Skip to main content
पडताळणी प्रलंबित

प्रचण्ड चण्डिका स्तवराजः (श्री छिन्नमस्ता स्तोत्रम्)

आनन्दयित्रि परमेश्वरि वेदगर्भे

मातः पुरन्दरपुरान्तरलब्धनेत्रे ।

लक्ष्मीमशेषजगतां परिभावयन्तः

सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १ ॥

लज्जानुगां विमलविद्रुमकान्तिकान्तां

कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।

ये भावयन्ति मनसा मनुजास्त एते

सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २ ॥

मायामयीं निखिलपातककोटिकूट-

-विद्राविणीं भृशमसंशयिनो भजन्ति ।

त्वां पद्मसुन्दरतनुं तरुणारुणास्यां

पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३ ॥

ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पै-

-श्छन्दोऽभिशोभितमुखाः सकलागमज्ञाः ।

सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां

ये वाग्भवे च भवतीं परिभावयन्ति ॥ ४ ॥

वज्रपणुन्नहृदया समयद्रुहस्ते

वैरोचने मदनमन्दिरगास्यमातः ।

मायाद्वयानुगतविग्रहभूषिताऽसि

दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५ ॥

वृत्तत्रयाष्टदलवह्निपुरःसरस्य

मार्तण्डमण्डलगतां परिभावयन्ति ।

ये वह्निकूटसदृशीं मणिपूरकान्त-

-स्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६ ॥

कालागरुभ्रमरचन्दनकुण्डगोल-

-खण्डैरनङ्गमदनोद्भवमादनीभिः ।

सिन्दूरकुङ्कुमपटीरहिमैर्विधाय

सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७ ॥

चञ्चत्तडिन्मिहिरकोटिकरां विचेला-

-मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।

वामे विकीर्णकचशीर्षकरे परे ता-

-मीडे परं परमकर्त्रिकया समेताम् ॥ ८ ॥

कामेश्वराङ्गनिलयां कलया सुधांशो-

-र्विभ्राजमानहृदयामपरे स्मरन्ति ।

सुप्ताहिराजसदृशीं परमेश्वरस्थां

त्वामद्रिराजतनये च समानमानाः ॥ ९ ॥

लिङ्गत्रयोपरिगतामपि वह्निचक्र-

-पीठानुगां सरसिजासनसन्निविष्टाम् ।

सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्त-

-हुङ्कारवायुवशिभिर्मनसा भजन्ति ॥ १० ॥

शुभ्रासि शान्तिककथासु तथैव पीता

स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।

उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं

संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११ ॥

त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतै-

-र्गव्यैः पयोविलुलितैः शतमेव कुण्डे ।

साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं

षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२ ॥

जाग्रत्स्वपन्नपि शिवे तव मन्त्रराज-

-मेवं विचिन्तयति यो मनसा विधिज्ञः ।

संसारसागरसमृद्धरणे वहित्रं

चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥ १३ ॥

इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः

पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।

सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः

सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४ ॥

कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री

संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।

हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजाती-

-श्वेतैरब्धं सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५ ॥

अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां

मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।

आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा

हुत्वा मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६ ॥

इदं देव्याः स्तोत्रम् पठति मनुजो यस्त्रिसमयं

शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।

वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा

भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७ ॥

इति श्रीशङ्कराचार्यविरचितः प्रचण्डचण्डिकास्तवराजः समाप्तः ॥

prachanda chandika stavaraja