Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड पञ्चचत्वारिंशः

॥ नागपाशबन्धः ॥

स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् ।

दिदेशातिबलो रामो दश वानरयूथपान् ॥ १ ॥

द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।

अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥

विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।

ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ॥ ३ ॥

ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।

आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥ ४ ॥

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।

अस्त्रवित्परमास्त्रैस्तु वारयामास रावणिः ॥ ५ ॥

तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः ।

अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥ ६ ॥

रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ।

भृशमावेशयामास रावणिः समितिञ्जयः ॥ ७ ॥

निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ ।

क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।

तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।

रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १० ॥

युद्ध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः ।

द्रष्टुमासादितुं वाऽपि न शक्तः किं पुनर्युवाम् ॥ ११ ॥

प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।

एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥

एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।

निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ १३ ॥

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।

भूयो भूयः शरान्घोरान्विससर्ज महामृधे ॥ १४ ॥

ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान् ।

रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५ ॥

बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।

निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६ ॥

ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।

ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७ ॥

तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।

निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८ ॥

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।

शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ १९ ॥

न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् ।

नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ॥ २० ॥

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।

असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥ २१ ॥

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।

क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२ ॥

रुक्मपुङ्खैः प्रसन्नाग्रैरधोगतिभिराशुगैः ।

नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ॥ २३ ॥

विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ।

स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ॥ २४ ॥

भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ।

बाणपातान्तरे रामं पतितं पुरुषर्षभम् ॥ २५ ॥

स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ।

रामं कमलपत्राक्षं शरबन्धपरिक्षतम् ॥ २६ ॥

शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले ।

हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ॥ २७ ॥

बद्धौ तु वीरौ पतितौ शयानौ

तौ वानराः सम्परिवार्य तस्थुः ।

समागता वायुसुतप्रमुख्या

विषादमार्ताः परमं च जग्मुः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

valmiki ramayan yuddhakand adhyay 45