Skip to main content
पडताळणी प्रलंबित

श्री सरस्वती स्तोत्रम् – ३

कुन्दालिद्युतिमन्दहाससुमुखी राकेन्दुबिम्बानना

मल्लीतल्लजमालतीसुमनसां सौभाग्यपाटच्चरी ।

फुल्लेन्दीवरबृन्दषट्पदतमःसन्दोहसन्देहकृ-

-द्वेणीका विधिसुन्दरी मम भवेदानन्दसन्दोहिनी ॥ १ ॥

यत्पादाम्बुजसेवयैव ससुरो लोकः समर्त्यासुरो

वागौन्नत्यमगाहत श्रुतिवचोवीथीषु या गीयते ।

या श्वेताम्बुजमध्यवासरसिका या नम्ररक्षामणिः

धातुः कापि कुटुम्बिनी वितरतात् सा निर्वृतिं नोऽतुलाम् ॥ २ ॥

कस्तूरीघनसारगन्धलहरीसंवासितोरःस्थला

संवीता स्फुटकाशपुष्पसदृशक्षौमांशुकेनानिशम् ।

पुस्तं हस्तचतुष्टये जपवटीं शस्तां शुकीं वल्लकीं

बिभ्राणा गृहिणी विधातुरवतान्नः सेवया तोषिता ॥ ३ ॥

शुभ्रं दभ्रवलग्नमभ्रतनु तेऽदभ्रप्रमोदप्रदं

विभ्रान्ते भ्रमदन्धपस्य सततं तैस्तैर्निजैर्विभ्रमैः ।

शब्दब्रह्ममये जगत्यनितरापेक्षाधिकारक्रियं

किञ्चित्कुञ्चितकेशमद्य जयति स्रष्टुर्भुविष्ठं महः ॥ ४ ॥

इति श्री सरस्वती स्तोत्रम् ॥

sri saraswati stotram 3