Skip to main content
पडताळणी प्रलंबित

श्री गायत्री सहस्रनाम स्तोत्रम् २

ध्यानम् –

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैः

युक्तामिन्दुनिबद्धरत्नमकुटां तत्त्वार्थवर्णात्मिकाम् ।

गायत्रीं वरदाऽभयाङ्कुशकशाः शुभ्रं कपालं गदां

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

अथ स्तोत्रं –

तत्काररूपा तत्त्वज्ञा तत्पदार्थस्वरूपिणी ।

तपस्स्व्याध्यायनिरता तपस्विजनसन्नुता ॥ १ ॥

तत्कीर्तिगुणसम्पन्ना तथ्यवाक्च तपोनिधिः ।

तत्त्वोपदेशसम्बन्धा तपोलोकनिवासिनी ॥ २ ॥

तरुणादित्यसङ्काशा तप्तकाञ्चनभूषणा ।

तमोऽपहारिणी तन्त्री तारिणी ताररूपिणी ॥ ३ ॥

तलादिभुवनान्तःस्था तर्कशास्त्रविधायिनी ।

तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी ॥ ४ ॥

तत्त्वा तन्त्रविधानज्ञा तन्त्रस्था तन्त्रसाक्षिणी ।

तदेकध्याननिरता तत्त्वज्ञानप्रबोधिनी ॥ ५ ॥

तन्नाममन्त्रसुप्रीता तपस्विजनसेविता ।

सकाररूपा सावित्री सर्वरूपा सनातनी ॥ ६ ॥

संसारदुःखशमनी सर्वयागफलप्रदा ।

सकला सत्यसङ्कल्पा सत्यासत्यप्रदायिनी ॥ ७ ॥

सन्तोषजननी सारा सत्यलोकनिवासिनी ।

समुद्रतनयाराध्या सामगानप्रिया सती ॥ ८ ॥

समाना सामदेवी च समस्तसुरसेविता ।

सर्वसम्पत्तिजननी सद्गुणा सकलेष्टदा ॥ ९ ॥

सनकादिमुनिध्येया समानाधिकवर्जिता ।

साध्या सिद्धा सुधावासा सिद्धिः साध्यप्रदायिनी ॥ १० ॥

सद्युगाराध्यनिलया समुत्तीर्णा सदाशिवा ।

सर्ववेदान्तनिलया सर्वशास्त्रार्थगोचरा ॥ ११ ॥

सहस्रदलपद्मस्था सर्वज्ञा सर्वतोमुखी ।

समया समयाचारा सदसद्ग्रन्थिभेदिनी ॥ १२ ॥

सप्तकोटिमहामन्त्रमाता सर्वप्रदायिनी ।

सगुणा सम्भ्रमा साक्षी सर्वचैतन्यरूपिणी ॥ १३ ॥

सत्कीर्तिः सात्त्विकी साध्वी सच्चिदानन्दरूपिणी ।

सङ्कल्परूपिणी सन्ध्या सालग्रामनिवासिनी ॥ १४ ॥

सर्वोपाधिविनिर्मुक्ता सत्यज्ञानप्रबोधिनी ।

विकाररूपा विप्रश्रीर्विप्राराधनतत्परा ॥ १५ ॥

विप्रप्रीर्विप्रकल्याणी विप्रवाक्यस्वरूपिणी ।

विप्रमन्दिरमध्यस्था विप्रवादविनोदिनी ॥ १६ ॥

विप्रोपाधिविनिर्भेत्री विप्रहत्याविमोचनी ।

विप्रत्रात्री विप्रगोत्रा विप्रगोत्रविवर्धिनी ॥ १७ ॥

विप्रभोजनसन्तुष्टा विष्णुरूपा विनोदिनी ।

विष्णुमाया विष्णुवन्द्या विष्णुगर्भा विचित्रिणी ॥ १८ ॥

वैष्णवी विष्णुभगिनी विष्णुमायाविलासिनी ।

विकाररहिता विश्वविज्ञानघनरूपिणी ॥ १९ ॥

विबुधा विष्णुसङ्कल्पा विश्वामित्रप्रसादिनी ।

