Skip to main content
पडताळणी प्रलंबित

श्री विन्ध्यवासिनी स्तोत्रम्

निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् ।

वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ १ ॥

त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।

गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ २ ॥

दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् ।

वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥ ३ ॥

लसत्सुलोललोचनां जने सदा वरप्रदाम् ।

कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥ ४ ॥

करे मुदा गदाधरीं शिवा शिवप्रदायिनीम् ।

वरां वराननां शुभां भजामि विन्ध्यवासिनीम् ॥ ५ ॥

ऋषीन्द्रजामिनीप्रदां त्रिधास्वरूपधारिणीम् ।

जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥ ६ ॥

विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम् ।

महोदरे विलासिनीं भजामि विन्ध्यवासिनीम् ॥ ७ ॥

पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।

विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥ ८ ॥

इति श्री विन्ध्यवासिनी स्तोत्रम् ।

sri vindhyavasini vindhyeshwari stotram