Skip to main content
पडताळणी प्रलंबित

श्री अम्बा पञ्चरत्न स्तोत्रम्

अम्बाशम्बरवैरितातभगिनी श्रीचन्द्रबिम्बानना

बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।

ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रोणीनितम्बाङ्किता

मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ १ ॥

कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका

काला श्यामलमेचकद्युतिमती कादित्रिपञ्चाक्षरी ।

कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला

मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ २ ॥

काञ्चीकङ्कणहारकुण्डलवती कोटीकिरीटान्विता

कन्दर्पद्युतिकोटिकोटिसदना पीयूषकुम्भस्तना ।

कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया

मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ३ ॥

या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी

या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी ।

या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी

मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ४ ॥

श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चण्डिका

बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।

श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः

मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ ५ ॥

अम्बापञ्चकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं

दिव्यैश्वर्यशतायुरुत्तममतिं विद्यां श्रियं शाश्वतम् ।

लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं

अन्ते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ ६ ॥

इति श्री अम्बा पञ्चरत्न स्तोत्रम् ।

sri amba pancharatnam