Skip to main content
पडताळणी प्रलंबित

श्री वाणी स्तवनम् (याज्ञ्यवल्क्य कृतम्)

नारायण उवाच ।

वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।

महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १ ॥

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।

तदा जगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ २ ॥

सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।

तुष्टाव सूर्यं शोकेन रुरोद च पुनः पुनः ॥ ३ ॥

सूर्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।

उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ ४ ॥

तमित्युक्त्वा दीननाथो ह्यन्तर्धानं जगाम सः ।

मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५ ॥

याज्ञवल्क्य उवाच ।

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।

गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६ ॥

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।

प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम् ॥ ७ ॥

ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।

प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८ ॥

लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।

यथाङ्कुरं जनयति भगवान्योगमायया ॥ ९ ॥

ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ।

सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १० ॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।

ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११ ॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।

वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२ ॥

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ।

वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३ ॥

विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।

इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४ ॥

यया विनाऽत्र सङ्ख्याकृत्सङ्ख्यां कर्तुं न शक्नुते ।

कालसङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५ ॥

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।

भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६ ॥

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।

प्रतिभा कल्पनाशक्तिर्या च तस्यै नमो नमः ॥ १७ ॥

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।

बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ १८ ॥

तदाजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।

उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ॥ १९ ॥

स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ।

चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥ २० ॥

यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।

बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ २१ ॥

तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ।

ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥ २२ ॥

व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम् ।

मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥ २३ ॥

तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।

स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ २४ ॥

पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।

त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे ॥ २५ ॥

तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।

तदा वेदविभागं च पुराणानि चकार ह ॥ २६ ॥

यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ।

क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं ददौ विभुः ॥ २७ ॥

पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ।

दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ २८ ॥

तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ २९ ॥

अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।

ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥ ३० ॥

त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।

दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ ३१ ॥

जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ ३२ ॥

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ ३३ ॥

तदा ज्योतिःस्वरूपा सा तेनादृष्टाप्युवाच तम् ।

सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥ ३४ ॥

याज्ञवल्क्य कृतं वाणीस्तोत्रं यः सम्यतः पठेत् ।

स कवीन्द्रो महावाग्मी बृहस्पति समो भवेत् ॥ ३५ ॥

महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।

स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ ३५ ॥

इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायण संवादे याज्ञवल्क्योक्त वाणी स्तवनं नाम पञ्चमोऽध्यायः ॥

sri saraswati stotram yajnavalkya kritam