापायतेक्षणा ।

हा हताऽस्मि महाबाहो वीरव्रतमनुव्रता ॥ ८ ॥

इमां ते पश्चिमावस्थां गताऽस्मि विधवा कृता ।

प्रथमं मरणं नार्यो भर्तुर्वैगुण्यमुच्यते ॥ ९ ॥

सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ।

दुःखाद्दुःखं प्रपन्नाया मग्नाया शोकसागरे ॥ १० ॥

यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ।

सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ॥ ११ ॥

वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ।

आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ॥ १२ ॥

अनृतं वचनं तेषामल्पायुरसि राघव ।

अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ॥ १३ ॥

पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ।

अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ॥ १४ ॥

व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ।

तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया ॥ १५ ॥

कालरात्र्या ममाच्छिद्य हृतः कमललोचन ।

उपशेषे महाबाहो मां विहाय तपस्विनीम् ॥ १६ ॥

प्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ।

अर्चितं सततं यत्तद्गन्धमाल्यैर्मया तव ॥ १७ ॥

इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम् ।

पित्रा दशरथेन त्वं श्वशुरेण ममानघ ॥ १८ ॥

सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ।

दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् ॥ १९ ॥

पुण्यं राजर्षिवंशं त्वमात्मनः समवेक्षसे ।

किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे ॥ २० ॥

बालां बाल्येन सम्प्राप्तां भार्यां मां सहचारिणीम् ।

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया ॥ २१ ॥

स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ।

कस्मान्मामपहाय त्वं गतो गतिमतां वर ॥ २२ ॥

अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ।

कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु ॥ २३ ॥

क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ।

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ॥ २४ ॥

अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ।

प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् ॥ २५ ॥

परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ।

स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते ॥ २६ ॥

तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ।

सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ॥ २७ ॥

हृदयेनावदीर्णेन न भविष्यति राघव ।

मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः ॥ २८ ॥

रामः सागरमुत्तीर्य सत्त्ववान्गोष्पदे हतः ।

अहं दाशरथेनोढा मोहात्स्वकुलपांसनी ॥ २९ ॥

आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ।

नूनमन्यां मया जातिं वारितं दानमुत्तमम् ॥ ३० ॥

याऽहमद्येह शोचामि भार्या सर्वातिथेरपि ।

साधु पातय मां क्षिप्रं रामस्योपरि रावण ॥ ३१ ॥

समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ।

शिरसा मे शिरश्चास्य कायं कायेन योजय ॥ ३२ ॥

रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ।

[* मुहूर्तमपि नेच्छामि जीवितुं पापजीविता *] ॥ ३३ ॥

इति सा दुःखसन्तप्ता विललापायतेक्षणा ।

भर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनः पुनः ॥ ३४ ॥

एवं लालप्यमानायां सीतायां तत्र राक्षसः ।

अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३५ ॥

विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च ।

न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३६ ॥

अमात्यैः सहितैः सर्वैः प्रहस्तः समुपस्थितः ।

तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ ३७ ॥

नूनमस्ति महाराज राजभावात् क्षमान्वितम् ।

किञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३८ ॥

एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ।

अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ३९ ॥

स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः ।

सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ४० ॥

अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् ।

जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ४१ ॥

राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः ।

समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ४२ ॥

अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः ।

अब्रवीत्कालसदृशं रावणो राक्षसाधिपः ॥ ४३ ॥

शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे ।

समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४४ ॥

ततस्तथेति प्रतिगृह्य तद्वचो

बलाधिपास्ते महदात्मनो बलम् ।

समानयंश्चैव समागमं च ते

न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥

valmiki ramayan yuddhakand adhyay 32