Skip to main content
पडताळणी प्रलंबित

युद्धकाण्ड चतुरशीतितमः

॥ इन्द्रजिन्मायाविवरणम् ॥

राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले ।

निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ॥ १ ॥

नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः ।

नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥ २ ॥

सोऽभिगम्य महात्मानं राघवं शोकलालसम् ।

वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥ ३ ॥

राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ।

ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥ ४ ॥

व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः ।

अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥ ५ ॥

विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् ।

लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥ ६ ॥

हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः ।

हनुमद्वचनात्सौम्य ततो मोहमुपागतः ॥ ७ ॥

कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ।

पुष्कलार्थमिदं वाक्यं विसञ्ज्ञं राममब्रवीत् ॥ ८ ॥

मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता ।

तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ९ ॥

अभिप्रायं तु जानामि रावणस्य दुरात्मनः ।

सीतां प्रति महाबाहो न च घातं करिष्यति ॥ १० ॥

याच्यमानस्तु बहुशो मया हितचिकीर्षुणा ।

वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ ११ ॥

नैव साम्ना न दानेन न भेदेन कुतो युधा ।

सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ १२ ॥

वानरान्मोहयित्वा तु प्रतियातः स राक्षसः ।

चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥ १३ ॥

हुतवानुपयातो हि देवैरपि सवासवैः ।

दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ॥ १४ ॥

तेन मोहयता नूनमेषा माया प्रयोजिता ।

विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥ १५ ॥

ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ।

त्यजेमं नरशार्दूल मिथ्या सन्तापमागतम् ॥ १६ ॥

सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ।

इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः ॥ १७ ॥

लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ।

एष तं नरशार्दूलो रावणिं निशितैः शरैः ।

त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ १८ ॥

तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ।

पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ १९ ॥

तं सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम् ।

राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ २० ॥

मनुजवर न कालविप्रकर्षो

रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् ।

त्वमतिसृज रिपोर्वधाय वाणी-

-ममररिपोर्मथने यथा महेन्द्रः ॥ २१ ॥

समाप्तकर्मा हि स राक्षसाधिपो

भवत्यदृश्यः समरे सुरासुरैः ।

युयुत्सता तेन समाप्तकर्मणा

भवेत्सुराणामपि संशयो महान् ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥

valmiki ramayan yuddhakand adhyay 84