Skip to main content
पडताळणी प्रलंबित

श्री शीतलाष्टकम्

अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः अनुष्टुप् छन्दः शीतला देवता लक्ष्मीर्बीजं भवानी शक्तिः सर्वविस्फोटकनिवृत्यर्थे जपे विनियोगः ॥

ईश्वर उवाच ।

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् ।

मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥

वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।

यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।

विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥

यस्त्वामुदकमध्ये तु ध्यात्वा सम्पूजयेन्नरः ।

विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥

शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च ।

प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥

शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् ।

विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी ॥ ६ ॥

गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् ।

त्वदनुध्यानमात्रेण शीतले यान्ति सङ्क्षयम् ॥ ७ ॥

न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते ।

त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥

मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।

यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते ॥ ९ ॥

अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा ।

विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥

श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।

उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।

शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२ ॥

रासभो गर्दभश्चैव खरो वैशाखनन्दनः ।

शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३ ॥

एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।

तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४ ॥

शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् ।

दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥

इति श्रीस्कान्दपुराणे शीतलाष्टकम् ॥

sri seethalashtakam