Skip to main content
पडताळणी प्रलंबित

श्री मातङ्गी सहस्रनाम स्तोत्रम्

ईश्वर उवाच ।

शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्त्वतः परम् ।

नाम्नां सहस्रं परमं सुमुख्याः सिद्धये हितम् ॥ १ ॥

सहस्रनामपाठी यः सर्वत्र विजयी भवेत् ।

पराभवो न तस्यास्ति सभायां वा महारणे ॥ २ ॥

यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः ।

तथा भवति देवेशि साधकः शिव एव सः ॥ ३ ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।

सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ॥ ४ ॥

मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता ।

सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ।

एवं ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः ॥ ५ ॥

ध्यानम् ।

देवीं षोडशवार्षिकीं शवगतां माध्वीरसाघूर्णितां

श्यामाङ्गीमरुणाम्बरां पृथुकुचां गुञ्जावलीशोभिताम् ।

हस्ताभ्यां दधतीं कपालममलं तीक्ष्णां तथा कर्त्रिकां

ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥ १ ॥

स्तोत्रम् ।

ओं सुमुखी शेमुषी सेव्या सुरसा शशिशेखरा ।

समानास्या साधनी च समस्तसुरसम्मुखी ॥ २ ॥

सर्वसम्पत्तिजननी सम्पदा सिन्धुसेविनी ।

शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ॥ ३ ॥

सारङ्गा सवली वेला लावण्यवनमालिनी ।

वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ४ ॥

वेगिनी वेगदा वेगा बगलस्था बलाधिका ।

काली कालप्रिया केली कमला कालकामिनी ॥ ५ ॥

कमला कमलस्था च कमलस्था कलावती ।

कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ ६ ॥

कीरा केलिकरा काली कपालिन्यपि कालिका ।

केशिनी च कुशावर्ता कौशाम्भी केशवप्रिया ॥ ७ ॥

काली काशी महाकालसङ्काशा केशदायिनी ।

कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ॥ ८ ॥

कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्धिनी ।

कुण्डप्रिया कुण्डरुचिः कुरङ्गनयनाकुला ॥ ९ ॥

कुन्दबिम्बालिनदिनी कुसुम्भकुसुमाकरा ।

काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥ १० ॥

कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि ।

कपर्दिनी कपटिनी कठिनी कलकण्डिनी ॥ ११ ॥

कीरहस्ता कुमारी च कुरूढकुसुमप्रिया ।

कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ॥ १२ ॥

कुम्भीकाङ्गा करभोरूः कदलीकुशशायिनी ।

कुपिता कोटरस्था च कङ्काली कन्दलालया ॥ १३ ॥

कपालवासिनी केशी कम्पमानशिरोरुहा ।

कादम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ १४ ॥

कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया ।

कात्यायनी कृत्तिका च कार्तिकी कुशवर्तिनी ॥ १५ ॥

कामपत्नी कामदात्री कामेशी कामवन्दिता ।

कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ॥ १६ ॥

खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा ।

खरगा खरनादा च खरस्था खेलनप्रिया ॥ १७ ॥

खरांशुः खेलिनी खट्वा खरा खट्वाङ्गधारिणी ।

खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ॥ १८ ॥

खण्डप्रिया खण्डखाद्या खण्डसिन्धुश्च खण्डिनी ।

गङ्गा गोदावरी गौरी गौतम्यपि च गोमती ॥ १९ ॥

गङ्गा गया गगनगा गारुडी गरुडध्वजा ।

गीता गीतप्रिया गेया गुणप्रीतिर्गुरुर्गिरी ॥ २० ॥

गौर्गौरी गण्डसदना गोकुला गोप्रतारिणी ।

गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥ २१ ॥

गजगा गोपिनी गोपी गोक्षा जयप्रिया गणा ।

गिरिभूपालदुहिता गोगा गोकुलवासिनी ॥ २२ ॥

घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ।

घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ॥ २३ ॥

घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी ।

घोररूपा च घोरा च घृतप्रीतिर्घृताञ्जनी ॥ २४ ॥

घृताची घृतवृष्टिश्च घण्टाघटघटावृता ।

घटस्था घटना घातकरी घातनिवारिणी ॥ २५ ॥

