Skip to main content
पडताळणी प्रलंबित

श्री शिव स्तुतिः (देव कृतम्)

देवा ऊचुः ।

नमः सहस्रनेत्राय नमस्ते शूलपाणिने ।

नमः खट्वाङ्गहस्ताय नमस्ते दण्डधारिणे ॥ १ ॥

त्वं देवहुतभुग्ज्वाला कोटिभानुसमप्रभः ।

अदर्शने वयं देव मूढविज्ञानतोधुना ॥ २ ॥

नमस्त्रिनेत्रार्तिहराय शम्भो

त्रिशूलपाणे विकृतास्यरूप ।

समस्त देवेश्वर शुद्धभाव

प्रसीद रुद्राऽच्युत सर्वभाव ॥ ३ ॥

भगास्य दन्तान्तक भीमरूप

प्रलम्ब भोगीन्द्र लुलुन्तकण्ठ ।

विशालदेहाच्युत नीलकण्ठ

प्रसीद विश्वेश्वर विश्वमूर्ते ॥ ४ ॥

भगाक्षि संस्फोटन दक्षकर्मा

गृहाण भागं मखतः प्रधानम् ।

प्रसीद देवेश्वर नीलकण्ठ

प्रपाहि नः सर्वगुणोपपन्न ॥ ५ ॥

सीताङ्गरागा प्रतिपन्नमूर्ते

कपालधारिंस्त्रिपुरघ्नदेव ।

प्रपाहि नः सर्वभयेषु चैकं

उमापते पुष्करनालजन्म ॥ ६ ॥

पश्यामि ते देहगतान् सुरेश

सर्गारयोवेदवराननन्त ।

साङ्गन् सविद्यान् सपदक्रमांश्च

सर्वान्निलीनांस्त्वयि देवदेव ॥ ७ ॥

भव शर्व महादेव पिनाकिन् रुद्र ते हर ।

नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ॥ ८ ॥

इति श्रीवराहपुराणान्तर्गत देवकृत शिवस्तुतिः ।

deva krita shiva stuti