Skip to main content
पडताळणी प्रलंबित

गकारादि श्री गणपति सहस्रनाम स्तोत्रम्

अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः अनुष्टुप्छन्दः श्रीगणपतिर्देवता गं बीजं स्वाहा शक्तिः ग्लौं कीलकं मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

न्यासः ।

ओं अङ्गुष्ठाभ्यां नमः ।

श्रीं तर्जनीभ्यां नमः ।

ह्रीं मध्यमाभ्यां नमः ।

क्रीं अनामिकाभ्यां नमः ।

ग्लौं कनिष्ठिकाभ्यां नमः ।

गं करतलकरपृष्ठाभ्यां नमः ।

ओं हृदयाय नमः ।

श्रीं शिरसे स्वाहा ।

ह्रीं शिखायै वषट् ।

क्रीं कवचाय हुम् ।

ग्लौं नेत्रत्रयाय वौषट् ।

गं अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

ओङ्कार सन्निभमिभाननमिन्दुभालम्

मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।

लम्बोदरं कलचतुर्भुजमादिदेवं

ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥

ध्यायेन्नित्यं गणेशं परमगुणयुतं चित्तसंस्थं त्रिणेत्रम्

एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।

शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोल मत्तालिमालम्

श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ।

स्तोत्रम् ।

ओं गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः ।

गणनाथो गणस्वामी गणेशो गणनायकः ॥ १ ॥

गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।

गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥ २ ॥

गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।

गणराड्गणगोप्ताथ गणाङ्गो गणदैवतम् ॥ ३ ॥

गणबन्धुर्गणसुहृद्गणाधीशो गणप्रथः ।

गणप्रियसखः शश्वद्गणप्रियसुहृत्तथा ॥ ४ ॥

गणप्रियरतो नित्यं गणप्रीतिविवर्धनः ।

गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ ५ ॥

गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः ।

गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥ ६ ॥

गणभीतिप्रमथनो गणभीत्यपहारकः ।

गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ ७ ॥

गणसेनो गणचरो गणप्रज्ञो गणैकराट् ।

गणाग्र्यो गणनामा च गणपालनतत्परः ॥ ८ ॥

गणजिद्गणगर्भस्थो गणप्रवणमानसः ।

गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ ९ ॥

गणार्चिताङ्घ्रियुगलो गणरक्षणकृत्सदा ।

गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ १० ॥

गणागणपरित्राता गणाधिहरणोद्धुरः ।

गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥ ११ ॥

गणहेतुर्गणग्राही गणानुग्रहकारकः ।

गणागणानुग्रहभूर्गणागणवरप्रदः ॥ १२ ॥

गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।

गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥ १३ ॥

गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।

गणप्रथितनामा च गणाभीष्टकरः सदा ॥ १४ ॥

गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।

गणपालो गणवरो गणगौरवदायकः ॥ १५ ॥

गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा ।

गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ १६ ॥

गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः ।

गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥

गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।

गुणपूर्णो गुणाम्भोधिर्गुणभाग्गुणदूरगः ॥ १८ ॥

गुणागुणवपुर्गौणशरीरो गुणमण्डितः ।

गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥ १९ ॥

गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट् । [गुणमुख्यो]

गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः ॥ २० ॥

गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः ।

गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ २१ ॥

गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।

गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ २२ ॥

गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।

गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ २३ ॥

गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।

गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥ २४ ॥

गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् । [गुण्यो]

