Skip to main content
पडताळणी प्रलंबित

श्री चन्द्रमौलीश स्तोत्रम्

ओंकारजपरतानामोंकारार्थं मुदा विवृण्वानम् ।

ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ १ ॥

नम्रसुरासुरनिकरं नलिनाहङ्कारहारिपदयुगलम् ।

नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥ २ ॥

मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते ।

मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चन्द्रमौलीशम् ॥ ३ ॥

शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् ।

नतमतिदानधुरीणं सततं प्रणमामि चन्द्रमौलीशम् ॥ ४ ॥

वाचो विनिवर्तन्ते यस्मादप्राप्य सह हृदैवेति ।

गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ ५ ॥

यच्छन्ति यत्पदाम्बुजभक्ताः कुतुकात्स्वभक्तेभ्यः ।

सर्वानपि पुरुषार्थांस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ ६ ॥

पञ्चाक्षरमनुवर्णैरादौ क्लुप्तां स्तुतिं पठन्नेनाम् ।

प्राप्य दृढां शिवभक्तिं भुक्त्वा भोगाँल्लभेत मुक्तिमपि ॥ ७ ॥

इति श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामिभिः विरचितं श्री चन्द्रमौलीश स्तोत्रम् ॥

sri chandramouleshwara stotram