Skip to main content
पडताळणी प्रलंबित

श्री गङ्गाधर स्तोत्रम्

क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्

ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।

निःशङ्कं निजलीलया कवलयन्लोकानुरक्षादरा-

-दार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १ ॥

क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं

क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।

कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २ ॥

मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं

मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः ।

नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३ ॥

व्यूढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं

दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।

पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधयन्

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ४ ॥

बालं शैवकुलोद्भवं परिहसत् स्वज्ञातिपक्षाकुलं

खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।

दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयं भजन्

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ५ ॥

सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके-

-ऽश्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।

रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ६ ॥

श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं

विश्वातीतमपि त्वमेव गतिरित्यालापयन्तं सकृत् ।

रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ७ ॥

गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो

दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।

कारुण्यादवनीतले सुरनदीमापूरयत् पावनीं

आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ८ ॥

इति श्रीमदप्पयदीक्षितविरचितं श्री गङ्गाधर स्तोत्रम् ।

sri gangadhara stotram