Skip to main content
पडताळणी प्रलंबित

श्री ब्रह्म पञ्चरत्न स्तोत्रम् (महानिर्वाणतन्त्रे)

ओं नमस्ते सते सर्वलोकाश्रयाय

नमस्ते चिते विश्वरूपात्मकाय ।

नमोऽद्वैततत्त्वाय मुक्तिप्रदाय

नमो ब्रह्मणे व्यापिने निर्गुणाय ॥ १ ॥

त्वमेकं शरण्यं त्वमेकं वरेण्यं

त्वमेकं जगत्कारणं विश्वरूपम् ।

त्वमेकं जगत् कर्तृपातृप्रहर्तृ

त्वमेकं परं निश्चलं निर्विकल्पम् ॥ २ ॥

भयानां भयं भीषणं भीषणानां

गतिः प्राणिनां पावनं पावनानाम् ।

महोच्चैःपदानां नियन्तृत्वमेकं

परेषां परं रक्षकं रक्षकानाम् ॥ ३ ॥

परेश प्रभो सर्वरूपाप्रकाशि-

-न्ननिर्देश्य सर्वेन्द्रियागम्य सत्य ।

अचिन्त्याक्षर व्यापकाव्यक्ततत्त्व

जगद्भासकाधीश पायादपायात् ॥ ४ ॥

तदेकं स्मरामस्तदेकं जपाम-

-स्तदेकं जगत्साक्षिरूपं नमामः ।

सदेकं निधानं निरालम्बमीशं

भवाम्भोधिपोतं शरण्यं व्रजामः ॥ ५ ॥

पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः परमात्मनः ।

यं पठेत् प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ ६ ॥

प्रदोषेऽदः पठेन्नित्यं सोमवारे विशेषतः ।

श्रावयेद्बोधयेत्प्राज्ञो ब्रह्मनिष्ठान् स्वबान्धवान् ॥ ७ ॥

इति महानिर्वाणतन्त्रे तृतीयोल्लासे श्री ब्रह्म पञ्चरत्न स्तोत्रम् ॥

sri brahma pancharatna stotram mahanirvana tantre