Skip to main content
पडताळणी प्रलंबित

श्री महालक्ष्मी स्तोत्रम् (महेन्द्र कृतम्)

महेन्द्र उवाच ।

नमः कमलवासिन्यै नारायण्यै नमो नमः ।

कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ १ ॥

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।

पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २ ॥

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ।

सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ३ ॥

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४ ॥

कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः ।

सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५ ॥

सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः ।

नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ६ ॥

वैकुण्ठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।

स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ७ ॥

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।

सुरभिः सा गवां माता दक्षिणा यज्ञकामिनी ॥ ८ ॥

अदितिर्देवमाता त्वं कमला कमलालये ।

स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ९ ॥

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।

शुद्धसत्त्वस्वरूपा त्वं नारायणपरायाणा ॥ १० ॥

क्रोधहिंसावर्जिता च वरदा च शुभानना ।

परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ११ ॥

यया विना जगत्सर्वं भस्मीभूतमसारकम् ।

जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ १२ ॥

सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी ।

यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा ॥ १३ ॥

त्वया हीनो बन्धुहीनस्त्वया युक्तः सबान्धवः ।

धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १४ ॥

स्तनन्धयानां त्वं माता शिशूनां शैशवे यथा ।

तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥ १५ ॥

त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः ।

त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ १६ ॥

सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवाम्बिके ।

वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ १७ ॥

वयं यावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः ।

सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ १८ ॥

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।

कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥ १९ ॥

कामं देहि मतिं देहि भोगान् देहि हरिप्रिये ।

ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ २० ॥

सर्वाधिकारमेवं वै प्रभावां च प्रतापकम् ।

जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ २१ ॥

इत्युक्त्वा तु महेन्द्रश्च सर्वैः सुरगणैः सह ।

ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥ २२ ॥

ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ।

सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ॥ २३ ॥

देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ।

केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ २४ ॥

ययुर्दैवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ।

देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ॥ २५ ॥

ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद ।

दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ २६ ॥

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।

कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ॥ २७ ॥

सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः ।

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ २८ ॥

सिद्धस्तोत्रं यदि पठेन्मासमेकं च सम्यतः ।

महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ २९ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे एकोनचत्वारिंशत्तमोऽध्याये महेन्द्र कृत श्री महालक्ष्मी स्तोत्रम् ।

टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।

( पारायण ग्रन्थम् )

sri lakshmi stotram indra rachitam in hindi