विष्णुचैतन्यनिलया विष्णुस्वा विश्वसाक्षिणी ॥ २० ॥

विवेकिनी वियद्रूपा विजया विश्वमोहिनी ।

विद्याधरी विधानज्ञा वेदतत्त्वार्थरूपिणी ॥ २१ ॥

विरूपाक्षी विराड्रूपा विक्रमा विश्वमङ्गला ।

विश्वम्भरासमाराध्या विश्वभ्रमणकारिणी ॥ २२ ॥

विनायकी विनोदस्था वीरगोष्ठीविवर्धिनी ।

विवाहरहिता विन्ध्या विन्ध्याचलनिवासिनी ॥ २३ ॥

विद्याविद्याकरी विद्या विद्याविद्याप्रबोधिनी ।

विमला विभवा वेद्या विश्वस्था विविधोज्ज्वला ॥ २४ ॥

वीरमध्या वरारोहा वितन्त्रा विश्वनायिका ।

वीरहत्याप्रशमनी विनम्रजनपालिनी ॥ २५ ॥

वीरधीर्विविधाकारा विरोधिजननाशिनी ।

तुकाररूपा तुर्यश्रीस्तुलसीवनवासिनी ॥ २६ ॥

तुरङ्गी तुरगारूढा तुलादानफलप्रदा ।

तुलामाघस्नानतुष्टा तुष्टिपुष्टिप्रदायिनी ॥ २७ ॥

तुरङ्गमप्रसन्तुष्टा तुलिता तुल्यमध्यगा ।

तुङ्गोत्तुङ्गा तुङ्गकुचा तुहिनाचलसंस्थिता ॥ २८ ॥

तुम्बुरादिस्तुतिप्रीता तुषारशिखरीश्वरी ।

तुष्टा च तुष्टिजननी तुष्टलोकनिवासिनी ॥ २९ ॥

तुलाधारा तुलामध्या तुलास्था तुर्यरूपिणी ।

तुरीयगुणगम्भीरा तुर्यनादस्वरूपिणी ॥ ३० ॥

तुर्यविद्यालास्यतुष्टा तुर्यशास्त्रार्थवादिनी ।

तुरीयशास्त्रतत्त्वज्ञा तुर्यवादविनोदिनी ॥ ३१ ॥

तुर्यनादान्तनिलया तुर्यानन्दस्वरूपिणी ।

तुरीयभक्तिजननी तुर्यमार्गप्रदर्शिनी ॥ ३२ ॥

र्वकाररूपा वागीशी वरेण्या वरसंविधा ।

वरा वरिष्ठा वैदेही वेदशास्त्रप्रदर्शिनी ॥ ३३ ॥

विकल्पशमनी वाणी वाञ्छितार्थफलप्रदा ।

वयःस्था च वयोमध्या वयोऽवस्थाविवर्जिता ॥ ३४ ॥

वन्दिनी वादिनी वर्या वाङ्मयी वीरवन्दिता ।

वानप्रस्थाश्रमस्था च वनदुर्गा वनालया ॥ ३५ ॥

वनजाक्षी वनचरी वनिता विश्वमोहिनी ।

वसिष्ठवामदेवादिवन्द्या वन्द्यस्वरूपिणी ॥ ३६ ॥

वैद्या वैद्यचिकित्सा च वषट्कारी वसुन्धरा ।

वसुमाता वसुत्राता वसुजन्मविमोचनी ॥ ३७ ॥

वसुप्रदा वासुदेवी वासुदेवमनोहरी ।

वासवार्चितपादश्रीर्वासवारिविनाशिनी ॥ ३८ ॥

वागीशी वाङ्मनःस्थायी वशिनी वनवासभूः ।

वामदेवी वरारोहा वाद्यघोषणतत्परा ॥ ३९ ॥

वाचस्पतिसमाराध्या वेदमाता विनोदिनी ।

रेकाररूपा रेवा च रेवातीरनिवासिनी ॥ ४० ॥

राजीवलोचना रामा रागिणी रतिवन्दिता ।

रमणी रामजप्ता च राज्यपा रजताद्रिगा ॥ ४१ ॥

राकिणी रेवती रक्षा रुद्रजन्मा रजस्वला ।

रेणुका रमणी रम्या रतिवृद्धा रता रतिः ॥ ४२ ॥

रावणानन्दसन्धायी राजश्री राजशेखरी ।

रणमध्या रथारूढा रविकोटिसमप्रभा ॥ ४३ ॥

