Skip to main content
पडताळणी प्रलंबित

श्री हालास्येशाष्टकम्

कुण्डोदर उवाच ।

शैलाधीशसुतासहाय सकलाम्नायान्तवेद्य प्रभो

शूलोग्राग्रविदारितान्धकसुरारातीन्द्रवक्षस्थल ।

कालातीत कलाविलास कुशल त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ १ ॥

कोलाच्छच्छदरूपमाधव सुरज्यैष्ठ्यातिदूराङ्घ्रिक

नीलार्धाङ्ग निवेशनिर्जरधुनीभास्वज्जटामण्डल ।

कैलासाचलवास कार्मुकहर त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ २ ॥

फालाक्षप्रभवप्रभञ्जनसख प्रोद्यत्स्फुलिङ्गच्छटा-

-तूलानङ्गकचारुसंहनन सन्मीनेक्षणावल्लभ ।

शैलादिप्रमुखैर्गणैः स्तुतगण त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ३ ॥

मालाकल्पितमालुधानफणसन्माणिक्यभास्वत्तनो

मूलाधार जगत्त्रयस्य मुरजिन्नेत्रारविन्दार्चित ।

साराकारभुजासहस्र गिरिश त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ४ ॥

बालादित्यसहस्रकोटिसदृशोद्यद्वेगवत्यापगा-

-वेलाभूमिविहारनिष्ठ विबुधस्रोतस्विनीशेखर ।

बालावर्ण्यकवित्वभूमिसुखद त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ५ ॥

कीलालावनिपावकानिलनभश्चन्द्रार्कयज्वाकृते

कीलानेकसहस्रसङ्कुलशिखस्तम्भस्वरूपामित ।

चोलादीष्टगृहाङ्गनाविभवद त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ६ ॥

लीलार्थाञ्जलिमेकमेव चरतां साम्राज्यलक्ष्मीप्रद

स्थूलाशेषचराचरात्मक जगत् स्थूणाष्टमूर्ते गुरो ।

तालाङ्कानुज फल्गुनप्रियकर त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ७ ॥

हालास्यागतदेवदैत्यमुनिसङ्गीतापदानक्वण-

-त्तूलाकोटिमनोहराङ्घ्रिकमलानन्दापवर्गप्रद ।

श्रीलीलाकर पद्मनाभवरद त्रायेत ते सन्ततं

हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ८ ॥

लीलानादरमोहतः कपटतो यद्वा कदम्बाटवी-

-हालास्याधिपतीष्टमष्टकमिदं सर्वेष्टसन्दोहनम् ।

हालापानफलान्विहाय सन्ततं सङ्कीर्तयन्तीह ये

ते लाक्षार्द्रपदाबलाभिरखिलान् भोगान् लभन्ते सदा ॥ ९ ॥

इति श्रीहालास्यमहात्म्ये कुण्डोदरकृतं श्रीहालास्येशाष्टकम् ।

sri halasyesha ashtakam