गुणप्रचारी गुणयुग्गुणागुणविवेककृत् ॥ २५ ॥

गुणाकरो गुणकरो गुणप्रवणवर्धनः ।

गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥ २६ ॥

गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।

गुणहारी गुणकलो गुणसङ्घसखस्सदा ॥ २७ ॥

गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।

गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥ २८ ॥

गुणाधीशो गुणलयो गुणवीक्षणलालसः ।

गुणगौरवदाता च गुणदाता गुणप्रदः ॥ २९ ॥

गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः ।

गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ ३० ॥

गुणचक्रधरो गौणावतारो गुणबान्धवः ।

गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ ३१ ॥

गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।

गुणयायी गुणाधायी गुणपो गुणपालकः ॥ ३२ ॥

गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।

गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ ३३ ॥

गुणवद्गीतकीर्तिश्च गुणवद्बद्धसौहृदः ।

गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३४ ॥

गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।

गुणवद्रक्षणपरो गुणवत्प्रणतप्रियः ॥ ३५ ॥

गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः ।

गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ३६ ॥

गुणवत्पोषणकरो गुणवच्छत्रुसूदनः ।

गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥ ३७ ॥

गुणवत्प्रणवस्वान्तो गुणवद्गुणभूषणः ।

गुणवत्कुलविद्वेषिविनाशकरणक्षमः ॥ ३८ ॥

गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिस्स्वनः ।

गजो गजपतिर्गर्जद्गजयुद्धविशारदः ॥ ३९ ॥

गजास्यो गजकर्णोऽथ गजराजो गजाननः ।

गजरूपधरो गर्जद्गजयूथोद्धरध्वनिः ॥ ४० ॥

गजाधीशो गजाधारो गजासुरजयोद्धुरः ।

गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ ४१ ॥

गजमायो गजमयो गजश्रीर्गजगर्जितः ।

गजमयाहरो नित्यं गजपुष्टिप्रदायकः ॥ ४२ ॥

गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः ।

गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ ४३ ॥

गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।

गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ ४४ ॥

गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।

गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ ४५ ॥

गजच्छद्म गजाग्रस्थो गजयायी गजाजयः ।

गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥ ४६ ॥

गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टपः ।

गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥ ४७ ॥

गानश्लाघी गानरसो गानज्ञानपरायणः ।

गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ ४८ ॥

गानकृद्गानचतुरो गानविद्याविशारदः ।

गानध्येयो गानगम्यो गानध्यानपरायणः ॥ ४९ ॥

गानभूर्गानशीलश्च गानशाली गतश्रमः ।

गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ ५० ॥

गानायत्तो गानमयो गानप्रणयवान् सदा ।

गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ ५१ ॥

गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।

गानाङ्गज्ञानवान् गानमानवान् गानपेशलः ॥ ५२ ॥

गानवत्प्रणयो गानसमुद्रो गानभूषणः ।

गानसिन्धुर्गानपरो गानप्राणो गानाश्रयः ॥ ५३ ॥

गानैकभूर्गानहृष्टो गानचक्षुर्गानैकदृक् ।

गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥ ५४ ॥

गानान्तरात्मा गानाढ्यो गानाभ्राजत्सुभास्वरः ।

गानमायो गानधरो गानविद्याविशोधकः ॥ ५५ ॥

गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रियः ।

गानाधीशो गानलयो गानाधारो गतीश्वरः ॥ ५६ ॥

गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।

गानतानरतो गानतानध्यानविमोहितः ॥ ५७ ॥

गुरुर्गुरूदरश्रोणिर्गुरुतत्त्वार्थदर्शनः ।

गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥ ५८ ॥

गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः ।

गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥ ५९ ॥

गुरुविद्यो गुरुत्राणो गुरुबाहुर्बलोच्छ्रयः ।

गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥ ६० ॥

गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।

गुरुगौरवदायी च गुरुभीत्यपहारकः ॥ ६१ ॥

गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः ।

गुरुफालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ ६२ ॥

गुरूरुर्गुरुपीनांसो गुरुप्रणयलालसः ।

गुरुमुख्यो गुरुकुलस्थायी गुरुगुणस्सदा ॥ ६३ ॥

गुरुसंशयभेत्ता च गुरुमान्यप्रदायकः ।

गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥ ६४ ॥ [धार्मिक]

गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ।

गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः ।

गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ॥ ६५ ॥

गुरुधर्मधरो गौरधर्माधारो गदापहः ।

गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ॥ ६६ ॥

गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयस्सदा ।

गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रदः ॥ ६७ ॥

[गुरुपातकसन्दोहप्रायश्चित्तायितार्चनः]

गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः ।

गुरुसंसारसुखदो गुरुसंसारदुःखभित् ॥ ६८ ॥

गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् ।

गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ॥ ६९ ॥

गुरुकान्तिर्गुरुमहान् गुरुशासनपालकः ।

गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥ ७० ॥

गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः ।

गुरुक्रमो गुरुप्रेष्ठो गुरुपाषण्डखण्डकः ॥ ७१ ॥

गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।

गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ॥ ७२ ॥

गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ।

गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ॥ ७३ ॥

गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः ।

गुरुविज्ञानविभवो गौरभानुवरप्रदः ॥ ७४ ॥

गौरभानुस्तुतो गौरभानुत्रासापहारकः ।

गौरभानुप्रियो गौरभानुर्गौरववर्धनः ॥ ७५ ॥

गौरभानुपरित्राता गौरभानुसखस्सदा ।

गौरभानुप्रभुर्गौरभानुभीतिप्रणाशनः ॥ ७६ ॥

गौरीतेजस्समुत्पन्नो गौरीहृदयनन्दनः ।

गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७७ ॥

गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ।

गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ॥ ७८ ॥

गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः ।

गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ॥ ७९ ॥

गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ।

गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥ ८० ॥

गौतमाभीष्टवरदो गौतमाभयदायकः ।

गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ॥ ८१ ॥

गौतमीतीरसञ्चारी गौतमीतीर्थनायकः ।

गौतमापत्परिहारो गौतमाधिविनाशनः ॥ ८२ ॥

गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः ।

गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥ ८३ ॥

गोसहस्रो गोपवरो गोपगोपीसुखावहः ।

गोवर्धनो गोपगोपो गोमान्गोकुलवर्धनः ॥ ८४ ॥

गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।

गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ॥ ८५ ॥

गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः ।

गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ॥ ८६ ॥

गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः ।

गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोपयप्रियः ॥ ८७ ॥

गोत्रो गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ।

गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ॥ ८८ ॥

गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् ।

गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ॥ ८९ ॥

गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः ।

गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ॥ ९० ॥

गोत्रविद्गोत्रभित्त्राता गोत्रभिद्वरदायकः ।

गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ॥ ९१ ॥

गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः ।

गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ॥ ९२ ॥

गोत्रभिद्वरदायी च गोत्रभित्प्रणयास्पदम् ।

गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ॥ ९३ ॥

गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायकः ।

गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥ ९४ ॥

ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थभिद्ग्रन्थविघ्नहा ।

ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ॥ ९५ ॥

ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।

ग्रन्थसंशयसञ्छेत्ता ग्रन्थवक्ता ग्रहाग्रणीः ॥ ९६ ॥

ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ।

ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥ ९७ ॥

ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भशोधकः ।

ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ॥ ९८ ॥

ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ।

ग्रन्थकृद्वरदाता च ग्रन्थकृद्ग्रन्थवन्दितः ॥ ९९ ॥

ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ।

ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥ १०० ॥

ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ।

ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ॥ १०१ ॥

ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः ।

ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥ १०२ ॥

ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः ।

ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ॥ १०३ ॥

ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः ।

गीतो गीतगुणो गीतकीर्तिर्गीतविशारदः ॥ १०४ ॥