रविमण्डलमध्यस्था रजनी रविलोचना ।

रथाङ्गपाणी रक्षोघ्नी रागिणी रावणार्चिता ॥ ४४ ॥

रम्भादिकन्यकाराध्या राज्यदा राज्यवर्धिनी ।

रजताद्रीशसक्थिस्था रम्या राजीवलोचना ॥ ४५ ॥

रम्यवाणी रमाराध्या राज्यधात्री रतोत्सवा ।

रेवती च रतोत्साहा राजहृद्रोगहारिणी ॥ ४६ ॥

रङ्गप्रवृद्धमधुरा रङ्गमण्डपमध्यगा ।

रञ्जिता राजजननी रम्या राकेन्दुमध्यगा ॥ ४७ ॥

राविणी रागिणी रञ्ज्या राजराजेश्वरार्चिता ।

राजन्वती राजनीती रजताचलवासिनी ॥ ४८ ॥

राघवार्चितपादश्रीः राघवी राघवप्रिया ।

रत्ननूपुरमध्याढ्या रत्नद्वीपनिवासिनी ॥ ४९ ॥

रत्नप्राकारमध्यस्था रत्नमण्डपमध्यगा ।

रत्नाभिषेकसन्तुष्टा रत्नाङ्गी रत्नदायिनी ॥ ५० ॥

णिकाररूपिणी नित्या नित्यतृप्ता निरञ्जना ।

निद्रात्ययविशेषज्ञा नीलजीमूतसन्निभा ॥ ५१ ॥

नीवारशूकवत्तन्वी नित्यकल्याणरूपिणी ।

नित्योत्सवा नित्यपूज्या नित्यानन्दस्वरूपिणी ॥ ५२ ॥

निर्विकल्पा निर्गुणस्था निश्चिन्ता निरुपद्रवा ।

निस्संशया निरीहा च निर्लोभा नीलमूर्धजा ॥ ५३ ॥

निखिलागममध्यस्था निखिलागमसंस्थिता ।

नित्योपाधिविनिर्मुक्ता नित्यकर्मफलप्रदा ॥ ५४ ॥

नीलग्रीवा निराहारा निरञ्जनवरप्रदा ।

नवनीतप्रिया नारी नरकार्णवतारिणी ॥ ५५ ॥

नारायणी निरीहा च निर्मला निर्गुणप्रिया ।

निश्चिन्ता निगमाचारनिखिलागमवेदिनी ॥ ५६ ॥

निमेषानिमिषोत्पन्ना निमेषाण्डविधायिनी ।

निवातदीपमध्यस्था निर्विघ्ना नीचनाशिनी ॥ ५७ ॥

नीलवेणी नीलखण्डा निर्विषा निष्कशोभिता ।

नीलांशुकपरीधाना निन्दाघ्नी च निरीश्वरी ॥ ५८ ॥

निश्वासोच्छ्वासमध्यस्था नित्ययानविलासिनी ।

यङ्काररूपा यन्त्रेशी यन्त्री यन्त्रयशस्विनी ॥ ५९ ॥

यन्त्राराधनसन्तुष्टा यजमानस्वरूपिणी ।

योगिपूज्या यकारस्था यूपस्तम्भनिवासिनी ॥ ६० ॥

यमघ्नी यमकल्पा च यशःकामा यतीश्वरी ।

यमादियोगनिरता यतिदुःखापहारिणी ॥ ६१ ॥

यज्ञा यज्वा यजुर्गेया यज्ञेश्वरपतिव्रता ।

यज्ञसूत्रप्रदा यष्ट्री यज्ञकर्मफलप्रदा ॥ ६२ ॥

यवाङ्कुरप्रिया यन्त्री यवदघ्नी यवार्चिता ।

यज्ञकर्ती यज्ञभोक्त्री यज्ञाङ्गी यज्ञवाहिनी ॥ ६३ ॥

यज्ञसाक्षी यज्ञमुखी यजुषी यज्ञरक्षणी ।

भकाररूपा भद्रेशी भद्रकल्याणदायिनी ॥ ६४ ॥

भक्तप्रिया भक्तसखी भक्ताभीष्टस्वरूपिणी ।

भगिनी भक्तसुलभा भक्तिदा भक्तवत्सला ॥ ६५ ॥

भक्तचैतन्यनिलया भक्तबन्धविमोचनी ।

भक्तस्वरूपिणी भाग्या भक्तारोग्यप्रदायिनी ॥ ६६ ॥

भक्तमाता भक्तगम्या भक्ताभीष्टप्रदायिनी ।

