Skip to main content
पडताळणी प्रलंबित

श्री रत्नगर्भ गणेश विलास स्तुतिः

वामदेवतनूभवं निजवामभागसमाश्रितं

वल्लभामाश्लिष्य तन्मुखवल्गुवीक्षणदीक्षितम् ।

वातनन्दन वाञ्छितार्थविधायिनं सुखदायिनं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १ ॥

कारणं जगतां कलाधरधारिणं शुभकारिणं

कायकान्ति जितारुणं कृतभक्तपापविदारिणम् ।

वादिवाक्सहकारिणं वाराणसीसञ्चारिणं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २ ॥

मोहसागरतारकं मायाविकुहनावारकं

मृत्युभयपरिहारकं रिपुकृत्यदोषनिवारकम् ।

पूजकाशापूरकं पुण्यार्थसत्कृतिकारकं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३ ॥

आखुदैत्यरथाङ्गमरुणमयूखमर्थि सुखार्थिनं

शेखरीकृत चन्द्ररेखमुदारसुगुणमदारुणम् ।

श्रीखनिं श्रितभक्तनिर्जरशाखिनं लेखावनं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ४ ॥

तुङ्गमूषकवाहनं सुरपुङ्गवारि विमोहनं

मङ्गलायतनं महाजनभृङ्गशान्तिविधायिनम् ।

अङ्गजान्तकनन्दनं सुखभृङ्गपद्मोदञ्चनं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ५ ॥

राघवेश्वररक्षकं रक्षौघशिक्षणदक्षकं

श्रीघनं श्रितमौनिवचनामोघतासम्पादनम् ।

श्लाघनीयदयागुणं मघवत्तपः फलपूरणं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ६ ॥

कञ्चनश्च्युतिगोप्यभावमकिञ्चनांश्च दयारसैः

सिञ्चता निजवीक्षणेन समञ्चितार्थसुखास्पदम् ।

पञ्चवक्त्रसुतं सुरद्विड्वञ्चनाधृत कौशलं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ७ ॥

यच्छतक्रतुकामितं प्रायच्छदर्चितमादरा-

-द्यच्छतच्छदसाम्यमन्वनुगच्छतीच्छति सौहृदम् ।

तच्छुभम्युकराम्बुजं तव दिक्पतिश्रियमर्थिने

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ८ ॥

राजराज किरीटकोटि विराजमान मणिप्रभा

पुञ्जरञ्जितमञ्जुलाङ्घ्रि सरोजमज वृजिनापहम् ।

भञ्जकं दिविषद्द्विषामनुरञ्जकं मुनिसन्तते-

-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ९ ॥

शिष्टकष्टनिबर्हणं सुरजुष्टनिजपदविष्टरं

दुष्टशिक्षणधूर्वहं मुनिपुष्टितुष्टीष्टप्रदम् ।

अष्टमूर्तिसुतं सुकरुणाविष्टमविनष्टादरं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १० ॥

शुण्ठशुष्क वितर्कहरणाकुण्ठशक्तिदमर्थिने

शाठ्यविरहितवितरणं श्रीकण्ठकृतसम्भाषणम् ।

काठकश्रुतिगोचरं कृतमाठपत्यपरीक्षणं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ११ ॥

पुण्डरीककृताननं शशिखण्डकलितशिखण्डकं

कुण्डलीश्वरमण्डितोदरमण्डजेशाभीष्टदम् ।

दण्डपाणिभयापहं मुनिमण्डली परिमण्डनं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १२ ॥

गूढमाम्नायाशयं परिलीढमर्थिमनोरथै-

-र्गाढमाश्लिष्टं गिरीश गिरीशजाभ्यां सादरम् ।

प्रौढसरसकवित्वसिद्धिद मूढनिजभक्तावनं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १३ ॥

पाणिधृतपाशाङ्कुशं गीर्वाणगणसन्दर्शकं

शोणदीधितिमप्रमेयमपर्णया परिपोषितम् ।

काणखञ्जकुणीष्टदं विश्राणितद्विजनामितं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १४ ॥

भूतभव्यभवद्विभुं परिधूतपातकमीशसं-

-जातमङ्घ्रि विलास जितकञ्जातमजितमरातिभिः ।

शीतरश्मिरवीक्षणं निर्गीतमाम्नायोक्तिभि-

-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १५ ॥

प्रार्थनीयपदं महात्मभिरर्थितं पुरवैरिणा-

-ऽनाथवर्गमनोरथानपि सार्थयन्तमहर्निशम् ।

पान्थसत्पथदर्शकं गणनाथमस्मद्दैवतं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १६ ॥

खेदशामकसुचरितं स्वाभेदबोधकमद्वयं

मोदहेतुगुणाकरं वाग्वादविजयदमैश्वरम् ।

श्रीमदनुपमसौहृदं मदनाशकं रिपुसन्तते-

-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १७ ॥

मुग्धमौग्ध्यनिवर्तकं रुचिमुग्धमुर्वनुकम्पया

दिग्धमुद्धृत पादनत जनमुद्धरन्तमिमं च माम् ।

शुद्धचित्सुखविग्रहं परिशुद्धवृत्त्यभिलक्षितं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १८ ॥

