Skip to main content
पडताळणी प्रलंबित

श्री काली स्तवनम् (शाकिनी स्तोत्रम्)

श्रीआनन्दभैरवी उवाच ।

महाकाल शिवानन्द परमानन्द निर्भर ।

त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः ॥ १ ॥

शाकिनी हृदये भाति सा देवी जननी शिवा ।

कालीति जगति ख्याता सा देवी हृदयस्थिता ॥ २ ॥

निरञ्जना निराकारा नीलाञ्जनविकासिनी ।

आद्या देवी कालिकाख्या केवला निष्कला शिवा ॥ ३ ॥

अनन्ताऽनन्तरूपस्था शाकिनी हृदयस्थिता ।

तामसी तारिणी तारा महोग्रा नीलविग्रहा ॥ ४ ॥

कपाला मुण्डमालाढ्या शववाहनवाहना ।

ललज्जिह्वा सरोजाक्षी चन्द्रकोटिसमोदया ॥ ५ ॥

वाय्वग्निभूजलान्तस्था भवानी शून्यवासिनी ।

तस्मात् स्तोत्रमप्रकाश्यं कृष्णकाल्याः कुलोदयम् ॥ ६ ॥

श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् ।

गोपनीयं प्रयत्नेन सावधानोऽवधारय ॥ ७ ॥

महाभैरवी उवाच ।

श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं

गुञ्जद्गर्वगुरुप्रभानखमुखाह्लादैककृष्णासनम् ।

प्रेतारण्यासननिर्मितामलकजा नन्दोपरिश्वासनं

श्रीमन्नाथकरारविन्दमिलनं नेत्राञ्जनं राजते ॥ ८ ॥

दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङ्गतिः शीतनीतौ

मिथ्यामिथ्यासुरथ्या नतिररतिसती जातिवृत्तिर्गुणोक्तिः ।

व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकाशगङ्गा

श्रीदुर्गाशम्भुकालीचरणकमलकं सर्वदा भाति सूक्ष्मम् ॥ ९ ॥

देवेन्द्राः पञ्चभूता रविशशिमुकुटाः क्रोधवेतालकोलाः

कैलासस्थाः प्रशस्ताः स्तवनमपि तत्प्रत्यहं सम्पठन्ति ।

आत्मानं श्रीदकालीकुलचरणतलं हृत्कुलानन्दपद्मे

ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः ॥ १० ॥

श्रुत्वा स्तोत्रगुणं तवैव चरणाम्भोजस्य वाञ्छाफलं

प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः ।

मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे

योग्यश्रीचरणाम्बुजे त्रिजगतामानन्दपुञ्जे सुखम् ॥ ११ ॥

पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूढार्थगुप्तिं

श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् ।

योगानन्दं शिवान्तः सुरतरुफलदं सर्ववेदान्तभाष्यं

सत्सङ्गं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् ॥ १२ ॥

आह्लादोद्रेककारी परमपदविदां प्रोल्बणार्थप्रकाशः

प्रेष्यः पारार्थचिन्तामणिगुणसरलः पारणः प्रेमगानः ।

सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता

मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः ॥ १३ ॥

नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन

निर्मलचित्तगसुरगुणपारग सुखसुधाकरस्थित-

-हास्येन योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन ॥ १४ ॥

हरिविधिहर अपरपरसरभावकपाल

सेवनेन सुन्दरी काली चरणेन ॥ १५ ॥

भास्वत्कोटिप्रचण्डानलगुणललिताभाविता सिद्धकाली

प्रोक्तं यद्योगगीतावचनसुरचनामङ्गलं योगिनाद्या ।

श्यामानन्दद्रुमाख्ये भजनयजनगङ्गाङ्गतीरप्रकाशं

सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मय्यभावे ॥ १६ ॥

एतत्प्रथमे कुलं गुरुकुलं लावण्यलीलाकुलं

प्राणानन्दकुलं कुलाकुलकुलं कालीकुलं सङ्कुलम् ।

मातः कालियुगादि कौलिनि शिवे सर्वन्तराङ्गस्थितं

नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे ॥ १७ ॥

हेरम्बादिकुलेशयोगजननि त्वं योगतत्त्वप्रिया

यद्येवं कुरुते पदाम्बुजरजो योगं तवानन्ददम् ।

सः स्यात्सङ्कटपाटलारिसदनं जित्वा स्वयं मन्मथं

श्रीमान्मन्मथमन्मथः प्रचयति ह्यष्टाङ्गयोगं परम् ॥ १८ ॥

योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं

त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः ।

भावं भूधरराजराजदुहिते ज्ञातं विचारं तव

श्रीपादाम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले ॥ १९ ॥

आदावष्टाङ्गयोगं वदति भवसुखं भक्तिसिद्धान्तमेकं

भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङ्गजायाः ।

सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात्

प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् ॥ २० ॥

मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां

दारे देवगुणे विधेहि सकलं शान्तिक्रियामङ्गलम् ।

यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद्भुवं

तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् ॥ २१ ॥

एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः

सर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् ।

इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ

मूले वेददलोज्ज्वले कुलपथे श्रीकुण्डलीं भावय ॥ २२ ॥

शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा

लावण्याम्बुधिरत्नकोटिकिरणाह्लादैकमूर्तिप्रभा ।

एकाकारपराक्रमादपय मा क्रोधक्रमक्षोभिणी

या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे ॥ २३ ॥

रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे

व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् ।

मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं

श्रीकालीं कुलपण्डितां गुणवतीं शान्तिं समाराधय ॥ २४ ॥

शिवस्त्री या शान्तिः परमसुखदा भावजनिका

विवेकः सञ्जातो वहसि च तया भाति नियतम् ।

विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर-

-मदो ब्रह्मज्ञानं परमममले योगिनि परे ॥ २५ ॥

द्वयं ब्रह्मज्ञानं परमममले चागममयं

विवेकोद्भूतं स्यादमलपरमं शब्दमपरम् ।

द्वयोर्मूलीभूता हृदि सपदि शान्तिः प्रियतमा

प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा ॥ २६ ॥

कुलश्रीकुण्डल्याः परमरसभावं नवमयं

पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् ।

वदामि प्रोत्साहे वशषसशुभे हाटकनिभे

विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् ॥ २७ ॥

त्रयं स्थानं नित्यं रविशशिकलावह्निघटितं

महातीर्थं सम्यक् पवनगगनस्थं भवकरम् ।

विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं

सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् ॥ २८ ॥

त्रयं संशोध्यादौ परमपदवीं गच्छति महान्

सुदृष्टाङ्गैर्योगैः परिभवति शुद्धं मम तनुम् ।

अतो योगाष्टाङ्गं कलुषसुखमुक्तं वितनुते

क्रियादौ सङ्कुर्याद्यमनियमकार्यं यतिवरः ॥ २९ ॥

अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं

धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः ।

क्षमालध्वाहारी समगुणपरानन्दनिपुणः

स्वयं सिद्धः सद्ब्राह्मणकुलपताकी सुखमयी ॥ ३० ॥

तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान्

यतीनां सिद्धान्तश्रवणहृदयप्राणविलयः ।

जयानन्दामग्नो हवनमनलेपः प्रकुरुते

महाभक्तः श्रीह्रीर्मतिरतिकुलीनस्तव पदः ॥ ३१ ॥

सुषुम्नामुखाम्भोरुहाग्रे च पद्मं

दलं चेदहेमाक्षरं मूलदेशे ।

स्थिरापृष्ठवंशस्य मध्ये सुषुम्ना-

-ऽन्तरे वज्रिणी चित्रिणीभासिपद्मैः ॥ ३२ ॥

सुषुम्नादिनाड्या युगात् कर्णमूला-

-त्प्रकाशप्रकाशा बहिर्युग्मनाडी ।

इडा पिङ्गला वामभागे च दक्षे

सुधांशूरवी राजसे तत्र नित्यम् ॥ ३३ ॥

विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि

त्वमेका कल्याणी गिरिशजननी कालिकलया ।

परानन्दं कृत्वा यदि परिजपन्ति प्रियतमाः

परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् ॥ ३४ ॥

अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं

स्वीयाङ्गुलार्धघटितं प्रशरं शनैर्यः ।

सम्योज्य तालुरसनागलरन्ध्रमध्ये

दन्तीक्रियामुपचरेत् तव भावनाय ॥ ३५ ॥

नाडीक्षालनमाकरोति यतिराड्दण्डे त्रयं धारयन्

युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् ।

प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा-

-दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षणात् ॥ ३६ ॥

वदामि परमश्रिये पदपद्मयोगं शुभं

हिताय जगतां मम प्रियगणस्य भागश्रिये ।

सदा हि कुरुते नरः सकलयोगसिद्धिं मुदा

तदैव तव सेवको जननि मातरेकाक्षरम् ॥ ३७ ॥

करुणासागरे मग्नः सदा निर्मलतेजसा ।

तवाङ्घ्रिकोमलाम्भोजं ध्यात्वा योगीश्वरो भवेत् ॥ ३८ ॥

करुणासागरे मग्नो येन योगेन निर्मलः ।

तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः ॥ ३९ ॥

यमनियमसुकाले नेउलीयोगशिक्षा

प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री ।

हृदयकफविनाशा धोतिका योगशिक्षा

गलविलगलवस्त्रं षष्टिहस्तं वहन्ती ॥ ४० ॥

सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल-

-प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् ।

पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा

स्वकण्ठकमलोदयाममलभीतदामा भजे ॥ ४१ ॥

भजति यदि कुमारीं नेउली योगदृष्ट्या

स भवति परवेत्ता मोहजालं छिनत्ति ।

स्मितमुखि भवति त्वां मूढ एवातिजीवो

भ्रमितमुदवधूर्ना कारसिद्धिं ददासि ॥ ४२ ॥

शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते

शिवे योगी मासादपि भवति वायुं स्थगयति ।

असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले

नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् ॥ ४३ ॥

कुलाकुलचेतता परिकरोषि विल्वच्छदी

सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका ।

मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी

ददास्यमरसम्पदं दलवियोगमूर्ध्वोदरीम् ॥ ४४ ॥

पञ्चामरासाधनयोगकर्त्री

पञ्चामरानाम महौषधिः स्थिता ।

त्वमेव सर्वेश्वररूपधारिणी

यैः पूज्यते सोऽहिकपारमेष्ठी ॥ ४५ ॥

पठति यदि भवान्याः शाकिनीदेहदेव्याः

स्तवनमरुणवर्णामार्कलक्ष्म्याः प्रकाशम् ।

व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो

मनुजपनसुशीलो लीलया शम्भुरूपम् ॥ ४६ ॥

प्रातर्मध्याह्नकाले च सायाह्ने च त्रिसप्तके ।

शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् ॥ ४७ ॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीकृत श्री काली स्तवनं नाम द्विसप्ततितमः पटलः ॥

sri kali stavanam shakini stotram