Skip to main content
पडताळणी प्रलंबित

श्री राज्ञी स्तोत्रम्

विश्वेश्वरी निखिलदेवमहर्षिपूज्या

सिंहासना त्रिनयना भुजगोपवीता ।

शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १ ॥

जन्माटवीप्रदहने दववह्निभूता

तत्पादपङ्कजरजोगत चेतसां या ।

श्रेयोवतां सुकृतिनां भवपाशभेत्त्री

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २ ॥

देव्या यया दनुजराक्षसदुष्टचेतो

न्यग्भावितं चरणनूपुरशिञ्जितेन ।

इन्द्रादिदेवहृदयं प्रविकासयन्ती

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ३ ॥

दुःखार्णवे हि पतितं शरणागतं या

चोद्धत्य सा नयति धाम परं दयाब्धिः ।

विष्णुर्गजेन्द्रमिव भीतभयापहर्त्री

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ४ ॥

यस्या विचित्रमखिलं हि जगत्प्रपञ्चं

कुक्षौ विलीनमपि सृष्टिविसृष्टिरूपात् ।

आविर्भवत्यविरतं चिदचित्स्वभावं

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ५ ॥

यत्पादपङ्कजरजःकणज प्रसादा-

-द्योगीश्वरैर्विगतकल्मषमानसैस्तत् ।

प्राप्तं पदं जनिविनाशहरं परं सा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ६ ॥

यत्पादपङ्कजरजांसि मनोमलानि

संमार्जयन्ति शिवविष्णुविरिञ्चिदेवैः ।

मृग्यान्यऽपश्चिमतनोः प्रणुतानि माता

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ७ ॥

यद्दर्शनामृतनदी महदोघयुक्ता

सम्प्लावयत्यखिलभेदगुहास्वऽनन्ता ।

तृष्णाहरा सुकृतिनां भवतापहर्त्री

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ८ ॥

यत्पादचिन्तन दिवाकररश्मिमाला

चान्तर्बहिष्करणवर्गसरोजषण्डम् ।

ज्ञानोदये सति विकास्य तमोपहर्त्री

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ९ ॥

हंसस्थिता सकलशब्दमयी भवानी

वाग्वादिनी हृदय पुष्कर चारिणीया ।

हंसीव हंस रजनीश्वर वह्निनेत्रा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १० ॥

या सोमसूर्यवपुषा सततं सरन्ती

मूलाश्रयात्तडिदिवाऽऽविधिरन्ध्रमीढ्या ।

मध्यस्थिता सकलनाडिसमूह पूर्णा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ११ ॥

चैतन्यपूरित समस्तजगद्विचित्रा

मातृ प्रमेयपरिमाणतया चकास्ति ।

या पूर्णवृत्यहमिति स्वपदाधिरूढा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १२ ॥

या चित्क्रमक्रमतया प्रविभाति नित्या

स्वातन्त्र्य शक्तिरमला गतभेदभावा ।

स्वात्मस्वरूपसुविमर्शपरैः सुगम्या

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १३ ॥

या कृत्यपञ्चकनिभालनलालसैस्तैः

सन्दृश्यते निखिलवेद्यगतापि शश्वत् ।

सान्तर्धृता परप्रमातृपदं विशन्ती

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १४ ॥

याऽनुत्तरात्मनि पदे परमाऽमृताब्धौ

स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती ।

संलीयते स्वरसतः स्वपदे सभावा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १५ ॥

मेरोः सदैव हि दरीषुविचित्रवाग्भि-

-र्गायन्ति या भगवतीं परिवादिनीभिः ।

विद्याधरा हि पुलकाङ्कित विग्रहाः सा

राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १६ ॥

राज्ञी सदा भगवती मनसा स्मरामि

राज्ञी सदा भगवती वचसा गृणामि ।

राज्ञी सदा भगवती शिरसा नमामि

राज्ञी सदा भगवती शरणं प्रपद्ये ॥ १७ ॥

राज्ञ्याः स्तोत्रमिदं पुण्यं यः पठेद्भक्तिमान्नरः ।

नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ १८ ॥

इति श्रीविद्याधर विरचितं श्री राज्ञी स्तोत्रम् ।

sri rajni stotram