भास्करी भैरवी भोग्या भवानी भयनाशिनी ॥ ६७ ॥

भद्रात्मिका भद्रदायी भद्रकाली भयङ्करी ।

भगनिष्यन्दिनी भूम्नी भवबन्धविमोचनी ॥ ६८ ॥

भीमा भवसखी भङ्गी भङ्गुरा भीमदर्शिनी ।

भल्ली भल्लीधरा भीरुर्भेरुण्डा भीमपापहा ॥ ६९ ॥

भावज्ञा भोगदात्री च भवघ्नी भूतिभूषणा ।

भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७० ॥

भ्रामरी भ्रमरी भारी भवसागरतारिणी ।

भण्डासुरवधोत्साहा भाग्यदा भावमोदिनी ॥ ७१ ॥

गोकाररूपा गोमाता गुरुपत्नी गुरुप्रिया ।

गोरोचनप्रिया गौरी गोविन्दगुणवर्धिनी ॥ ७२ ॥

गोपालचेष्टासन्तुष्टा गोवर्धनविवर्धिनी ।

गोविन्दरूपिणी गोप्त्री गोकुलानां विवर्धिनी ॥ ७३ ॥

गीता गीतप्रिया गेया गोदा गोरूपधारिणी ।

गोपी गोहत्यशमनी गुणिनी गुणिविग्रहा ॥ ७४ ॥

गोविन्दजननी गोष्ठा गोप्रदा गोकुलोत्सवा ।

गोचरी गौतमी गोप्त्री गोमुखी गुणवासिनी ॥ ७५ ॥

गोपाली गोमया गुम्फा गोष्ठी गोपुरवासिनी ।

गरुडी गमनश्रेष्ठा गारुडी गरुडध्वजा ॥ ७६ ॥

गम्भीरा गण्डकी गुम्भा गरुडध्वजवल्लभा ।

गगनस्था गयावासा गुणवृत्तिर्गुणोद्भवा ॥ ७७ ॥

देकाररूपा देवेशी दृग्रूपा देवतार्चिता ।

देवराजेश्वरार्धाङ्गी दीनदैन्यविमोचनी ॥ ७८ ॥

देशकालपरिज्ञाना देशोपद्रवनाशिनी ।

देवमाता देवमोहा देवदानवमोहिनी ॥ ७९ ॥

देवेन्द्रार्चितपादश्रीर्देवदेवप्रसादिनी ।

देशान्तरी देशरूपा देवालयनिवासिनी ॥ ८० ॥

देशभ्रमणसन्तुष्टा देशस्वास्थ्यप्रदायिनी ।

देवयाना देवता च देवसैन्यप्रपालिनी ॥ ८१ ॥

वकाररूपा वाग्देवी वेदमानसगोचरा ।

वैकुण्ठदेशिका वेद्या वायुरूपा वरप्रदा ॥ ८२ ॥

वक्रतुण्डार्चितपदा वक्रतुण्डप्रसादिनी ।

वैचित्र्यरूपा वसुधा वसुस्थाना वसुप्रिया ॥ ८३ ॥

वषट्कारस्वरूपा च वरारोहा वरासना ।

वैदेहीजननी वेद्या वैदेहीशोकनाशिनी ॥ ८४ ॥

वेदमाता वेदकन्या वेदरूपा विनोदिनी ।

वेदान्तवादिनी चैव वेदान्तनिलयप्रिया ॥ ८५ ॥

वेदश्रवा वेदघोषा वेदगीता विनोदिनी ।

वेदशास्त्रार्थतत्त्वज्ञा वेदमार्गप्रदर्शिनी ॥ ८६ ॥

वेदोक्तकर्मफलदा वेदसागरवाडवा ।

वेदवन्द्या वेदगुह्या वेदाश्वरथवाहिनी ॥ ८७ ॥

वेदचक्रा वेदवन्द्या वेदाङ्गी वेदवित्कविः ।

स्यकाररूपा सामन्ता सामगानविचक्षणा ॥ ८८ ॥

साम्राज्ञी सामरूपा च सदानन्दप्रदायिनी ।

सर्वदृक्सन्निविष्टा च सर्वसम्प्रेषिणी सहा ॥ ८९ ॥

सव्यापसव्यदा सव्यसध्रीची च सहायिनी ।

सकला सागरा सारा सार्वभौमस्वरूपिणी ॥ ९० ॥

सन्तोषजननी सेव्या सर्वेशी सर्वरञ्जनी ।

