Skip to main content
पडताळणी प्रलंबित

कनकधारा स्तोत्रम्

वन्दे वन्दारु मन्दारमिन्दिरानन्दकन्दलम् ।

अमन्दानन्दसन्दोह बन्धुरं सिन्धुराननम् ॥

अङ्गं हरेः पुलकभूषणमाश्रयन्ती

भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।

अङ्गीकृताखिलविभूतिरपाङ्गलीला

माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारेः

प्रेमत्रपाप्रणिहितानि गतागतानि ।

मालादृशोर्मधुकरीव महोत्पले या

सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्ष-

-मानन्दहेतुरधिकं मुरविद्विषोऽपि ।

ईषन्निषीदतु मयि क्षणमीक्षणार्थ-

-मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्द-

-मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।

आकेकरस्थितकनीनिकपक्ष्मनेत्रं

भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या

हारावलीव हरिनीलमयी विभाति ।

कामप्रदा भगवतोऽपि कटाक्षमाला

कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥

कालाम्बुदालिललितोरसि कैटभारे-

-र्धाराधरे स्फुरति या तटिदङ्गनेव ।

मातुस्समस्तजगतां महनीयमूर्तिः

भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-

-न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।

मय्यापतेत्तदिह मन्थरमीक्षणार्धं

मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥

दद्याद्दयानुपवनो द्रविणाम्बुधारा-

-मस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे ।

दुष्कर्मघर्ममपनीय चिराय दूरं

नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-

-दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।

दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां

पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति

शाकम्भरीति शशिशेखरवल्लभेति ।

सृष्टिस्थितिप्रलयकेलिषु संस्थितायै

तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै

रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।

शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै

पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥

नमोऽस्तु नालीकनिभाननायै

नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।

नमोऽस्तु सोमामृतसोदरायै

नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

[* अधिक श्लोकाः –

नमोऽस्तु हेमाम्बुजपीठिकायै

नमोऽस्तु भूमण्डलनायिकायै ।

नमोऽस्तु देवादिदयापरायै

नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥

नमोऽस्तु देव्यै भृगुनन्दनायै

नमोऽस्तु विष्णोरुरसिस्थितायै ।

नमोऽस्तु लक्ष्म्यै कमलालयायै

नमोऽस्तु दामोदरवल्लभायै ॥

नमोऽस्तु कान्त्यै कमलेक्षणायै

नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।

नमोऽस्तु देवादिभिरर्चितायै

नमोऽस्तु नन्दात्मजवल्लभायै ॥

*]

सम्पत्कराणि सकलेन्द्रियनन्दनानि

साम्राज्यदानविभवानि सरोरुहाक्षि ।

त्वद्वन्दनानि दुरिताहरणोद्यतानि

मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥

यत्कटाक्षसमुपासनाविधिः

सेवकस्य सकलार्थसम्पदः ।

सन्तनोति वचनाङ्गमानसै-

-स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

सरसिजनिलये सरोजहस्ते

धवलतमांशुकगन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे

त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-

-स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।

प्रातर्नमामि जगतां जननीमशेष-

-लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

कमले कमलाक्षवल्लभे त्वं

करुणापूरतरङ्गितैरपाङ्गैः ।

अवलोकय मामकिञ्चनानां

प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

[* अधिक श्लोकाः –

बिल्वाटवीमध्यलसत्सरोजे

सहस्रपत्रे सुखसन्निविष्टाम् ।

अष्टापदाम्भोरुहपाणिपद्मां

सुवर्णवर्णां प्रणमामि लक्ष्मीम् ॥

कमलासनपाणिना ललाटे

लिखितामक्षरपङ्क्तिमस्य जन्तोः ।

परिमार्जय मातरङ्घ्रिणा ते

धनिकद्वारनिवास दुःखदोग्ध्रीम् ॥

अम्भोरुहं जन्मगृहं भवत्याः

वक्षःस्थलं भर्तृगृहं मुरारेः ।

कारुण्यतः कल्पय पद्मवासे

लीलागृहं मे हृदयारविन्दम् ॥

*]

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं

त्रयीमयीं त्रिभुवनमातरं रमाम् ।

गुणाधिका गुरुतरभाग्यभाजिनो

भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥

[* अधिक श्लोकं –

सुवर्णधारास्तोत्रम् यच्छङ्कराचार्य निर्मितम् ।

त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥

*]

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कनकधारास्तोत्रम् सम्पूर्णम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

Notes & References: Following variations are to be noticed.

18 Shloka version: The Works of Sri Sankaracharya, Sri Vani Vilas Edition – 1910, sringeri.net, Kamakoti.org Link-1, audio rendition by Sri Chaganti Koteswara Rao garu on YouTube.com from Sanatana Dharmam channel.

18 Shloka version (with a different sequence and without “vande vandaru” shloka): Kamakoti.org Link-2, sanskritdocuments.org. This variation is also available with us.

21 Shloka version (including 3 extra “namostu” shlokas): Audio renditions by Sri M.S.Subbulakshmi on YouTube.com from Saregama India Ltd and SVBC TTD Channel.

25 Shloka version (including 3 “namostu” shlokas, 3 extra “bilvatavi, kamalasana, ambhoruham” shlokas and 1 phalasruti shloka): PDF from SVBC TTD Channel, Audio rendition by Dr. Madugula Nagaphani Sharma garu in Avadhana Saraswati Peetam YouTube channel.

kanakadhara stotram in hindi