Skip to main content
पडताळणी प्रलंबित

श्री ज्वालामुखि अष्टकम्

जालन्धरावनिवनीनवनीरदाभ-

-प्रोत्तालशैलवलयाकलिताधिवासाम् ।

आशातिशायिफलकल्पनकल्पवल्लीं

ज्वालामुखीमभिमुखीभवनाय वन्दे ॥ १ ॥

ज्येष्ठा क्वचित् क्वचिदुदारकला कनिष्ठा

मध्या क्वचित् क्वचिदनुद्भवभावभव्या ।

एकाप्यनेकविधया परिभाव्यमाना

ज्वालामुखी सुमुखभावमुरीकरोतु ॥ २ ॥

अश्रान्तनिर्यदमलोज्वलवारिधारा

सन्धाव्यमानभवनान्तरजागरूका ।

मातर्ज्वलज्ज्वलनशान्तशिखानुकारा

रूपच्छटा जयति काचन तावकीना ॥ ३ ॥

मन्ये विहारकुतुकेषु शिवानुरूपं

रूपं न्यरूपि खलु यत्सहसा भवत्या ।

तत्सूचनार्थमिह शैलवनान्तराले

ज्वालामुखीत्यभिधया स्फुटमुच्यसेऽद्य ॥ ४ ॥

सत्या ज्वलत्तनुसमुद्गतपावकार्चि-

-र्ज्वालामुखीत्यभिमृशन्ति पुराणमिश्राः ।

आस्तां वयं तु भजतां दुरितानि दग्धुं

ज्वालात्मना परिणता भवतीति विद्मः ॥ ५ ॥

यावत् त्वदीयचरणाम्बुजयोर्न राग-

-स्तावत् कुतः सुखकराणि हि दर्शनानि ।

प्राक् पुण्यपाकबलतः प्रसृते तु तस्मिन्

नास्त्येव वस्तु भुवने सुखकृन्न यत् स्यात् ॥ ६ ॥

आत्मस्वरूपमिह शर्मसरूपमेव

वर्वर्ति किन्तु जगदम्ब न यावदेतत् ।

उद्घाट्यते करुणया गुरुतां वहन्त्या

तावत् सुखस्य कणिकापि न जायतेऽत्र ॥ ७ ॥

आस्तां मतिर्मम सदा तव पादमूले

तां चालयेन्न चपलं मन एतदम्ब ।

याचे पुनः पुनरिदं प्रणिपत्य मात-

-र्ज्वालामुखि प्रणतवाञ्छितसिद्धिदे त्वाम् ॥ ८ ॥

इति श्री ज्वालामुखी अष्टकम् ॥

sri jwalamukhi ashtakam