Skip to main content
पडताळणी प्रलंबित

शिवानन्दलहरी

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः-

-फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।

शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-

-र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥

गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो

दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।

दिशन्ती संसारभ्रमणपरितापोपशमनं

वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ २ ॥

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं

जटाभारोदारं चलदुरगहारं मृगधरम् ।

महादेवं देवं मयि सदयभावं पशुपतिं

चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा

न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।

हरिब्रह्मादीनामपि निकटभाजामसुलभं

चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् ॥ ४ ॥

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ

पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।

कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते

पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः

पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।

वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा

पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ

करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।

तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे

परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-

-र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।

तथा देवभ्रान्त्या भजति भवदन्यं जडजनो

महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥

गभीरे कासारे विशति विजने घोरविपिने

विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।

समर्प्यैकं चेतः सरसिजमुमानाथ भवते

सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९ ॥

नरत्वं देवत्वं नगवनमृगत्वं मशकता

पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।

सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी-

-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो

नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।

यदीयं हृत्पद्मं यदि भवदधीनं पशुपते

तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ ११ ॥

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे

जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।

सदा यस्यैवान्तःकरणमपि शम्भो तव पदे

स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२ ॥

असारे संसारे निजभजनदूरे जडधिया

भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।

मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-

-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३ ॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते

प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।

त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः

प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां

दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।

शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते

कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-

-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।

विचारः को वा मां विशद कृपया पाति शिव ते

कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो

प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।

कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषां

निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं

वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।

कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती

कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके

दुरन्ते संसारे दुरितनिलये दुःखजनके ।

मदायासं किं न व्यपनयसि कस्योपकृतये

वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९ ॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ

नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।

कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं

दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २० ॥

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां

विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।

स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां

जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ २१ ॥

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे

प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।

इमं चेतश्चोरं कथमिह सहे शङ्कर विभो

तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो

विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।

पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता-

-मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ २३ ॥

कदा वा कैलासे कनकमणिसौधे सह गणै-

-र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।

विभो साम्ब स्वामिन्परमशिव पाहीति निगद-

-न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ २४ ॥

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां

गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।

स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं

कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं

गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।

समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला-

-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ

गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ।

शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे

कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥

सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने

सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे ।

सालोक्यं च चराचरात्मकतनुध्याने भवानीपते

सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ २८ ॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं

त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।

वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां

शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता

गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।

पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे

शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ ३० ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते

पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् ।

सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं

निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१ ॥

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया

दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।

जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः

किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ ३२ ॥

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः

पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।

स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते

का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ ३३ ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-

-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।

भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं

पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४ ॥

योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो

दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।

सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया

शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५ ॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः

कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।

सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन्

पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६ ॥

आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो

मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।

सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां

नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः

सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।

चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः

प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं

कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।

ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा

मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-

-रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।

हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते

दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ ४० ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय

स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।

जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो

मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ ४१ ॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-

-स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।

विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा

दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु

स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।

वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-

-स्तान्हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥ ४३ ॥

करलग्नमृगः करीन्द्रभङ्गो

घनशार्दूलविखण्डनोऽस्तजन्तुः ।

गिरिशो विशदाकृतिश्च चेतः-

-कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते

सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।

चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं

नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-

-राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।

नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु

स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६ ॥

शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः

स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।

दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना

ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं

स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।

शम्भुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं

किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥ ४८ ॥

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता

स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।

उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा

नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ॥

सन्ध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं

सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।

भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं

सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ ५० ॥

भृङ्गीच्छानटनोत्कटः करमदग्राही स्फुरन्माधवा-

-ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।

सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-

-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ ५१ ॥

कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं

विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ।

नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं

शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ ५२ ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-

-नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।

श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा

वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥

सन्ध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-

-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।

भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा

यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४ ॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते

विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।

ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने

सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५५ ॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे

सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये ।

मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे

सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५६ ॥

नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया

व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।

मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-

-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ ५७ ॥

एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं

भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।

वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम-

-स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ ५८ ॥

हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः

कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।

चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो

गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९ ॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो

भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् ।

दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा

चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ ६० ॥

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका

साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।

प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं

चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१ ॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं

वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।

रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-

-पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ ६२ ॥

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते

गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।

किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते

भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३ ॥

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं

भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् ।

कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं

मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ ६४ ॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः

कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।

दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते

यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५ ॥

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः

यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।

शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं

तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६ ॥

बहुविधपरितोषबाष्पपूर-

-स्फुटपुलकाङ्कितचारुभोगभूमिम् ।

चिरपदफलकाङ्क्षिसेव्यमानां

परमसदाशिवभावनां प्रपद्ये ॥ ६७ ॥

अमितमुदमृतं मुहुर्दुहन्तीं

विमलभवत्पदगोष्ठमावसन्तीम् ।

सदय पशुपते सुपुण्यपाकां

मम परिपालय भक्तिधेनुमेकाम् ॥ ६८ ॥

जडता पशुता कलङ्किता

कुटिलचरत्वं च नास्ति मयि देव ।

अस्ति यदि राजमौले

भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ॥

अरहसि रहसि स्वतन्त्रबुद्ध्या

वरिवसितुं सुलभः प्रसन्नमूर्तिः ।

अगणितफलदायकः प्रभुर्मे

जगदधिको हृदि राजशेखरोऽस्ति ॥ ७० ॥

आरूढभक्तिगुणकुञ्चितभावचाप-

-युक्तैः शिवस्मरणबाणगणैरमोघैः ।

निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः

सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं

भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।

दिव्याश्रितं भुजगभूषणमुद्वहन्ति

ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२ ॥

भूदारतामुदवहद्यदपेक्षया श्री-

-भूदार एव किमतः सुमते लभस्व ।

केदारमाकलितमुक्तिमहौषधीनां

पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥

आशापाशक्लेशदुर्वासनादि-

-भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।

आशाशाटीकस्य पादारविन्दं

चेतःपेटीं वासितां मे तनोतु ॥ ७४ ॥

कल्याणिनं सरसचित्रगतिं सवेगं

सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।

चेतस्तुरङ्गमधिरुह्य चर स्मरारे

नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥

भक्तिर्महेशपदपुष्करमावसन्ती

कादम्बिनीव कुरुते परितोषवर्षम् ।

सम्पूरितो भवति यस्य मनस्तटाक-

-स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ ७६ ॥

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-

-सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।

सद्भावनास्मरणदर्शनकीर्तनादि

सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७ ॥

सदुपचारविधिष्वनुबोधितां

सविनयां सुहृदं समुपाश्रिताम् ।

मम समुद्धर बुद्धिमिमां प्रभो

वरगुणेन नवोढवधूमिव ॥ ७८ ॥

नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः

शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।

अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-

-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९ ॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-

-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।

नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु

प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ ८० ॥

कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः

कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ।

कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं

यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ ८१ ॥

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते

घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।

त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः

पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ ८२ ॥

जननमृतियुतानां सेवया देवतानां

न भवति सुखलेशः संशयो नास्ति तत्र ।

अजनिममृतरूपं साम्बमीशं भजन्ते

य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ॥

शिव तव परिचर्यासन्निधानाय गौर्या

भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।

सकलभुवनबन्धो सच्चिदानन्दसिन्धो

सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४ ॥

जलधिमथनदक्षो नैव पातालभेदी

न च वनमृगयायां नैव लुब्धः प्रवीणः ।

अशनकुसुमभूषावस्त्रमुख्यां सपर्यां

कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५ ॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे

पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।

जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो

न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६ ॥

अशनं गरलं फणी कलापो

वसनं चर्म च वाहनं महोक्षः ।

मम दास्यसि किं किमस्ति शम्भो

तव पादाम्बुजभक्तिमेव देहि ॥ ८७ ॥

यदा कृताम्भोनिधिसेतुबन्धनः

करस्थलाधःकृतपर्वताधिपः ।

भवानि ते लङ्घितपद्मसम्भव-

-स्तदा शिवार्चास्तवभावनक्षमः ॥ ८८ ॥

नतिभिर्नुतिभिस्त्वमीश पूजा-

-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।

धनुषा मुसलेन चाश्मभिर्वा

वद ते प्रीतिकरं तथा करोमि ॥ ८९ ॥

वचसा चरितं वदामि शम्भो-

-रहमुद्योगविधासु तेऽप्रसक्तः ।

मनसाकृतिमीश्वरस्य सेवे

शिरसा चैव सदाशिवं नमामि ॥ ९० ॥

आद्याविद्या हृद्गता निर्गतासी-

-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।

सेवे नित्यं श्रीकरं त्वत्पदाब्जं

भावे मुक्तेर्भाजनं राजमौले ॥ ९१ ॥

दूरीकृतानि दुरितानि दुरक्षराणि

दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।

सारं त्वदीयचरितं नितरां पिबन्तं

गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥

सोमकलाधरमौलौ

कोमलघनकन्धरे महामहसि ।

स्वामिनि गिरिजानाथे

मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥

सा रसना ते नयने

तावेव करौ स एव कृतकृत्यः ।

या ये यौ यो भर्गं

वदतीक्षेते सदार्चतः स्मरति ॥ ९४ ॥

अतिमृदुलौ मम चरणा-

-वतिकठिनं ते मनो भवानीश ।

इति विचिकित्सां सन्त्यज

शिव कथमासीद्गिरौ तथा वेशः ॥ ९५ ॥

धैर्याङ्कुशेन निभृतं

रभसादाकृष्य भक्तिशृङ्खलया ।

पुरहर चरणालाने

हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥

प्रचरत्यभितः प्रगल्भवृत्त्या

मदवानेष मनः करी गरीयान् ।

परिगृह्य नयेन भक्तिरज्वा

परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥

सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां

सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।

उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां

कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ ९८ ॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे

गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।

हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ

कथं शम्भो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः

स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।

माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-

-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ १०० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शिवानन्दलहरी ॥

sivanandalahari in hindi