सरस्वती समाराध्या सामदा सिन्धुसेविता ॥ ९१ ॥

सम्मोहिनी सदामोहा सर्वमाङ्गल्यदायिनी ।

समस्तभुवनेशानी सर्वकामफलप्रदा ॥ ९२ ॥

सर्वसिद्धिप्रदा साध्वी सर्वज्ञानप्रदायिनी ।

सर्वदारिद्र्यशमनी सर्वदुःखविमोचनी ॥ ९३ ॥

सर्वरोगप्रशमनी सर्वपापविमोचनी ।

समदृष्टिः समगुणा सर्वगोप्त्री सहायिनी ॥ ९४ ॥

सामर्थ्यवाहिनी साङ्ख्या सान्द्रानन्दपयोधरा ।

सङ्कीर्णमन्दिरस्थाना साकेतकुलपालिनी ॥ ९५ ॥

संहारिणी सुधारूपा साकेतपुरवासिनी ।

सम्बोधिनी समस्तेशी सत्यज्ञानस्वरूपिणी ॥ ९६ ॥

सम्पत्करी समानाङ्गी सर्वभावसुसंस्थिता ।

सन्ध्यावन्दनसुप्रीता सन्मार्गकुलपालिनी ॥ ९७ ॥

सञ्जीविनी सर्वमेधा सभ्या साधुसुपूजिता ।

समिद्धा सामिधेनी च सामान्या सामवेदिनी ॥ ९८ ॥

समुत्तीर्णा सदाचारा संहारा सर्वपावनी ।

सर्पिणी सर्पमाता च समादानसुखप्रदा ॥ ९९ ॥

सर्वरोगप्रशमनी सर्वज्ञत्वफलप्रदा ।

सङ्क्रमा समदा सिन्धुः सर्गादिकरणक्षमा ॥ १०० ॥

सङ्कटा सङ्कटहरा सकुङ्कुमविलेपना ।

सुमुखी सुमुखप्रीता समानाधिकवर्जिता ॥ १०१ ॥

संस्तुता स्तुतिसुप्रीता सत्यवादी सदास्पदा ।

धीकाररूपा धीमाता धीरा धीरप्रसादिनी ॥ १०२ ॥

धीरोत्तमा धीरधीरा धीरस्था धीरशेखरा ।

धृतिरूपा धनाढ्या च धनपा धनदायिनी ॥ १०३ ॥

धीरूपा धीरवन्द्या च धीप्रभा धीरमानसा ।

धीगेया धीपदस्था च धीशानी धीप्रसादिनी ॥ १०४ ॥

मकाररूपा मैत्रेयी महामङ्गलदेवता ।

मनोवैकल्यशमनी मलयाचलवासिनी ॥ १०५ ॥

मलयध्वजराजश्रीर्मायामोहविभेदिनी ।

महादेवी महारूपा महाभैरवपूजिता ॥ १०६ ॥

मनुप्रीता मन्त्रमूर्तिर्मन्त्रवश्या महेश्वरी ।

मत्तमातङ्गगमना मधुरा मेरुमण्डपा ॥ १०७ ॥

महागुप्ता महाभूतमहाभयविनाशिनी ।

महाशौर्या मन्त्रिणी च महावैरिविनाशिनी ॥ १०८ ॥

महालक्ष्मीर्महागौरी महिषासुरमर्दिनी ।

मही च मण्डलस्था च मधुरागमपूजिता ॥ १०९ ॥

मेधा मेधाकरी मेध्या माधवी मधुमर्दिनी ।

मन्त्रा मन्त्रमयी मान्या माया माधवमन्त्रिणी ॥ ११० ॥

मायादूरा च मायावी मायाज्ञा मानदायिनी ।

मायासङ्कल्पजननी मायामायविनोदिनी ॥ १११ ॥

मायाप्रपञ्चशमनी मायासंहाररूपिणी ।

मायामन्त्रप्रसादा च मायाजनविमोहिनी ॥ ११२ ॥

महापथा महाभोगा महविघ्नविनाशिनी ।

महानुभावा मन्त्राढ्या महमङ्गलदेवता ॥ ११३ ॥

हिकाररूपा हृद्या च हितकार्यप्रवर्धिनी ।

हेयोपाधिविनिर्मुक्ता हीनलोकविनाशिनी ॥ ११४ ॥

ह्रीङ्कारी ह्रीम्मती हृद्या ह्रीं‍देवी ह्रीं‍स्वभाविनी ।

