Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति स्तोत्रम् – ४

नतखेटनिशाटकिरीटतटी

घटितोपलपाटलपीठितलम् ।

तटिदाभजटापटलीमुकुटं

वटमूलकुटीनिलयं कलये ॥ १ ॥

स्मरणं खलु यच्चरणाम्बुजयो-

-र्भरणाय भवोत्तरणाय भवेत् ।

शरणं करुणावरुणावसथं

भज बालसुधाकिरणाभरणम् ॥ २ ॥

परिकीर्णसुवर्णसवर्णजटा-

-भ्रमदभ्रसरिच्छरदभ्ररुचिः ।

मकुटोकुटिलं छटयन् शशिनं

निटिलेनलदृग्जटिलो जयति ॥ ३ ॥

वरभूजकुटीघटितस्फटिको-

-पलकुट्‍टिमवेदितले विमले ।

स्मितफुल्लमुखं चिदुपात्तसुखं

पुरवैरिमहः करवै हृदये ॥ ४ ॥

अकलङ्कशशाङ्कसहस्रसहो-

-दरदीधितिदीपितदिग्वलयम् ।

निगमागमनीरधिनिर्मथनो-

-दितमाकलयाम्यमृतं किमपि ॥ ५ ॥

विषभूषमपाकृतदोषचयं

मुनिवेषविशेषमशेषगुरुम् ।

धृतचिन्मयमुद्रमहं कलये

गतनिद्रममुद्रसमाधिविधौ ॥ ६ ॥

दृढयोगरसानुभवोत्कलिकं

प्रसरत्पुलकं क्रतुभुक्तिलकम् ।

भसितोल्लसितालिकविस्फुरिता-

-नलदृक्तिलकं कलयेन्दुशिखम् ॥ ७ ॥

वद चित्त किमात्तमभूद्भवता

भ्रमता बहुधाखिलदिक्षु मुधा ।

निजशर्मकरं कुरु कर्म परं

भवमेव भयापहमाकलय ॥ ८ ॥

वरपुस्तकहस्तमपास्ततमः

श्रुतिमस्तकशस्तसमस्तगुणम् ।

मम निस्तुलवस्तु पुरोऽस्तु वरं

प्रणवप्रवणप्रवरावगतम् ॥ ९ ॥

इति श्री दक्षिणामूर्ति स्तोत्रम् ॥

sri dakshinamurthy stotram 4