Skip to main content
पडताळणी प्रलंबित

पञ्चस्तवि – ३

आनन्दमन्थरपुरन्दरमुक्तमाल्यं

मौलौ हठेन निहितं महिषासुरस्य ।

पादाम्बुजं भवतु मे विजयाय मञ्जु-

-मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १ ॥

देवि त्र्यम्बकपत्नि पार्वति सति त्रैलोक्यमातः शिवे

शर्वाणि त्रिपुरे मृडानि वरदे रुद्राणि कात्यायनि ।

भीमे भैरवि चण्डि शर्वरिकले कालक्षये शूलिनि

त्वत्पादप्रणताननन्यमनसः पर्याकुलान्पाहि नः ॥ २ ॥

देवि त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-

-न्त्याजन्मस्फुरदङ्घ्रिपीठविलुठत्कोटीरकोटिच्छटाः ।

यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते

यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामभ्रुवः ॥ ३ ॥

उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्छा इव

प्राप्तप्रौढमदा इवार्तिविरहग्रस्ता इवार्ता इव ।

ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एवाग्रतः

त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति तान्सुभ्रुवः ॥ ४ ॥

ध्यायन्ति ये क्षणमपि त्रिपुरे हृदि त्वां

लावण्ययौवनधनैरपि विप्रयुक्ताः ।

ते विस्फुरन्ति ललितायतलोचनानां

चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ ५ ॥

एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः

किं वाऽमुं निगराम्यनेन सहसा किं वैकतामाश्रये ।

यस्येत्थं विवशो विकल्पललिताकूतेन योषिज्जनः

किं तद्यन्न करोति देवि हृदये यस्य त्वमावर्तसे ॥ ६ ॥

विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः

शब्दः शक्तिरिति त्रिलोकजननि त्वय्येव तथ्यस्थितिः ।

इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं

त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि चित्रं महत् ॥ ७ ॥

इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं

पाण्डूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् ।

वर्षन्तीममृतं भवानि भवतीं ध्यायन्ति ये देहिनः

ते निर्मुक्तरुजो भवन्ति रिपवः प्रोज्झन्ति तान्दूरतः ॥ ८ ॥

पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव

क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव ।

प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया

चित्तान्तर्निहितार्तितापविपदस्ते सम्पदं बिभ्रति ॥ ९ ॥

ये संस्मरन्ति तरलां सहसोल्लसन्तीं

त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् ।

रागार्णवे बहलरागिणि मज्जयन्तीं

कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ १० ॥

लाक्षारसस्नपितपङ्कजतन्तुतन्वीं

अन्तः स्मरत्यनुदिनं भवतीं भवानि ।

यस्तं स्मरप्रतिममप्रतिमस्वरूपाः

नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥ ११ ॥

स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् ।

कदम्बमालां बिभ्राणामापादतललम्बिनीम् ॥ १२ ॥

मूर्ध्नीन्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं

वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्ध्रेऽपि च ।

अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च

त्वामेवं स्मरतः स्मरारिदयिते वाक्सर्वतो वल्गति ॥ १३ ॥

ददातीष्टान्भोगान् क्षपयति रिपून्हन्ति विपदो

दहत्याधीन्व्याधीन् शमयति सुखानि प्रतनुते ।

हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं

सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ १४ ॥

यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय-

-त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति ।

यश्च त्र्यम्बकवल्लभे तव गुणानाकर्णयत्यादरात्

तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ १५ ॥

किं किं दुःखं दनुजदलिनि क्षीयते न स्मृतायां

का का कीर्तिः कुलकमलिनि ख्याप्यते न स्तुतायाम् ।

का का सिद्धिः सुरवरनुते प्राप्यते नार्चितायां

कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १६ ॥

ये देवि दुर्धरकृतान्तमुखान्तरस्थाः

ये कालि कालघनपाशनितान्तबद्धाः ।

ये चण्डि चण्डगुरुकल्मषसिन्धुमग्नाः

तान्पासि मोचयसि तारयसि स्मृतैव ॥ १७ ॥

लक्ष्मीवशीकरणचूर्णसहोदराणि

त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।

यानि प्रणाममिलितानि नृणां ललाटे

लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ १८ ॥

रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते

यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः ।

भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां

उन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १९ ॥

याचे न कञ्चन न कञ्चन वञ्चयामि

सेवे न कञ्चन निरस्तसमस्तदैन्यः ।

श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्रीः

देवी हृदि स्फुरति मे कुलकामधेनुः ॥ २० ॥

नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।

भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ २१ ॥

इति श्रीकालिदास विरचित पञ्चस्तव्यां तृतीयः घटस्तवः ।

पञ्चस्तवि  ४. अम्बास्तवः >>

panchastavi 3 ghata stava