गीतस्फीतयशा गीतप्रणयी गीतचञ्चुरः ।

गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥ १०५ ॥

गीताश्रयो गीतमयो गीतातत्त्वार्थकोविदः ।

गीतासंशयसञ्छेत्ता गीतासङ्गीतशाशनः ॥ १०६ ॥

गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गीताश्रयः ।

गीतासारो गीताकृतिर्गीताविघ्ननाशनः ॥ १०७ ॥

गीतासक्तो गीतलीनो गीताविगतसञ्ज्वरः ।

गीतैकधृग्गीतभूतिर्गीतप्रीतिर्गतालसः ॥ १०८ ॥

गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ।

गीतागीतविवेकज्ञो गीताप्रवणचेतनः ॥ १०९ ॥

गतभीर्गतविद्वेषो गतसंसारबन्धनः ।

गतमायो गतत्रासो गतदुःखो गतज्वरः ॥ ११० ॥

गतासुहृद्गताज्ञानो गतदुष्टाशयो गतः ।

गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ॥ १११ ॥

गताहङ्कारसञ्चारो गतदर्पो गताहितः ।

गतविघ्नो गतभयो गतागतनिवारकः ॥ ११२ ॥

गतव्यथो गतापायो गतदोषो गतेः परः ।

गतसर्वविकारोऽथ गतगर्जितकुञ्जरः ॥ ११३ ॥

गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः ।

गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ॥ ११४ ॥

गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः ।

गताभावो गतभवो गततत्त्वार्थसंशयः ॥ ११५ ॥

गयासुरशिरश्छेत्ता गयासुरवरप्रदः ।

गयावासो गयानाथो गयावासिनमस्कृतः ॥ ११६ ॥

गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः ।

गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥ ११७ ॥

गयावासिस्तुतो गायन्मधुव्रतलसत्कटः ।

गायको गायकवरो गायकेष्टफलप्रदः ॥ ११८ ॥

गायकप्रणयी गाता गायकाभयदायकः ।

गायकप्रवणस्वान्तो गायकप्रथमस्सदा ॥ ११९ ॥

गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा ।

गानगेयो गायकेशो गायकान्तरसञ्चरः ॥ १२० ॥

गायकप्रियदः शश्वद्गायकाधीनविग्रहः ।

गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥ १२१ ॥

गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः ।

गाढानुरागो गाढाङ्गो गाढगङ्गाजलोद्वहः ॥ १२२ ॥

गाढावगाढजलधिर्गाढप्रज्ञो गतामयः ।

गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ॥ १२३ ॥

गाढाश्लेषरसाभिज्ञो गाढनिवृतिसाधकः ।

गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ॥ १२४ ॥

गङ्गाधरगुरुर्गङ्गाधरध्यानपरस्सदा ।

गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ॥ १२५ ॥

गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ।

गङ्गाजलरसास्वादचतुरो गाङ्गनीरपः ॥ १२६ ॥

गङ्गाजलप्रणयवान्गङ्गातीरविहारकृत् ।

गङ्गाप्रियो गाङ्गजलावगाहनपरस्सदा ॥ १२७ ॥

गन्धमादनसंवासो गन्धमादनकेलिकृत् ।

गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ॥ १२८ ॥

गन्धो गन्धर्वराजश्च गन्धर्वप्रियकृत्सदा ।

गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः ॥ १२९ ॥

गकारबीजनिलयो गकारो गर्विगर्वनुत् ।

गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ १३० ॥

गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ।

गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ॥ १३१ ॥

गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ।

गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ॥ १३२ ॥

गन्धर्वाभयदः शश्वद्गन्धर्वप्रतिपालकः ।

गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ॥ १३३ ॥

गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ।

गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ॥ १३४ ॥

गन्धर्वस्त्रीभिराराध्यो गानं गानपटुस्सदा ।

गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥ १३५ ॥

गच्छराजश्च गच्छेशो गच्छराजनमस्कृतः ।

गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ॥ १३६ ॥

गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ।

गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ॥ १३७ ॥

गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ।

गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ॥ १३८ ॥

गीर्वाणगीतचरितो गीर्वाणगणसेवितः ।

गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥ १३९ ॥

गीर्वाणगणसंवीतो गीर्वाणारातिसूदनः ।

गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् ॥ १४० ॥

गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ।

गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ॥ १४१ ॥

गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ।

गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ॥ १४२ ॥

गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ।

गीर्वाणसेवितपदो गीर्वाणप्रथितो गलन् ॥ १४३ ॥

गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ।

गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ॥ १४४ ॥

गीर्वाणगणसम्पत्तिर्गीर्वाणव्यसनापहः ।

गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ॥ १४५ ॥

