Skip to main content
पडताळणी प्रलंबित

श्री छिन्नमस्ता देवि हृदयम्

श्री पार्वत्युवाच ।

श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्ज निस्सृतम् ।

हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥ १ ॥

श्री महादेव उवाच ।

नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे ।

यत्त्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥ २ ॥

ओं अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमहामन्त्रस्य – भैरव ऋषिः – सम्राट् छन्दः -छिन्नमस्ता देवता – हूं बीजम् – ओं शक्तिः – ह्रीं कीलकं – शत्रुक्षयकरणार्थे जपे विनियोगः ॥

अथ करन्यासः ।

ओं ओं अङ्गुष्ठाभ्यां नमः ।

ओं हूं तर्जनीभ्यां नमः ।

ओं ह्रीं मध्यमाभ्यां नमः ।

ओं क्लीं अनामिकाभ्यां नमः ।

ओं ऐं कनिष्ठिकाभ्यां नमः ।

ओं हूं करतलकरपृष्ठाभ्यां नमः ।

अथ करन्यासः ।

ओं ओं हृदयाय नमः ।

ओं हूं शिरसे स्वाहा ।

ओं ह्रीं शिखायै वषट् ।

ओं क्लीं नेत्रत्रयाय वौषट् ।

ओं ऐं कवचाय हुम् ।

ओं हूं अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

रक्ताभां रक्तकेशीं करकमललसत्कर्तृकां कालकान्तिं

विच्छिन्नात्मीयमुण्डासृगरुणबहुलां चक्रधारां पिबन्तीम् ।

विघ्नाभ्रौघप्रचण्डश्वसनसमनिभां सेवितां सिद्धसङ्घैः

पद्माक्षीं छिन्नमस्तां छलकरदितिजच्छेदिनीं संस्मरामि ॥ १ ॥

वन्देऽहं छिन्नमस्तां तां छिन्नमुण्डधरां परां ।

छिन्नग्रीवोच्छटाच्छन्नां क्षौमवस्त्रपरिच्छदाम् ॥ २ ॥

सर्वदा सुरसङ्घेन सेविताङ्घ्रिसरोरुहां ।

सेवे सकलसम्पत्यै छिन्नमस्तां शुभप्रदाम् ॥ ३ ॥

यज्ञानां योगयज्ञाय या तु जाता युगे युगे ।

दानवान्तकरीं देवीं छिन्नमस्तां भजामि ताम् ॥ ४ ॥

वैरोचनीं वरारोहां वामदेमविवर्धितां ।

कोटिसूर्यप्रभां वन्दे विद्युद्वर्णाक्षिमण्डिताम् ॥ ५ ॥

निजकण्ठोच्छलद्रक्तधारया या मुहुर्मुहुः ।

योगिनी गणसंस्तुत्या तस्याश्चरणमाश्रये ॥ ६ ॥

हूमित्येकाक्षरं मन्त्रं यदीयं युक्तमानसः ।

यो जपेत्तस्य विद्वेषी भस्मतां याति तां भजे ॥ ७ ॥

हूं स्वाहेति मनुं सम्यग्यस्स्मरत्यार्तिमान्नरः ।

छिनत्ति छिन्नमस्ताया तस्य बाधां नमामि ताम् ॥ ८ ॥

यस्याः कटाक्षमात्रेण क्रूरभूतादयो द्रुतम् ।

दूरे तस्य पलायन्ते छिन्नमस्तां भजामि ताम् ॥ ९ ॥

क्षितितलपरिरक्षाक्षान्तरोषा सुदक्षा

छलयुतकलकक्षाच्छेदने क्षान्तिलक्ष्या ।

क्षितिदितिजसुपक्षा क्षोणिपाक्षय्यशिक्षा

जयतु जयतु चाक्षा छिन्नमस्तारिभक्षा ॥ १० ॥

कलिकलुषकलानां कर्तने कर्त्रिहस्ता

सुरकुवलयकाशा मन्दभानुप्रकाशा ।

असुरकुलकलापत्रासिकाकालमूर्ति-

र्जयतु जयतु काली छिन्नमस्ता कराली ॥ ११ ॥

भुवनभरणभूरी भ्राजमानानुभावा

भव भव विभवानां भारणोद्भातभूतिः ।

द्विजकुलकमलानां भासिनी भानुमूर्ति-

र्भवतु भवतु वाणी छिन्नमस्ता भवानी ॥ १२ ॥

मम रिपुगणमाशु च्छेत्तुमुग्रं कृपाणं

सपदि जननि तीक्ष्णं छिन्नमुण्डं गृहाण ।

भवतु तव यशोऽलं छिन्धि शत्रून्कलान्मे

मम च परिदिशेष्टं छिन्नमस्ते क्षमस्व ॥ १३ ॥

छिन्नग्रीवा छिन्नमस्ता छिन्नमुण्डधराऽक्षता ।

क्षोदक्षेमकरी स्वक्षा क्षोणीशाच्छादन क्षमा ॥ १४ ॥

वैरोचनी वरारोहा बलिदानप्रहर्षिता ।

बलियोजितपादाब्जा वासुदेव प्रपूजिता ॥ १५ ॥

इति द्वादशनामानि छिन्नमस्ता प्रियाणि यः ।

स्मरेत्प्रातस्समुत्थाय तस्य नश्यन्ति शत्रवः ॥ १६ ॥

यां स्मृत्वा सन्ति सद्यः सकलः सुरगणाः सर्वदा सम्पदाढ्याः

शत्रूणां सङ्घमाहत्य विशदवदनाः स्वस्थचित्ताः श्रयन्ति ।

तस्याः सङ्कल्पवन्तः सरसिजचरणस्सन्ततं संश्रयन्ति

साऽऽद्या श्रीशादिसेव्या सुफलतु सुतरां छिन्नमस्ता प्रशस्ता ॥ १७ ॥

हृदयमितिमज्ञात्वा हन्तुमिच्छति यो द्विषम् ।

कथं तस्याचिरं शत्रुर्नाशमेष्यति पार्वति ॥ १८ ॥

यदीच्छेन्नाशनं शत्रोः शीघ्रमेतत्पठेन्नरः ।

छिन्नमस्ता प्रसन्नापि ददाति फलमीप्सितम् ॥ १९ ॥

शत्रुप्रशमनं पुण्यं समीप्सितफलप्रदम् ।

आयुरारोग्यदं चैव पठतां पुण्यसाधनम् ॥ २० ॥

इति श्रीनन्द्यावर्ते महादेवपार्वतीसंवादे श्रीछिन्नमस्ताहृदयस्तोत्रं सम्पूर्णम् ॥

sri chinnamastha devi hridayam