Skip to main content
पडताळणी प्रलंबित

सन्तान गणपति स्तोत्रम्

नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च ।

सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ १ ॥

गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते ।

गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ २ ॥

विश्वमूलाय भव्याय विश्वसृष्टिकराय ते ।

नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ ३ ॥

एकदन्ताय शुद्धाय सुमुखाय नमो नमः ।

प्रपन्नजनपालाय प्रणतार्तिविनाशिने ॥ ४ ॥

शरणं भव देवेश सन्ततिं सुदृढा कुरु ।

भविष्यन्ति च ये पुत्रा मत्कुले गणनायक ॥ ५ ॥

ते सर्वे तव पूजार्थं निरताः स्युर्वरोमतः ।

पुत्रप्रदमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ ६ ॥

इति सन्तानगणपतिस्तोत्रं सम्पूर्णम् ।

santhana ganapathi stotram