Skip to main content
पडताळणी प्रलंबित

श्री दक्षिणामूर्ति स्तोत्रम् – १

उपासकानां यदुपासनीय-

-मुपात्तवासं वटशाखिमूले ।

तद्धाम दाक्षिण्यजुषा स्वमूर्त्या

जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधान-

-माचार्यमाद्यं वटमूलभागे ।

मौनेन मन्दस्मितभूषितेन

महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥

विद्राविताशेषतमोगणेन

मुद्राविशेषेण मुहुर्मुनीनाम् ।

निरस्य मायां दयया विधत्ते

देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥

अपारकारुण्यसुधातरङ्गै-

-रपाङ्गपातैरवलोकयन्तम् ।

कठोरसंसारनिदाघतप्तान्

मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥

ममाद्यदेवो वटमूलवासी

कृपाविशेषात्कृतसन्निधानः ।

ओङ्काररूपामुपदिश्य विद्या-

-माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥

कलाभिरिन्दोरिव कल्पिताङ्गं

मुक्ताकलापैरिव बद्धमूर्तिम् ।

आलोकये देशिकमप्रमेय-

-मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥

स्वदक्षजानुस्थितवामपादं

पादोदरालङ्कृतयोगपट्‍टम् ।

अपस्मृतेराहितपादमङ्गे

प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥

तत्त्वार्थमन्ते वसतामृषीणां

युवाऽपि यः सन्नुपदेष्टुमीष्टे ।

प्रणौमि तं प्राक्तनपुण्यजालै-

-राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥

एकेन मुद्रां परशुं करेण

करेण चान्येन मृगं दधानः ।

स्वजानुविन्यस्तकरः पुरस्ता-

-दाचार्यचूडामणिराविरस्तु ॥ ९ ॥

आलेपवन्तं मदनाङ्गभूत्या

शार्दूलकृत्त्या परिधानवन्तम् ।

आलोकये कञ्चन देशिकेन्द्र-

-मज्ञानवाराकरवाडवाग्निम् ॥ १० ॥

चारुस्मितं सोमकलावतंसं

वीणाधरं व्यक्तजटाकलापम् ।

उपासते केचन योगिनस्त्वा-

-मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥

उपासते यं मुनयः शुकाद्या

निराशिषो निर्ममताधिवासाः ।

तं दक्षिणामूर्तितनुं महेश-

-मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन्

कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षितैः ।

मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा

देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥

अगौरगात्रैरललाटनेत्रै-

-रशान्तवेषैरभुजङ्गभूषैः ।

अबोधमुद्रैरनपास्तनिद्रै-

-रपूर्णकामैरमरैरलं नः ॥ १४ ॥

दैवतानि कति सन्ति चावनौ

नैव तानि मनसो मतानि मे ।

दीक्षितं जडधियामनुग्रहे

दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥

मुदिताय मुग्धशशिनावतंसिने

भसितावलेपरमणीयमूर्तये ।

जगदिन्द्रजालरचनापटीयसे

महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥

व्यालम्बिनीभिः परितो जटाभिः

कलावशेषेण कलाधरेण ।

पश्यल्ललाटेन मुखेन्दुना च

प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥

उपासकानां त्वमुमासहायः

पूर्णेन्दुभावं प्रकटीकरोषि ।

यदद्य ते दर्शनमात्रतो मे

द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥

यस्ते प्रसन्नामनुसन्दधानो

मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।

ऐश्वर्यमायुर्लभते च विद्या-

-मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥

इति श्रीमच्छङ्कराचार्य कृत श्री दक्षिणामूर्ति स्तोत्रम् ।

sri dakshinamurthy stotram 1