Skip to main content
पडताळणी प्रलंबित

श्री गणेश मन्त्रप्रभाव स्तुतिः

ओमित्यादौ वेदविदो यं प्रवदन्ति

ब्रह्माद्या यं लोकविधाने प्रणमन्ति ।

योऽन्तर्यामी प्राणिगणानां हृदयस्थः

तं विघ्नेशं दुःखविनाशं कलयामि ॥ १ ॥

गङ्गागौरीशङ्करसन्तोषकवृत्तं

गन्धर्वालीगीतचरित्रं सुपवित्रम् ।

यो देवानामादिरनादिर्जगदीशः

तं विघ्नेशं दुःखविनाशं कलयामि ॥ २ ॥

गच्छेत्सिद्धिं यन्मनुजापी कार्याणां

गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता ।

गर्वग्रन्थेर्यः किल भेत्ता गणराजः

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३ ॥

तण्येत्युच्चैर्वर्णजमादौ पूजार्थं

यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् ।

बीजं ध्यातुः पुष्टिदमाथ्वरणवाक्यैः

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ४ ॥

पद्भ्यां पद्मश्रीमदहृद्भ्यां प्रत्यूषे

मूलाधाराम्भोरुह भास्वद्भानुभ्याम् ।

योगी यस्य प्रत्यहमजपार्पणदक्षः

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ५ ॥

तत्त्वं यस्य श्रुतिगुरुवाक्यैरधिगत्य

ज्ञानी प्रारब्धानुभवान्ते निजधाम ।

शान्ताविद्यस्तत्कृतबोधः स्वयमीयात्

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ६ ॥

ये ये भोगा लोकहितार्थाः सपुमार्थाः

ये ये योगाः साध्यसुलोकाः सुकृतार्थाः ।

ते सर्वे स्युर्यन्मनुजपतः पुरुषाणां

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ७ ॥

नत्वा नित्यं यस्य पदाब्जं मुहुरर्थी

निर्द्वैतात्माखण्डसुखः स्याद्धतमोहः ।

कामान्प्राप्नोतीति किमाश्चर्यमिदानीं

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ८ ॥

मस्तप्रोद्यच्चन्द्रकिशोरं करिवक्त्रं

पुस्ताक्षस्रक्पाश सृणीस्फीतकराब्जम् ।

शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं

तं विघ्नेशं दुःखविनाशं कलयामि ॥ ९ ॥

सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेनां

सुब्रह्मण्याह्वयसूर्युक्तामनुयुक्ताम् ।

उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं

मुक्त्वा मोहं बोधमुपेयात्तद्भक्तः ॥ १० ॥

इति श्रीसुब्रह्मण्ययोगि कृत श्रीगणेशमन्त्रप्रभाव स्तुतिः ।

sri ganesha prabhava stuti