चञ्चरीकी चकोरी च चामुण्डा चीरधारिणी ।

चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ॥ २६ ॥

चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः ।

चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ॥ २७ ॥

चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया ।

चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥ २८ ॥

चिरञ्जीविनी तच्चित्ता चिञ्चामूलनिवासिनी ।

छुरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥ २९ ॥

छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरिनिभस्वना ।

छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ॥ ३० ॥

छद्मिनी छान्दसी छाया छरुच्छन्दकरीत्यपि ।

जयदाजयदा जाती जायिनी जामला जतुः ॥ ३१ ॥

जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया ।

जपापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ॥ ३२ ॥

जगज्जन्तुप्रधाना च जगज्जीवपरा जवा ।

जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ॥ ३३ ॥

जन्या जनहिता जाया जन्मभूर्जम्भसी जभूः ।

जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ॥ ३४ ॥

जपा च जपती जप्या जपार्हा जायिनी जना ।

जालन्धरमयी जानुर्जालौका जाप्यभूषणा ॥ ३५ ॥

जगज्जीवमयी जीवा जरत्कारुर्जनप्रिया ।

जगतीजननिरता जगच्छोभाकरी जवा ॥ ३६ ॥

जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी ।

जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ॥ ३७ ॥

जीमूतवाहनरुचिर्जीमूता जीर्णवस्त्रकृत् ।

जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ॥ ३८ ॥

जगत्क्षोभकरी जातिर्जगत्क्षोभविनाशिनी ।

जनापवादा जीवा च जननीगृहवासिनी ॥ ३९ ॥

जनानुरागा जानुस्था जलवासा जलार्तिकृत् ।

जलजा जलवेला च जलचक्रनिवासिनी ॥ ४० ॥

जलमुक्ता जलारोहा जलसा जलजेक्षणा ।

जलप्रिया जलौका च जलशोभावती तथा ॥ ४१ ॥

जलविस्फूर्जितवपुर्ज्वलत्पावकशोभिनी ।

झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ॥ ४२ ॥

झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी ।

टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ॥ ४३ ॥

टङ्कारोट्‍टकृतष्ठीवा डिण्डीरवसनावृता ।

डाकिनी डामरी चैव डिण्डिमध्वनिनादिनी ॥ ४४ ॥

डकारनिःस्वनरुचिस्तपिनी तापिनी तथा ।

तरुणी तुन्दिला तुन्दा तामसी च तमःप्रिया ॥ ४५ ॥

ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा ।

तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ॥ ४६ ॥

तुदनी तुननी तुम्बी तुलाकाला तुलाश्रवा ।

तुमुला तुलजा तुल्या तुलादानकरी तथा ॥ ४७ ॥

तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी ।

ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥ ४८ ॥

त्वरिता ज्वरहा तीरा तारकेशी तमालिनी ।

तमोदानवती ताम्रतालस्थानवती तमी ॥ ४९ ॥

तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।

तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ॥ ५० ॥

तिलोत्तमा च तिलकृत्तारकाधीशशेखरा ।

तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ ५१ ॥

स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्धिनी ।

स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥ ५२ ॥

स्थूलस्थलवती स्थाली स्थलसङ्गविवर्धिनी ।

दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ॥ ५३ ॥

देवी देववधूर्दित्या दामिनी देवभूषणा ।

दया दमवती दीनवत्सला दाडिमस्तनी ॥ ५४ ॥

देवमूर्तिकरा दैत्या दारिणी देवतानता ।

दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ ५५ ॥

दशादीपस्थिता दोषा दोषहा दोषकारिणी ।

दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी ॥ ५६ ॥

दुर्गन्धनाशिनी दुःस्था दुःखप्रशमकारिणी ।

दुर्गन्धा दुन्दुभिध्वान्ता दूरस्था दूरवासिनी ॥ ५७ ॥