सानुकम्पमनारतं मुनिमानसाब्जमरालकं

दीनदैन्यविनाशकं सितभानुरेखाशेखरम् ।

गानरसविद्गीतसुचरितमेनसामपनोदकं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १९ ॥

कोपतापनिरासकं सामीप्यदं निजसत्कथा-

-लापिनां मनुजापि जनतापापहरमखिलेश्वरम् ।

सापराधिजनायशापदमापदामपहारकं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २० ॥

रिफ्फगेषु खगेषु जातो दुष्फलं समवाप्नुया-

-त्सत्फलाय गणेशमर्चतु निष्फलं न तदर्पणम् ।

यः फलीभूतः क्रतूनां तत्फलानामीश्वरं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २१ ॥

अम्बरं यद्वद्विनिर्मलमम्बुदैराच्छाद्यते

बिम्बभूतममुष्य जगतः साम्बसुतमज्ञानतः ।

तं बहिः सङ्गूहितं हेरम्बमालम्बं सतां

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २२ ॥

दम्भकर्माचरणकृत सौरम्भयाजिमुखे मनु-

-स्तम्भकारिणमङ्गनाकुचकुम्भपरिरम्भातुरैः ।

शम्भुसुतमाराधितं कृतिसम्भवाय च कामिभि-

-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २३ ॥

स्तौमि भूतगणेश्वरं सप्रेममात्मस्तुतिपरे

कामितप्रदमर्थिने धृतसोममभयदमाश्विने ।

श्रीमता नवरात्रदीक्षोद्दामवैभवभावितं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २४ ॥

आयुरारोग्यादिकामितदायिनं प्रतिहायनं

श्रेयसे सर्वैर्युगादौ भूयसे सम्भावितम् ।

कायजीववियोग कालापायहरमन्त्रेश्वरं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २५ ॥

वैरिषट्कनिरासकं कामारिकामितजीवितं

शौरिचिन्ताहारकं कृतनारिकेलाहारकम् ।

दूरनिर्जितपातकं संसारसागरसेतुकं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २६ ॥

कालकालकलाभवं कलिकालिकाघविरोधिनं

मूलभूतममुष्यजगतः श्रीलतोपघ्नायितम् ।

कीलकं मन्त्रादिसिद्धेः पालकं मुनिसन्तते-

-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २७ ॥

भावुकारम्भावसरसम्भावितं भर्गेप्सितं

सेवकावनदीक्षितं सहभावमोजस्तेजसोः ।

पावनं देवेषु सामस्तावकेष्टविधायकं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २८ ॥

काशिकापुरकलितनिवसतिमीशमस्मच्चेतसः

पाशिशिक्षापारवश्यविनाशकं शशिभासकम् ।

केशवादिसमर्चितं गौरीशगुप्तमहाधनं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २९ ॥

पेषकं पापस्य दुर्जनशोषकं सुविशेषकं

पोषकं सुजनस्य सुन्दरवेषकं निर्दोषकम् ।

मूषकं त्वधिरुह्य भक्तमनीषित प्रतिपादकं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३० ॥

वासवादिसुरार्चितं कृतवासुदेवाभीप्सितं

भासमानमुरुप्रभाभिरुपासकाधिकसौहृदम् ।

ह्रासकं दुरहङ्कृतेर्निर्यासकं रक्षस्तते-

-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३१ ॥

बाहुलेयगुरुं त्रयी यं प्राह सर्वगणेश्वरं

गूहितं मुनिमानसैरव्याहताधिकवैभवम् ।

आहिताग्निहितं मनीषिभिरूहितं सर्वत्र तं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३२ ॥

केलिजितसुरशाखिनं सुरपालपूजितपादुकं

व्यालपरिबृढ कङ्कणं भक्तालिरक्षणदीक्षितम् ।

कालिकातनयं कलानिधिमौलिमाम्नायस्तुतं

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३३ ॥

दक्षिणेन सुरेषु दुर्जनशिक्षणेषु पटीयसा

रक्षसामपनोदकेन महोक्षवाहप्रेयसा ।

रक्षिता वयमक्षराष्टकलक्षजपतो येन वै

वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३४ ॥

रत्नगर्भगणेश्वरस्तुति नूत्नपद्यततिं पठे-

-द्यत्नवान्यः प्रतिदिनं द्राक्प्रत्नवाक्सदृशार्थदाम् ।

रत्नरुक्मसुखोच्छ्रयं सापत्नविरहितमाप्नुया-

-द्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३५ ॥

सिद्धिनायकसंस्तुतिं सिद्धान्ति सुब्रह्मण्यहृ-

-च्छुद्धये समुदीरितां वाग्बुद्धिबलसन्दायिनीम् ।

सिद्धये पठतानुवासरमीप्सितस्य मनीषिणः

श्रद्धया निर्निघ्नसम्पद्वृद्धिरपि भविता यतः ॥ ३६ ॥

इति श्रीसुब्रह्मण्ययोगिविरचितं रत्नगर्भ गणेश विलास स्तुतिः ।

sri ratnagarbha ganesha vilasa stotram