Skip to main content
पडताळणी प्रलंबित

अखिलाण्डेश्वरी स्तोत्रम्

ओं‍कारार्णवमध्यगे त्रिपथगे ओं‍कारबीजात्मिके

ओं‍कारेण सुखप्रदे शुभकरे ओं‍कारबिन्दुप्रिये ।

ओं‍कारे जगदम्बिके शशिकले ओं‍कारपीठस्थिते

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १ ॥

ह्रीं‍कारार्णववर्णमध्यनिलये ह्रीं‍कारवर्णात्मिके ।

ह्रीं‍काराब्धिसुचारुचान्द्रकधरे ह्रीं‍कारनादप्रिये ।

ह्रीं‍कारे त्रिपुरेश्वरी सुचरिते ह्रीं‍कारपीठस्थिते

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २ ॥

श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरि

श्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये ।

श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रिये

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३ ॥

कस्तूरीतिलकोज्ज्वले कलिहरे क्लीङ्कारबीजात्मिके

कल्याणी जगदीश्वरी भगवती कादम्बवासप्रिये ।

कामाक्षी सकलेश्वरी शुभकरे क्लीङ्कारपीठस्थिते

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ४ ॥

नादे नारदतुम्बुरादिविनुते नारायणी मङ्गले

नानालङ्कृतहारनूपुरधरे नासामणीभासुरे ।

नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थले

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ५ ॥

श्यामाङ्गी शरदिन्दुकोटिवदने सिद्धान्तमार्गप्रिये

शान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने ।

शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदे

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ६ ॥

माङ्गल्ये मधुरप्रिये मधुमती माङ्गल्यसूत्रोज्ज्वले

माहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि ।

मान्धातृप्रमुखादिपूजितपदे मन्त्रार्थसिद्धिप्रदे

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ७ ॥

तत्त्वे तत्त्वमयी परात्परमयि ज्योतिर्मयी चिन्मयि

नादे नादमयी सदाशिवमयी तत्त्वार्थसारात्मिके ।

शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिके

दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ८ ॥

कदम्बवृक्षमूले त्वं वासिनि शुभधारिणि ।

धराधरसुते देवि मङ्गलं कुरु शङ्करि ॥ ९ ॥

ध्यात्वा त्वां देवि दशकं ये पठन्ति भृगोर्दिने ।

तेषां च धनमायुष्यमारोग्यं पुत्रसम्पदः ॥ १० ॥

इति श्री अखिलाण्डेश्वरी स्तोत्रम् ।

akhilandeshwari stotram