दरदा दरदात्री च दुर्व्याधदयिता दमी ।

धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ ५८ ॥

धीरारवा धरित्री च धर्मदा धीरमानसा ।

धनुर्धरा च धमनी धमनीधूर्तविग्रहा ॥ ५९ ॥

धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी ।

नन्दिनीनन्दिनी नन्दा नन्दिनी नन्दबालिका ॥ ६० ॥

नवीना नर्मदा नर्मनमिर्नियमनिःस्वना ।

निर्मला निगमाधारा निम्नगा नग्नकामिनी ॥ ६१ ॥

नीला निरत्ना निर्वाणा निर्लोभा निर्गुणा नतिः ।

नीलग्रीवा निरीहा च निरञ्जनजनानवा ॥ ६२ ॥

निर्गुण्डिका च निर्गुण्डा निर्नासा नासिकाभिधा ।

पताकिनी पताका च पत्रप्रीतिः पयस्विनी ॥ ६३ ॥

पीना पीनस्तनी पत्नी पवनाशा निशामयी ।

परा परपरा काली पारकृत्यभुजप्रिया ॥ ६४ ॥

पवनस्था च पवना पवनप्रीतिवर्धिनी ।

पशुवृद्धिकरी पुष्पपोषिका पुष्टिवर्धिनी ॥ ६५ ॥

पुष्पिणी पुस्तककरा पूर्णिमाऽतलवासिनी ।

पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ॥ ६६ ॥

पटुः पराशा परशुधारिणी पाशिनी तथा ।

पापघ्नी पतिपत्नी च पतिता पतितापनी ॥ ६७ ॥

पिशाची च पिशाचघ्नी पिशिताशनतोषिणी ।

पानदा पानपात्री च पानदानकरोद्यता ॥ ६८ ॥

पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ।

पतङ्गाभा पतङ्गा च पौनःपुन्यमिवापरा ॥ ६९ ॥

पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ।

पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमप्रिया ॥ ७० ॥

पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना ।

प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ ७१ ॥

प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा ।

फलिनी फलदात्री च फलश्रीः फलभूषणा ॥ ७२ ॥

फूत्कारकारिणी स्फारी फुल्ला फुल्लाम्बुजानना ।

स्फुलिङ्गहा स्फीतमतिः स्फीतकीर्तिकरी तथा ॥ ७३ ॥

बलमाया बलारातिर्बलिनी बलवर्धिनी ।

वेणुवाद्या वनचरी विरञ्चिजनयित्र्यपि ॥ ७४ ॥

विद्याप्रदा महाविद्या बोधिनी बोधदायिनी ।

बुद्धमाता च बुद्धा च वनमालावती वरा ॥ ७५ ॥

वरदा वारुणी वीणा वीणावादनतत्परा ।

विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ ७६ ॥

वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।

विद्यौघविह्वला वेला वित्तदा विगतज्वरा ॥ ७७ ॥

विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला ।

विन्ध्यस्था वरवन्द्या च वीरस्थानवरा च वित् ॥ ७८ ॥

वेदान्तवेद्या विजया विजया विजयप्रदा ।

विरोगीवन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ॥ ७९ ॥

भगिनी भगमाला च भवानी भवनाशिनी ।

भीमा भीमाननाभीमा भङ्गुरा भीमदर्शना ॥ ८० ॥

भिल्ली भिल्लधरा भीरुर्भरुण्डा भीर्भयावहा ।

भगसर्पिण्यपि भगा भगरूपा भगालया ॥ ८१ ॥

भगासना भगाभोगा भेरीझङ्काररञ्जिता ।

भीषणा भीषणारावा भगवत्यहिभूषणा ॥ ८२ ॥

भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा ।

भूमिदा भूमिदात्री च भूपतिर्भरदायिनी ॥ ८३ ॥

भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता ।

माता मनोहरा माया मानिनी मोहिनी मही ॥ ८४ ॥

महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया ।

मदोद्धता मतङ्गस्था माधवी मधुमर्दिनी ॥ ८५ ॥

मोदा मोदकरी मेधा मेध्या मध्याधिपस्थिता ।

मद्यपा मांसलोमस्था मोदिनी मैथुनोद्यता ॥ ८६ ॥

मूर्धावती महामाया मायामहिममन्दिरा ।

महामाला महाविद्या महामारी महेश्वरी ॥ ८७ ॥

महादेववधूर्मान्या मथुरा मेरुमण्डिता ।

मेदस्विनी मिलिन्दाक्षी महिषासुरमर्दिनी ॥ ८८ ॥

मण्डलस्था भगस्था च मदिरारागगर्विता ।

मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ ८९ ॥

मातङ्गिनी च मातङ्गी मातङ्गतनयापि च ।

मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ॥ ९० ॥

यामिनी यामिनीनाथभूषा यावकरञ्जिता ।

यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ॥ ९१ ॥

