Skip to main content
पडताळणी प्रलंबित

श्री लक्ष्म्यष्टक स्तोत्रम्

महालक्ष्मि भद्रे परव्योमवासि-

-न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे ।

जये सूरितुष्टे शरण्ये सुकीर्ते

प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १ ॥

सति स्वस्ति ते देवि गायत्रि गौरि

ध्रुवे कामधेनो सुराधीश वन्द्ये ।

सुनीते सुपूर्णेन्दुशीते कुमारि

प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ २ ॥

सदा सिद्धगन्धर्वयक्षेशविद्या-

-धरैः स्तूयमाने रमे रामरामे ।

प्रशस्ते समस्तामरी सेव्यमाने

प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ३ ॥

दुरितौघनिवारणे प्रवीणे

कमले भासुरभागधेय लभ्ये ।

प्रणवप्रतिपाद्यवस्तुरूपे

स्फुरणाख्ये हरिवल्लभे नमस्ते ॥ ४ ॥

सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये

गुप्ते दृप्ते नित्य मुद्गीथविद्ये ।

व्यक्ते विद्वद्भाविते भावनाख्ये

भद्रे भद्रं देहि मे संश्रिताय ॥ ५ ॥

सर्वाधारे सद्गतेऽध्यात्मविद्ये

भाविन्यार्ते निर्वृतेऽध्यात्मवल्लि ।

विश्वाध्यक्षे मङ्गलावासभूमे

भद्रे भद्रं देहि मे संश्रिताय ॥ ६ ॥

अमोघसेवे निजसद्गुणौघे

विदीपितानुश्रवमूर्थभागे ।

अहेतुमीमांस्य महानुभावे

विलोकने मां विषयी कुरुष्व ॥ ७ ॥

उमाशचीकीर्तिसरस्वती धी-

-स्वाहादिनानाविधशक्तिभेदे ।

अशेषलोकाभरणस्वरूपे

विलोकने मां विषयी कुरुष्व ॥ ८ ॥

इत्यहिर्बुध्न्यसंहितायां लक्ष्म्यष्टकम् ॥

sri lakshmi ashtaka stotram in hindi