Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड पञ्चषष्टितमः

॥ कुम्भकर्णाभिषेणनम् ॥

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् ।

अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥

सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः ।

रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ २ ॥

गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः ।

पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा ॥ ३ ॥

न मर्षयति चात्मानं सम्भावयति नात्मना ।

अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ ४ ॥

विक्लवानामबुद्धीनां राज्ञा पण्डितमानिनाम् ।

शृण्वता सादितमिदं त्वद्विधानां महोदर ॥ ५ ॥

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः ।

राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ॥ ६ ॥

राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् ।

राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ ७ ॥

एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये ।

दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥ ८ ॥

एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः ।

प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ ९ ॥

महोदरोऽयं रामात्तु परित्रस्तो न संशयः ।

न हि रोचयते तात युद्धं युद्धविशारद ॥ १० ॥

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ।

गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥ ११ ॥

तस्मात्तु भयनाशार्थं भवान्सम्बोधितो मया ।

अयं हि कालः सुहृदां राक्षसानामरिन्दम ॥ १२ ॥

तद्गच्छ शूलमादाय पाशहस्त इवान्तकः ।

वानरान्राजपुत्रौ च भक्षयादित्यतेजसौ ॥ १३ ॥

समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः ।

रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥ १४ ॥

एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम् ।

पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ १५ ॥

कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् ।

बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ १६ ॥

इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ।

राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः ॥ १७ ॥

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ।

सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥ १८ ॥

इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ।

देवदानवगन्धर्वयक्षकिन्नरसूदनम् ॥ १९ ॥

रक्तमाल्यं महाधाम स्वतश्चोद्गतपावकम् ।

आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ॥ २० ॥

कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ।

गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ॥ २१ ॥ [मम]

अद्य तान् क्षुभितान्क्रुद्धो भक्षयिष्यामि वानरान् ।

कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ २२ ॥

सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः ।

वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः ॥ २३ ॥

एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् ।

तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज ॥ २४ ॥

रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ।

अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ॥ २५ ॥

आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ।

अङ्गदान्यङ्गुलीवेष्टान्वराण्याभरणानि च ॥ २६ ॥

हारं च शशिसङ्काशमाबबन्ध महात्मनः ।

दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ॥ २७ ॥

श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले ।

काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः ॥ २८ ॥

कुम्भकर्णो बृहत्कर्णः सुहतोऽग्निरिवाबभौ ।

श्रोणीसूत्रेण महता मेचकेन व्यराजत ।

अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥ २९ ॥

स काञ्चनं भारसहं निवातं

विद्युत्प्रभं दीप्तमिवात्मभासा ।

आबध्यमानः कवचं रराज

सन्ध्याभ्रसंवीत इवाद्रिराजः ॥ ३० ॥

सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः ।

त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ ३१ ॥

भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम् ।

प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः ॥ ३२ ॥

निष्पतन्तं महाकायं महानादं महाबलम् ।

तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥ ३३ ॥

शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ।

तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ॥ ३४ ॥

अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ।

सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः ।

अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥ ३५ ॥

स पुष्पवर्षैरवकीर्यमाणो

धृतातपत्रः शितशूलपाणिः ।

मदोत्कटः शोणितगन्धमत्तो

विनिर्ययौ दानवदेवशत्रुः ॥ ३६ ॥

पदातयश्च बहवो महानादा महाबलाः ।

अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ३७ ॥

रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः ।

शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥ ३८ ॥

भिन्दिपालांश्च परिघान्गदाश्च मुसलानि च । [बहुव्यामांश्च]

तालस्कन्धांश्च विपुलान् क्षेपणीयान्दुरासदान् ॥ ३९ ॥

अथान्यद्वपुरादाय दारुणं रोमहर्षणम् ।

निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ ४० ॥

धनुःशतपरीणाहः स षट् शतसमुच्छ्रितः ।

रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥ ४१ ॥

सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् ।

कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥ ४२ ॥

अद्य वानरमुख्यानां तानि यूथानि भागशः ।

निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः ॥ ४३ ॥

नापराध्यन्ति मे कामं वानरा वनचारिणः ।

जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥ ४४ ॥

पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ।

हते तस्मिन्हतं सर्वं तं वधिष्यामि सम्युगे ॥ ४५ ॥

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।

नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ ४६ ॥

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ।

बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ ४७ ॥

उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः ।

ससागरवना चैव वसुधा समकम्पत ॥ ४८ ॥

घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः ।

मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥ ४९ ॥

निष्पपात च गृध्रोऽस्य शूले वै पथि गच्छतः । [मालेव]

प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ॥ ५० ॥

निपपात तदा चोल्का ज्वलन्ती भीमनिःस्वना ।

आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥ ५१ ॥

अचिन्तयन्महोत्पातानुत्थितान्रोमहर्षणान् ।

निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ ५२ ॥

स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः ।

ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ ५३ ॥

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ।

वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ ५४ ॥

तद्वानरानीकमतिप्रचण्डं

दिशो द्रवद्भिन्नमिवाभ्रजालम् ।

स कुम्भकर्णः समवेक्ष्य हर्षान्

ननाद भूयो घनवद्घनाभः ॥ ५५ ॥

ते तस्य घोरं निनदं निशम्य

यथा निनादं दिवि वारिदस्य ।

पेतुर्धरण्यां बहवः प्लवङ्गा

निकृत्तमूला इव सालवृक्षाः ॥ ५६ ॥

विपुलपरिघवान्स कुम्भकर्णो

रिपुनिधनाय विनिःसृतो महात्मा ।

कपिगणभयमाददत्सुभीमं

प्रभुरिव किङ्करदण्डवान्युगान्ते ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥

valmiki ramayan yuddhakand adhyay 65