यमघ्नी यमकल्पा च यजमानस्वरूपिणी ।

यज्ञा यज्ञयजुर्यक्षी यशोनिष्कम्पकारिणी ॥ ९२ ॥

यक्षिणी यक्षजननी यशोदायासधारिणी ।

यशःसूत्रपदा यामा यज्ञकर्मकरीत्यपि ॥ ९३ ॥

यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ।

रञ्जिता राजपत्नी च रमा रेखा रवीरणा ॥ ९४ ॥

रजोवती रजश्चित्रा रञ्जनी रजनीपतिः ।

रोगिणी रजनी राज्ञो राज्यदा राज्यवर्धिनी ॥ ९५ ॥

राजन्वती राजनीतिस्तथा रजतवासिनी ।

रमणी रमणीया च रामा रामावती रतिः ॥ ९६ ॥

रेतोरती रतोत्साहा रोगघ्नी रोगकारिणी ।

रङ्गा रङ्गवती रागा रागज्ञा रागकृद्दया ॥ ९७ ॥

रामिका रजकी रेवा रजनी रङ्गलोचना ।

रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ॥ ९८ ॥

रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।

रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ॥ ९९ ॥

रोगकृद्रोगहन्त्री च रोगभृद्रोगस्राविणी ।

वन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ १०० ॥

वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा ।

विकोपा विकपाला च विकस्था विङ्कवत्सला ॥ १०१ ॥

वेदिर्विलग्नलग्ना च विधिविङ्ककरी विधा ।

शङ्खिनी शङ्खवलया शङ्खमालावती शमी ॥ १०२ ॥

शङ्खपात्राशिनी शङ्खस्वना शङ्खगला शशी ।

शबरी शाम्बरी शम्भुः शम्भुकेशा शरासिनी ॥ १०३ ॥

शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना ।

श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ॥ १०४ ॥

शमदा शमहन्त्री च शङ्खिनी शङ्खरोषणा ।

शान्तिः शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ॥ १०५ ॥

शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी ।

शापदा शापहा शापा शापपन्थाः सदाशिवा ॥ १०६ ॥

शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी शिवा ।

शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ॥ १०७ ॥

शाविनी शवशिंशाश्रीः शवा च शवशायिनी ।

शवकुण्डलिनी शैवा शीकरा शिशिराशना ॥ १०८ ॥

शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ।

स्रवन्ती सङ्कुचा शक्तिः शन्तनुः शवदायिनी ॥ १०९ ॥

सिन्धुः सरस्वती सिन्धुः सुन्दरी सुन्दरानना ।

साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥ ११० ॥

सन्ततिः सम्पदा संविच्छङ्किसम्पत्तिदायिनी ।

सपत्नी सरसा सारा सारस्वतकरी सुधा ॥ १११ ॥

सुरा समांसाशना च समाराध्या समस्तदा ।

समधीः सामदा सीमा सम्मोहा समदर्शना ॥ ११२ ॥

सामतिः सामदा सीमा सावित्री सविधा सती ।

सवना सवनासारा सवरा सावरा समी ॥ ११३ ॥

सिमरा सतता साध्वी सध्रीची ससहायिनी ।

हंसी हंसगतिर्हंसी हंसोज्ज्वलनिचोलयुक् ॥ ११४ ॥

हलिनी हालिनी हाला हलश्रीर्हरवल्लभा ।

हला हलवती ह्येषा हेला हर्षविवर्धिनी ॥ ११५ ॥

हन्तिर्हन्ता हया हाहाहताऽहन्तातिकारिणी ।

हङ्कारी हङ्कृतिर्हङ्का हीहीहाहाहिता हिता ॥ ११६ ॥

हीतिर्हेमप्रदा हाराराविणी हरिसम्मता ।

होरा होत्री होलिका च होमा होमहविर्हविः ॥ ११७ ॥

हरिणी हरिणीनेत्रा हिमाचलनिवासिनी ।

लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ ११८ ॥

लीला लीलावती लोला ललना ललिता लता ।

ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ॥ ११९ ॥

लपत्नी लपती लम्या लोपामुद्रा ललन्तिका ।

लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ॥ १२० ॥

लघीयसी लघूदर्या लूता लूताविनाशिनी ।

लोमशा लोमलम्बी च ललन्ती च लुलुम्पती ॥ १२१ ॥

लुलायस्था च लहरी लङ्कापुरपुरन्दरा ।

लक्ष्मीर्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ॥ १२२ ॥

क्षणा क्षणक्षुः क्षुत्क्षिणी क्षमा क्षान्तिः क्षमावती ।

क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गना ॥ १२३ ॥

क्षया क्षयाकरी क्षीरा क्षीरदा क्षीरसागरा ।

क्षेमङ्करी क्षयकरी क्षयकृत्क्षयदा क्षतिः ॥ १२४ ॥

क्षुद्रिकाऽक्षुद्रिका क्षुद्रा क्षुत्क्षमा क्षीणपातका ।

