Skip to main content
पडताळणी प्रलंबित

श्री वाणी शरणागति स्तोत्रम्

वेणीं सितेतरसमीरणभोजितुल्यां

वाणीं च केकिकुलगर्वहरां वहन्तीम् ।

श्रोणीं गिरिस्मयविभेदचणां दधानां

वाणीमनन्यशरणः शरणं प्रपद्ये ॥ १ ॥

वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा-

-द्वाताहताब्धिलहरीमदहारदक्षाः ।

वादेषु यत्करुणया प्रगलन्ति तां त्वां

वाणीमनन्यशरणः शरणं प्रपद्ये ॥ २ ॥

राकाशशाङ्कसदृशाननपङ्कजातां

शोकापहारचतुराङ्घ्रिसरोजपूजाम् ।

पाकारिमुख्यदिविषत्प्रवरेड्यमानां

वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ३ ॥

बालोडुपप्रविलसत्कचमध्यभागां

नीलोत्पलप्रतिभटाक्षिविराजमानाम् ।

कालोन्मिषत्किसलयारुणपादपद्मां

वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ४ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री वाणी शरणागति स्तोत्रम् ॥

sri vani sharanagati stotram