Skip to main content
पडताळणी प्रलंबित

श्री शारदा दशकम्

करवाणि वाणि किं वा

जगति प्रचयाय धर्ममार्गस्य ।

कथयाशु तत्करोम्यह-

-महर्निशं तत्र मा कृथा विशयम् ॥ १ ॥

गणनां विधाय मत्कृत-

-पापानां किं धृताक्षमालिकया ।

तान्ताद्याप्यसमाप्ते-

-र्निश्चलतां पाणिपङ्कजे धत्से ॥ २ ॥

विविधाशया मदीयं

निकटं दूराज्जनाः समायान्ति ।

तेषां तस्याः कथमिव

पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३ ॥

गतिजितमरालगर्वां

मतिदानधुरन्धरां प्रणम्रेभ्यः ।

यतिनाथसेवितपदा-

-मतिभक्त्या नौमि शारदां सदयाम् ॥ ४ ॥

जगदम्बां नगतनुजा-

-धवसहजां जातरूपतनुवल्लीम् ।

नीलेन्दीवरनयनां

बालेन्दुकचां नमामि विधिजायाम् ॥ ५ ॥

भारो भारति न स्या-

-द्वसुधायास्तद्वदम्ब कुरु शीघ्रम् ।

नास्तिकतानास्तिकता-

-करणात्कारुण्यदुग्धवाराशे ॥ ६ ॥

निकटे वसन्तमनिशं

पक्षिणमपि पालयामि करतोऽहम् ।

किमु भक्तियुक्तलोका-

-निति बोधार्थं करे शुकं धत्से ॥ ७ ॥

शृङ्गाद्रिस्थितजनता-

-मनेकरोगैरुपद्रुतां वाणि ।

विनिवार्य सकलरोगान्

पालय करुणार्द्रदृष्टिपातेन ॥ ८ ॥

मद्विरहादतिभीतान्

मदेकशरणानतीव दुःखार्तान् ।

मयि यदि करुणा तव भो

पालय शृङ्गाद्रिवासिनो लोकान् ॥ ९ ॥

सदनमहेतुकृपाया

रदनविनिर्धूतकुन्दगर्वालिम् ।

मदनरिपुसहोत्थां

सरसिजभवभामिनीं हृदा कलये ॥ १० ॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितं श्री शारदा दशकम् ॥

sri sharada dashakam