ह्रीं‍मन्दिरा हितकरी हृष्टा च ह्रीं‍कुलोद्भवा ॥ ११५ ॥

हितप्रज्ञा हितप्रीता हितकारुण्यवर्धिनी ।

हिताशिनी हितक्रोधा हितकर्मफलप्रदा ॥ ११६ ॥

हिमा हैमवती हैम्नी हेमाचलनिवासिनी ।

हिमागजा हितकरी हितकर्मस्वभाविनी ॥ ११७ ॥

धिकाररूपा धिषणा धर्मरूपा धनेश्वरी ।

धनुर्धरा धराधारा धर्मकर्मफलप्रदा ॥ ११८ ॥

धर्माचारा धर्मसारा धर्ममध्यनिवासिनी ।

धनुर्विद्या धनुर्वेदा धन्या धूर्तविनाशिनी ॥ ११९ ॥

धनधान्या धेनुरूपा धनाढ्या धनदायिनी ।

धनेशी धर्मनिरता धर्मराजप्रसादिनी ॥ १२० ॥

धर्मस्वरूपा धर्मेशी धर्माधर्मविचारिणी ।

धर्मसूक्ष्मा धर्मगेहा धर्मिष्ठा धर्मगोचरा ॥ १२१ ॥

योकाररूपा योगेशी योगस्था योगरूपिणी ।

योग्या योगीशवरदा योगमार्गनिवासिनी ॥ १२२ ॥

योगासनस्था योगेशी योगमायाविलासिनी ।

योगिनी योगरक्ता च योगाङ्गी योगविग्रहा ॥ १२३ ॥

योगवासा योगभाग्या योगमार्गप्रदर्शिनी ।

योकाररूपा योधाढ्या योद्ध्री योधसुतत्परा ॥ १२४ ॥

योगिनी योगिनीसेव्या योगज्ञानप्रबोधिनी ।

योगेश्वरप्राणानाथा योगीश्वरहृदिस्थिता ॥ १२५ ॥

योगा योगक्षेमकर्त्री योगक्षेमविधायिनी ।

योगराजेश्वराराध्या योगानन्दस्वरूपिणी ॥ १२६ ॥

नकाररूपा नादेशी नामपारायणप्रिया ।

नवसिद्धिसमाराध्या नारायणमनोहरी ॥ १२७ ॥

नारायणी नवाधारा नवब्रह्मार्चिताङ्घ्रिका ।

नगेन्द्रतनयाराध्या नामरूपविवर्जिता ॥ १२८ ॥

नरसिंहार्चितपदा नवबन्धविमोचनी ।

नवग्रहार्चितपदा नवमीपूजनप्रिया ॥ १२९ ॥

नैमित्तिकार्थफलदा नन्दितारिविनाशिनी ।

नवपीठस्थिता नादा नवर्षिगणसेविता ॥ १३० ॥

नवसूत्रविधानज्ञा नैमिषारण्यवासिनी ।

नवचन्दनदिग्धाङ्गी नवकुङ्कुमधारिणी ॥ १३१ ॥

नववस्त्रपरीधाना नवरत्नविभूषणा ।

नव्यभस्मविदग्धाङ्गी नवचन्द्रकलाधरा ॥ १३२ ॥

प्रकाररूपा प्राणेशी प्राणसंरक्षणी परा ।

प्राणसञ्जीविनी प्राच्या प्राणिप्राणप्रबोधिनी ॥ १३३ ॥

प्रज्ञा प्राज्ञा प्रभापुष्पा प्रतीची प्रबुधप्रिया ।

प्राचीना प्राणिचित्तस्था प्रभा प्रज्ञानरूपिणी ॥ १३४ ॥

प्रभातकर्मसन्तुष्टा प्राणायामपरायणा ।

प्रायज्ञा प्रणवा प्राणा प्रवृत्तिः प्रकृतिः परा ॥ १३५ ॥

प्रबन्धा प्रथमा चैव प्रज्ञा प्रारब्धनाशिनी ।

प्रबोधनिरता प्रेक्ष्या प्रबन्धा प्राणसाक्षिणी ॥ १३६ ॥

प्रयागतीर्थनिलया प्रत्यक्षपरमेश्वरी ।

प्रणवाद्यन्तनिलया प्रणवादिः प्रजेश्वरी ॥ १३७ ॥

चोकाररूपा चोरघ्नी चोरबाधाविनाशिनी ।

चैतन्यचेतनस्था च चतुरा च चमत्कृतिः ॥ १३८ ॥

