Skip to main content
पडताळणी प्रलंबित

श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम्

उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं

भुजाकङ्कणैः शोभिनं धूम्रकेतुम् ।

गले हारमुक्तावलीशोभितं तं

नमो ज्ञानरूपं गणेशं नमस्ते ॥ १ ॥

गणेशं वदेत्तं स्मरेत् सर्वकार्ये

स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।

मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये-

-न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥

महासुन्दरं वक्त्रचिह्नं विराटं

चतुर्धाभुजं चैकदन्तैकवर्णम् ।

इदं देवरूपं गणं सिद्धिनाथं

नमो भालचन्द्रं गणेशं नमस्ते ॥ ३ ॥

ससिन्दूरसत्कुङ्कुमैस्तुल्यवर्णः

स्तुतैर्मोदकैः प्रीयते विघ्नराजः ।

महासङ्कटच्छेदकं धूम्रकेतुं

नमो गौरिपुत्रं गणेशं नमस्ते ॥ ४ ॥

यथा पातकच्छेदकं विष्णुनाम

तथा ध्यायतां शङ्करं पापनाशः ।

यथा पूजिते षण्मुखे शोकनाशो

नमो विघ्ननाशं गणेशं नमस्ते ॥ ५ ॥

सदा सर्वदा ध्यायतामेकदन्तं

सुसिन्दूरकं पूजितं रक्तपुष्पैः ।

सदा चर्चितं चन्दनैः कुङ्कुमाक्तं

नमो ज्ञानरूपं गणेशं नमस्ते ॥ ६ ॥

नमो गौरिकागर्भजापत्य तुभ्यं

नमो ज्ञानरूपिन्नमः सिद्धिकान्त ।

नमो ध्येयपूज्याय हे बुद्धिनाथ

सुरास्त्वां भजन्ते गणेशं नमस्ते ॥ ७ ॥

भुजङ्गप्रयातं पठेद्यस्तु भक्त्या

प्रभाते जपेन्नित्यमेकाग्रचित्तः ।

क्षयं यान्ति विघ्ना दिशः शोभयन्तं

नमो ज्ञानरूपं गणेशं नमस्ते ॥ ८ ॥

इति श्रीढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् ।

dhundiraja bhujanga prayata stotram