Skip to main content
पडताळणी प्रलंबित

श्री जगद्धात्री स्तोत्रम्

आधारभूते चाधेये धृतिरूपे धुरन्धरे ।

ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥ १ ॥

शवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे ।

शाक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥ २ ॥

जयदे जगदानन्दे जगदेकप्रपूजिते ।

जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ३ ॥

सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि ।

भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥ ४ ॥

कालादिरूपे कालेशे कालाकालविभेदिनि ।

सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते ॥ ५ ॥

महाविघ्ने महोत्साहे महामाये वरप्रदे ।

प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते ॥ ६ ॥

अगम्ये जगतामाद्ये माहेश्वरि वराङ्गने ।

अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥ ७ ॥

द्विसप्तकोटिमन्त्राणां शक्तिरूपे सनातनि ।

सर्वशक्तिस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥ ८ ॥

तीर्थयज्ञतपोदानयोगसारे जगन्मयि ।

त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते ॥ ९ ॥

दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि ।

सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ १० ॥

अगम्यधामधामस्थे महायोगीशहृत्पुरे ।

अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥ ११ ॥

इति श्री जगद्धात्री स्तोत्रम् ।

sri jagaddhatri stotram