Skip to main content
पडताळणी प्रलंबित

श्री त्रिपुरभैरवी अष्टोत्तरशतनाम स्तोत्रम्

श्रीदेव्युवाच ।

कैलासवासिन् भगवन् प्राणेश्वर कृपानिधे ।

भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ १ ॥

न श्रुतं देवदेवेश वद मां दीनवत्सल ।

श्रीशिव उवाच ।

शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ २ ॥

भैरव्याश्शुभदं सेव्यं सर्वसम्पत्प्रदायकम् ।

यस्यानुष्ठानमात्रेण किं न सिद्ध्यति भूतले ॥ ३ ॥

ओं भैरवी भैरवाराध्या भूतिदा भूतभावना ।

आर्या ब्राह्मी कामधेनुस्सर्वसम्पत्प्रदायिनी ॥ ४ ॥

त्रैलोक्यवन्दिता देवी महिषासुरमर्दिनी ।

मोहघ्नी मालती माला महापातकनाशिनी ॥ ५ ॥

क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।

त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ ६ ॥

देवकी देवमाता च देवदुष्टविनाशिनी ।

दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ ७ ॥

लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा ।

प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ ८ ॥

प्रभावती गुणवती गणमाता गुहेश्वरी ।

क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ ९ ॥

महामारी महामोहा महाक्रोधा महानदी ।

महापातकसंहर्त्री महामोहप्रदायिनी ॥ १० ॥

विकराला महाकाला कालरूपा कलावती ।

कपालखट्वाङ्गधरा खड्गखर्परधारिणी ॥ ११ ॥

कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता ।

कौमोदकी कुमुदिनी कीर्त्या कीर्तिप्रदायिनी ॥ १२ ॥

नवीना नीरदा नित्या नन्दिकेश्वरपालिनी ।

घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ १३ ॥

कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।

किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी ॥ १४ ॥

महोन्मत्ता महामत्ता महाविद्या महीमयी ।

महायज्ञा महावाणी महामन्दरधारिणी ॥ १५ ॥

मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।

अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी ॥ १६ ॥

दीर्घदम्ष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।

दनुजान्तकरी दुष्टा दुःखदारिद्र्यभञ्जिनी ॥ १७ ॥

दुराचारा च दोषघ्नी दमपत्नी दयापरा ।

मनोभवा मनुमयी मनुवंशप्रवर्धिनी ॥ १८ ॥

श्यामा श्यामतनुश्शोभा सौम्या शम्भुविलासिनी ।

इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १९ ॥

भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।

अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ २० ॥

देवीं ध्यात्वा सुरां पीत्वा मकारैः पञ्चकैः प्रिये ।

पूजयेत्सततं भक्त्या पठेत् स्तोत्रमिदं शुभम् ॥ २१ ॥

षण्मासाभ्यन्तरे सोऽपि गणनाथसमो भवेत् ।

किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ २२ ॥

सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।

न देयं परशिष्येभ्यो निन्दकेभ्यो विशेषतः ॥ २३ ॥

इति श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् ।

sri tripura bhairavi ashtottara shatanama stotram