मातुः सहस्रनामेदं सुमुख्याः सिद्धिदायकम् ॥ १२५ ॥

यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः ।

अनाचारात्पठेन्नित्यं दरिद्रो धनवान्भवेत् ॥ १२६ ॥

मूकः स्याद्वाक्पतिर्देवि रोगी नीरोगतां व्रजेत् ।

पुत्रार्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ १२७ ॥

वन्ध्यापि सूते सत्पुत्रं विदुषः सदृशं गुरोः ।

सत्यं च बहुधा भूयाद्गावश्च बहुदुग्धदाः ॥ १२८ ॥

राजानः पादनम्राः स्युस्तस्य हासा इव स्फुटाः ।

अरयः सङ्क्षयं यान्ति मानसा संस्मृता अपि ॥ १२९ ॥

दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ।

कर्ता हर्ता स्वयं वीरो जायते नात्र संशयः ॥ १३० ॥

यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।

दुरितं न च तस्यास्ति नास्ति शोकः कथञ्चन ॥ १३१ ॥

चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।

एकाकी निर्भयो वीरो दशवारं स्तवोत्तमम् ॥ १३२ ॥

मनसा चिन्तितं कार्यं तस्य सिद्ध्येन्न संशयः ।

विना सहस्रनाम्नां यो जपेन्मन्त्रं कदाचन ॥ १३३ ॥

न सिद्धिर्जायते तस्य कल्पकोटिशतैरपि ।

कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ॥ १३४ ॥

कृतकृत्यः स जायेत कर्ता हर्ता नृणामिह ।

रोगार्तोऽर्धनिशायां यः पठेदासनसंस्थितः ॥ १३५ ॥

सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।

अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ १३६ ॥

अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।

सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ॥ १३७ ॥

महापवनरूपेण घोरगोमायुनादिनी ।

ततो यदि न भीतिः स्यात्तदा देहीति वाग्भवेत् ॥ १३८ ॥

तदा पशुबलिं दद्यात्स्वयं गृह्णाति चण्डिका ।

यथेष्टं च वरं दत्त्वा प्रयाति सुमुखी शिवा ॥ १३९ ॥

रोचनागुरुकस्तूरीकर्पूरैश्च सचन्दनैः ।

कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्जपत्रके ॥ १४० ॥

शुभनक्षत्रयोगे च कृतमारुतसत्क्रियः ।

कृत्वा सम्पातनविधिं धारयेद्दक्षिणे करे ॥ १४१ ॥

सहस्रनाम स्वर्णस्थं कण्ठे वा विजितेन्द्रियः ।

तदा यं प्रणमेन्मन्त्री क्रुद्धः स म्रियते नरः ॥ १४२ ॥

दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ।

बालकानामियं रक्षा गर्भिणीनामपि प्रिये ॥ १४३ ॥

मोहनस्तम्भनाकर्षमारणोच्चाटनानि च ।

यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ १४४ ॥

नीलवस्त्रे विलिख्यैतत्तद्ध्वजे स्थापयेद्यदि ।

तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ॥ १४५ ॥

एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ।

तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ॥ १४६ ॥

राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः ।

एतज्जप्तं पिबेत्तोयं मासेन स्यान्महाकविः ॥ १४७ ॥

पण्डितश्च महावादी जायते नात्र संशयः ।

अयुतं च पठेत् स्तोत्रं पुरश्चरणसिद्धये ॥ १४८ ॥

दशांशं कमलैर्हुत्वा त्रिमध्वक्तैर्विधानतः ।

स्वयमायाति कमला वाण्या सह तदालये ॥ १४९ ॥

मन्त्रो निष्कीलतामात सुमुखी सुमुखी भवेत् ।

अनन्तं च भवेत्पुण्यमपुण्यं च क्षयं व्रजेत् ॥ १५० ॥

पुष्करादिषु तीर्थेषु स्नानतो यत्फलं भवेत् ।

तत्फलं लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ॥ १५१ ॥

एतदुक्तं रहस्यं ते स्वसर्वस्वं वरानने ।

न प्रकाश्यं त्वया देवि यदि सिद्धिं त्वमिच्छसि ॥ १५२ ॥

प्रकाशनादसिद्धिः स्यात्कुपिता सुमुखी भवेत् ।

नातः परतरं लोके सिद्धिदं प्राणिनामिह ॥ १५३ ॥

वन्दे श्रीसुमुखीं प्रसन्नवदनां पूर्णेन्दुबिम्बाननां

सिन्दूराङ्कितमस्तकां मधुमदोल्लोलां च मुक्तावलीम् ।

श्यामां कज्जलिकाकरां करगतं चाध्यापयन्तीं शुकं

गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ॥ १५४ ॥

इति श्रीनन्द्यावर्ततन्त्रे उत्तरखण्डे मातङ्गी सहस्रनाम स्तोत्रम् ॥

sri matangi sahasranama stotram