गीर्वाणश्रमसंहर्ता गीर्वाणगणपालकः ।

ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ॥ १४६ ॥

ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ।

ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ॥ १४७ ॥

ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः ।

ग्रहगीतगुणो ग्रन्थप्रणीता ग्रहवन्दितः ॥ १४८ ॥

गर्वी गर्वीश्वरो गर्वो गर्विष्ठो गर्विगर्वहा ।

गवां‍प्रियो गवां‍नाथो गवेशानो गवां‍पतिः ॥ १४९ ॥

गव्यप्रियो गवाङ्गोप्ता गवीसम्पत्तिसाधकः ।

गवीरक्षणसन्नद्धो गवीभयहरः क्षणात् ॥ १५० ॥

गवीगर्वहरो गोदो गोप्रदो गोजयप्रदः ।

गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ॥ १५१ ॥

गण्डस्थलगलद्दानमिलन्मत्तालिमण्डितः ।

गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः ॥ १५२ ॥

गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ।

गुडभुग्गुडभुग्गुण्यो गुडाकेशवरप्रदः ॥ १५३ ॥

गुडाकेशार्चितपदो गुडाकेशसखस्सदा ।

गदाधरार्चितपदो गदाधरवरप्रदः ॥ १५४ ॥

गदायुधो गदापाणिर्गदायुद्धविशारदः ।

गदहा गददर्पघ्नो गदगर्वप्रणाशनः ॥ १५५ ॥

गदग्रस्तपरित्राता गदाडम्बरखण्डकः ।

गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ॥ १५६ ॥

गुहाप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ।

गीर्गीःपतिर्गिरीशानो गीर्देवीगीतसद्गुणः ॥ १५७ ॥

गीर्देवो गीःप्रियो गीर्भूर्गीरात्मा गीःप्रियङ्करः ।

गीर्भूमिर्गीरसज्ञोऽथ गीःप्रसन्नो गिरीश्वरः ॥ १५८ ॥

गिरीशजो गिरौशायी गिरिराजसुखावहः ।

गिरिराजार्चितपदो गिरिराजनमस्कृतः ॥ १५९ ॥

गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ।

गिरिराजेष्टवरदो गिरिराजप्रपालकः ॥ १६० ॥

गिरिराजसुतासूनुर्गिरिराजजयप्रदः ।

गिरिव्रजवनस्थायी गिरिव्रजचरस्सदा ॥ १६१ ॥

गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृतः ।

गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ॥ १६२ ॥

गर्गगीतप्रसन्नात्मा गर्गानन्दकरस्सदा ।

गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ॥ १६३ ॥

गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ।

गर्गग्लानिहरो गर्गश्रमहृद्गर्गसङ्गतः ॥ १६४ ॥

गर्गाचार्यो गर्गमुनिर्गर्गसन्मानभाजनः ।

गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥ १६५ ॥

गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ।

गणकप्रवणस्वान्तो गणितो गणितागमः ॥ १६६ ॥

गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ।

गललज्ञमहानागो गलदर्चिर्गलन्मदः ॥ १६७ ॥

गलत्कुष्ठव्यथाहन्ता गलतुष्टिसुखप्रदः ।

गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ॥ १६८ ॥

गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ।

गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ॥ १६९ ॥

गर्भागमनसम्भाषो गर्भदो गर्भशोकनुत् ।

गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरस्सदा ॥ १७० ॥

गर्भाश्रयो गर्भमयो गर्भाभयनिवारकः ।

गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ॥ १७१ ॥

गर्भगौरवसन्धानसाधनं गर्भगर्वहृत् ।

गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ॥ १७२ ॥

गरसन्तापशमनो गुरुराज्यसुखप्रदः ।

फलश्रुतिः –

नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ॥ १७४ ॥

गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ।

य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ॥ १७३ ॥

वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ।

पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥ १७४ ॥

विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ।

भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ॥ १७५ ॥

चतुर्थां भौमवारो च चन्द्रसूर्योपरागके ।

पूजयित्वा गणधीशं यथोक्तविधिना पुरा ॥ १७६ ॥

पूजयेद्यो यथाशक्त्या जुहुयाच्च शमीदलैः ।

गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ॥ १७७ ॥

धारयेद्यः प्रयत्नेन स साक्षाद्गणनायकः ।

सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ॥ १७८ ॥

प्रणमन्ति सदा तं वै दुष्ट्वां विस्मितमानसाः ।

राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ॥ १७९ ॥

तस्य वंशो स्थिरा लक्ष्मीः कदापि न विमुञ्चति ।

निष्कामो यः पठेदेतद्गणेश्वरपरायणः ॥ १८० ॥

स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।

इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ॥ १८१ ॥

न देयं कृपणयाथ शठाय गुरुविद्विषे ।

दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥ १८२ ॥

इति श्रुत्वा महादेवी तदा विस्मितमानसा ।

पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥ १८३ ॥

इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे

गकारादि श्रीगणपतिसहस्रनामस्तोत्रम् ॥

gakara sri ganapathi sahasranama stotram