चक्रवर्तिकुलाधारा चक्रिणी चक्रधारिणी ।

चित्तगेया चिदानन्दा चिद्रूपा चिद्विलासिनी ॥ १३९ ॥

चिन्ताचित्तप्रशमनी चिन्तितार्थफलप्रदा ।

चाम्पेयी चम्पकप्रीता चण्डी चण्डाट्‍टहासिनी ॥ १४० ॥

चण्डेश्वरी चण्डमाता चण्डमुण्डविनाशिनी ।

चकोराक्षी चिरप्रीता चिकुरा चिकुरालका ॥ १४१ ॥

चैतन्यरूपिणी चैत्री चेतना चित्तसाक्षिणी ।

चित्रा चित्रविचित्राङ्गी चित्रगुप्तप्रसादिनी ॥ १४२ ॥

चलना चक्रसंस्था च चाम्पेयी चलचित्रिणी ।

चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला ॥ १४३ ॥

चन्द्रानुजसमाराध्या चन्द्रा चण्डमहोदरी ।

चर्चितारिश्चन्द्रमाता चन्द्रकान्ता चलेश्वरी ॥ १४४ ॥

चराचरनिवासी च चक्रपाणिसहोदरी ।

दकाररूपा दत्तश्रीर्दारिद्र्यच्छेदकारिणी ॥ १४५ ॥

दत्तात्रेयस्य वरदा दयालुर्दीनवत्सला ।

दक्षाराध्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ १४६ ॥

दक्षा दाक्षायणी दीक्षा दृष्टा दक्षवरप्रदा ।

दक्षिणा दक्षिणाराध्या दक्षिणामूर्तिरूपिणी ॥ १४७ ॥

दयावती दमस्वान्ता दनुजारिर्दयानिधिः ।

दन्तशोभनिभा देवी दमना दाडिमस्तनी ॥ १४८ ॥

दण्डा च दमयित्री च दण्डिनी दमनप्रिया ।

दण्डकारण्यनिलया दण्डकारिविनाशिनी ॥ १४९ ॥

दंष्ट्राकरालवदना दण्डशोभा दरोदरी ।

दरिद्रारिष्टशमनी दम्या दमनपूजिता ॥ १५० ॥

दानवार्चितपादश्रीर्द्रविणा द्राविणी दया ।

दामोदरी दानवारिर्दामोदरसहोदरी ॥ १५१ ॥

दात्री दानप्रिया दाम्नी दानश्रीर्द्विजवन्दिता ।

दन्तिगा दण्डिनी दूर्वा दधिदुग्धस्वरूपिणी ॥ १५२ ॥

दाडिमीबीजसन्दोहदन्तपङ्क्तिविराजिता ।

दर्पणा दर्पणस्वच्छा द्रुममण्डलवासिनी ॥ १५३ ॥

दशावतारजननी दशदिग्दैवपूजिता ।

दमा दशदिशा दृश्या दशदासी दयानिधिः ॥ १५४ ॥

देशकालपरिज्ञाना देशकालविशोधिनी ।

दशम्यादिकलाराध्य दशग्रीवविरोधिनी ॥ १५५ ॥

दशापराधशमनी दशवृत्तिफलप्रदा ।

यात्काररूपिणी याज्ञी यादवी यादवार्चिता ॥ १५६ ॥

ययातिपूजनप्रीता याज्ञिकी याजकप्रिया ।

यजमाना यदुप्रीता यामपूजाफलप्रदा ॥ १५७ ॥

यशस्विनी यमाराध्या यमकन्या यतीश्वरी ।

यमादियोगसन्तुष्टा योगीन्द्रहृदया यमा ॥ १५८ ॥

यमोपाधिविनिर्मुक्ता यशस्यविधिसन्नुता ।

यवीयसी युवप्रीता यात्रानन्दा यतीश्वरी ॥ १५९ ॥

योगप्रिया योगगम्या योगध्येया यथेच्छगा ।

यागप्रिया याज्ञसेनी योगरूपा यथेष्टदा ॥ १६० ॥

इति श्री गायत्री दिव्यसहस्रनाम स्तोत्रम् ॥

sri gayatri sahasranama stotram 2