Skip to main content
पडताळणी प्रलंबित

श्री शिवाष्टकम् – २

आशावशादष्टदिगन्तराले

देशान्तरभ्रान्तमशान्तबुद्धिम् ।

आकारमात्रादवनीसुरं मां

अकृत्यकृत्यं शिव पाहि शम्भो ॥ १ ॥

मांसास्थिमज्जामलमूत्रपात्र-

-गात्राभिमानोज्झितकृत्यजालम् ।

मद्भावनं मन्मथपीडिताङ्गं

मायामयं मां शिव पाहि शम्भो ॥ २ ॥

संसारमायाजलधिप्रवाह-

-संमग्नमुद्भ्रान्तमशान्तचित्तम् ।

त्वत्पादसेवाविमुखं सकामं

सुदुर्जनं मां शिव पाहि शम्भो ॥ ३ ॥

इष्टानृतं भ्रष्टमनिष्टधर्मं

नष्टात्मबोधं नयलेशहीनम् ।

कष्टारिषड्वर्गनिपीडिताङ्गं

दुष्टोत्तमं मां शिव पाहि शम्भो ॥ ४ ॥

वेदागमाभ्यासरसानभिज्ञं

पादारविन्दं तव नार्चयन्तम् ।

वेदोक्तकर्माणि विलोपयन्तं

वेदाकृते मां शिव पाहि शम्भो ॥ ५ ॥

अन्यायवित्तार्जनसक्तचित्तं

अन्यासु नारीष्वनुरागवन्तम् ।

अन्यान्नभोक्तारमशुद्धदेहं

आचारहीनं शिव पाहि शम्भो ॥ ६ ॥

पुरात्ततापत्रयतप्तदेहं

परां गतिं गन्तुमुपायवर्ज्यम् ।

परावमानैकपरात्मभावं

नराधमं मां शिव पाहि शम्भो ॥ ७ ॥

पिता यथा रक्षति पुत्रमीश

जगत्पिता त्वं जगतः सहायः ।

कृतापराधं तव सर्वकार्ये

कृपानिधे मां शिव पाहि शम्भो ॥ ८ ॥

इति श्रीवृद्धनृसिंहभारती स्वामी विरचितं श्री शिवाष्टकम् ।

sri shiva ashtakam 2