Skip to main content
पडताळणी प्रलंबित

उममहेश्वराष्टकम् (सङ्घिल कृतम्)

पितामहशिरच्छेदप्रवीणकरपल्लव ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ १ ॥

निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २ ॥

शैलराजस्य जामातः शशिरेखावतंसक ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ३ ॥

शैलराजात्मजे मातः शातकुम्भनिभप्रभे ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४ ॥

भूतनाथ पुराराते भुजङ्गामृतभूषण ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ५ ॥

पादप्रणतभक्तानां पारिजातगुणाधिके ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६ ॥

हालास्येश दयामूर्ते हालाहललसद्गल ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ७ ॥

नितम्बिनि महेशस्य कदम्बवननायिके ।

नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८ ॥

इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतं उमामहेश्वराष्टकम् ।

sanghila krita uma maheswara ashtakam