Skip to main content
पडताळणी प्रलंबित

श्री काली शान्ति स्तोत्रम्

काली कालि महाकालि कालिके पापहारिणि ।

धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तु ते ॥ १ ॥

सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे ।

धर्मकामार्थसम्पत्तिं देहि कालि नमोऽस्तु ते ॥ २ ॥

उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये ।

श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३ ॥

अरण्य चारिणि शिवे कुलद्रव्यमयीश्वरि ।

प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥ ४ ॥

शुभानि सन्तु कौलानां नश्यन्तु द्वेषकारकाः ।

निन्दाकरा क्षयं पान्तु ये च हास्य प्रकुर्वते ॥ ५ ॥

ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये ।

येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये ॥ ६ ॥

ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः ।

पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥ ७ ॥

आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः ।

यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥ ८ ॥

कुलमार्गेषु या निन्दा सा निन्दा तव कालिके ।

त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥ ९ ॥

न वेदं न तपो दानं नोपवासादिकं व्रतम् ।

चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥ १० ॥

किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया ।

त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥ ११ ॥

राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा ।

तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥ १२ ॥

धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम ।

यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥ १३ ॥

दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः ।

नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥ १४ ॥

पिशाच भूत वेतालां क्षेत्रपाला विनायकाः ।

गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥ १५ ॥

भारुण्डा जम्भकाः स्कान्दाः प्रमथाः पितरस्तथा ।

योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥ १६ ॥

भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि ।

दिवाचरा रात्रिचरा ये च सन्ध्याचरा अपि ॥ १७ ॥

शाखाचरा वनचराः कन्दराशैलचारिणः ।

द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥ १८ ॥

स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते ।

सर्पा नागा यातुधाना दस्युमायाविनस्तथा ॥ १९ ॥

हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः ।

मारणोच्चाटनोन्मूल द्वेष मोहनकारकाः ॥ २० ॥

कृत्याभिचारकर्तारः कौलविश्वासघातकाः ।

त्वत्प्रसादाज्जगद्धात्रि निधनं यान्तु तेऽखिलाः ॥ २१ ॥

नवग्रहाः सतिथयो नक्षत्राणि च राशयः ।

सङ्क्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥ २२ ॥

कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा ।

मन्वन्तराणि कल्पाश्च युगानि युगसन्धयः ॥ २३ ॥

देवलोकाः लोकपालाः पितरो वह्नयस्तथा ।

अध्वरा निधयो वेदाः पुराणागमसंहिता ॥ २४ ॥

एते मया कीर्तिता ये ये चान्ये नानुकीर्तिताः ।

आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥ २५ ॥

भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः ।

आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥ २६ ॥

दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे ।

अकालमृत्यु दारिद्र्यं बन्धनं नृपतेर्भयम् ॥ २७ ॥

गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम ।

सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥ २८ ॥

वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा ।

बलं वित्तं यशः कान्तिर्वृद्धिर्विद्या महोदयः ॥ २९ ॥

दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च ।

विनाशो द्वेषकर्तॄणां कौलिकानां महोन्नतिः ।

जायतां शान्तिपाठेन कुलवर्त्म धृतात्मनाम् ॥ ३० ॥

इति श्री काली शान्ति स्तोत्रम् ।

sri kali shanti stotram